संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|मुमुक्षुव्यवहारप्रकरणम्| सर्गः ६ मुमुक्षुव्यवहारप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० मुमुक्षुव्यवहारप्रकरणम् - सर्गः ६ योगवासिष्ठः Tags : sanskrityogavasisthaयोगवासिष्ठःसंस्कृत सर्गः ६ Translation - भाषांतर श्रीवसिष्ठ उवाच ।तस्मात्प्राक्पौरुषाद्दैवं नान्यत्तत्प्रोज्झ्य दूरतः ।साधुसंगमसच्छास्त्रैर्जीवमुत्तारयेद्बलात् ॥१॥यथा यथा प्रयत्नः स्याद्भवेदाशु फलं तथा ।इति पौरुषमेवास्ति दैवमस्तु तदेव च ॥२॥दुःखाद्यथा दुःखकाले हा कष्टमिति कथ्यते ।हाकष्टशब्दपर्यायस्तथा हा दैवमित्यपि ॥३॥प्राक्स्वकर्मेतराकारं दैवं नाम न विद्यते ।बालः प्रबलपुंसेव तज्जेतुमिह शक्यते ॥४॥ह्यस्तनो दुष्ट आचार आचारेणाद्य चारुणा ।यथाशु शुभतामेति प्राक्तनं कर्म तत्तथा ॥५॥तज्जयाय यतन्ते ये न लोभलवलम्पटाः ।ते दीनाः प्राकृता मूढाः स्थिता दैवपरायणाः ॥६॥पौरुषेण कृतं कर्म दैवाद्यदभिनश्यति ।तत्र नाशयितुर्ज्ञेयं पौरुषं बलवत्तरम् ॥७॥यदेकवृन्तफलयोरथैकं शून्यकोटरम् ।तत्र प्रयत्नः स्फुरितस्तथा तद्रससंविदः ॥८॥यत्प्रयान्ति जगद्भावाः संसिद्धा अपि संक्षयम् ।क्षयकारकयत्नस्य ह्यत्र ज्ञेयं महद्बलम् ॥९द्वौ हुडाविव युध्येते पुरुषार्थौ परस्परम् ।य एव बलवांस्तत्र स एव जयति क्षणात् ॥१०॥भिक्षुको मङ्गलेभेन नृपो यत्क्रियते बलात् ।तदमात्येभपौराणां प्रयत्नस्य बलं महत् ॥११॥पौरुषेणान्नमाक्रम्य यथा दन्तेन चूर्ण्यते ।अन्यः पौरुषमाश्रित्य तथा शूरेण चूर्ण्यते ॥१२॥अन्नभूता हि महतां लघवो यत्नशालिनाम् ।यथेष्टं विनियोज्यन्ते तेन कर्मसु लोष्टवत् ॥१३॥शक्तस्य पौरुषं दृश्यमदृश्यं वापि यद्भवेत् ।तद्दैवमित्यशक्तेन बुद्धमात्मन्यबुद्धिना ॥१४॥भूतानां बलवद्भूतं यन्न दैवमिति स्थितम् ।तत्तेषामप्यधिष्ठातृ सतामेतत्स्फुटं मिथः ॥१५॥शास्त्रामात्येभपौराणामविकल्पा स्वभावधीः ।या सा भिक्षुकराज्यस्य कर्तृ धर्तृ प्रजास्थितेः ॥१६॥भिक्षुको मङ्गलेभेन नृपो यत्क्रियते क्वचित् ।प्राक्तनं पौरुषं तत्र बलवद्वापि कारणम् ॥१७॥ऐहिकः प्राक्तनं हन्ति प्राक्तनोऽद्यतनं बलात् ।सर्वदा पुरुषस्पन्दस्तत्रानुद्वेगवाञ्जयी ॥१८॥द्वयोरद्यतनस्यैव प्रत्यक्षाद्बलिता भवेत् ।दैवं जेतुं यतो यत्नैर्बालो यूनेव शक्यते ॥१९॥मेघेन नीयते यद्वद्वत्सरोपार्जिता कृषिः ।मेघस्य पुरुषार्थोऽसौ जयत्यधिकयत्नवान् ॥२०॥क्रमेणोपार्जितेऽप्यर्थे नष्टे कार्या न खेदिता ।न बलं यत्र मे शक्तं तत्र का परिदेवना ॥२१॥यन्न शक्नोमि तस्यार्थे यदि दुःखं करोम्यहम् ।तदमारितमृत्योर्मे युक्तं प्रत्यहरोदनम् ॥२२॥देशकालक्रियाद्रव्यवशतो विस्फुरन्त्यमी ।सर्व एव जगद्भावा जयत्यधिकयत्नवान् ॥२३॥तस्मात्पौरुषमाश्रित्य सच्छास्त्रैः सत्समागमैः ।प्रज्ञाममलतां नीत्वा संसारजलधिं तरेत् ॥२४॥प्राक्तनश्चैहिकश्चेमौ पुरुषार्थौ फलद्द्रुमौ ।संजातौ पुरुषारण्ये जयत्यभ्यधिकस्तयोः ॥२५॥कर्म यः प्राक्तनं तुच्छं न निहन्ति शुभेहितैः ।अज्ञो जन्तुरनीशोऽसावात्मनः सुखदुःखयोः ॥२६॥ईश्वरप्रेरितो गच्छेत्स्वर्गं नरकमेव वा ।स सदैव पराधीनः पशुरेव न संशयः ॥२७॥यस्तूदारचमत्कारः सदाचारविहारवान् ।स निर्याति जगन्मोहान्मृगेन्द्रः पञ्जरादिव ॥२८॥कश्चिन्मां प्रेरयत्येवमित्यनर्थकुकल्पने ।यः स्थितोऽदृष्टमुत्सृज्य त्याज्योऽसौ दूरतोऽधमः ॥२९॥व्यवहारसहस्राणि यान्युपायान्ति यान्ति च ।यथाशास्त्रं विहर्तव्यं तेषु त्यक्त्वा सुखासुखे ॥३०॥यथाशास्त्रमनुच्छिन्नां मर्यादां स्वामनुज्झतः ।उपतिष्ठन्ति सर्वाणि रत्नान्यम्बुनिधाविव ॥३१॥स्वार्थप्रापककार्यैकप्रयत्नपरता बुधैः ।प्रोक्ता पौरुषशब्देन सा सिद्ध्यै शास्त्रयन्त्रिता ॥३२॥क्रियया स्पन्दधर्मिण्या स्वार्थसाधकता स्वयम् ।साधुसंगमसच्छास्त्रतीक्ष्णयोन्नीयते धिया ॥३३॥अनन्तं समतानन्दं परमार्थं विदुर्बुधाः ।स येभ्यः प्राप्यते नित्यं ते सेव्याः शास्त्रसाधवः ॥३४॥देवलोकादिहागत्य लोकद्वयहितं भवेत् ।प्राक्तनं पौरुषं तद्वै दैवशब्देन कथ्यते ॥३५॥तद्युक्तमेतदेतस्मिन्नास्ति नापवदामहे ।मूढैः प्रकल्पितं दैवं मन्यन्ते ये क्षयं गताः ॥३६॥नित्यं स्वपौरुषादेव लोकद्वयहितं भवेत् ।ह्यस्तनी दुष्क्रियाभ्येति शोभां सत्क्रियया यथा ॥३७॥अद्यैवं प्राक्तनी तस्माद्यत्नाद्यः कार्यवान्भवेत् ।करामलकवद्दृष्टं पौरुषादेव तत्फलम् ।मूढः प्रत्यक्षमुत्सृज्य दैवमोहे निमज्जति ॥३८॥सकलकारणकार्यविवर्जितंनिजविकल्पबलादुपकल्पितम् ।तदनपेक्ष्य हि दैवमसन्मयंश्रय शुभाशय पौरुषमात्मनः ॥३९॥शास्त्रैः सदाचरविजृम्भितदेशधर्मैर्य-त्कल्पितं फलमतीव चिरप्ररूढम् ।तस्मिन्हृदि स्फुरति चोपनमेति चित्त-मङ्गावली तदनु पौरुषमेतदाहुः ॥४०॥बुद्ध्वैव पौरुषफलं पुरुषत्वमेत-दात्मप्रयत्नपरतैव सदैव कार्या ।नेया ततः सफलतां परमामथासौसच्छास्त्रसाधुजनपण्डितसेवनेन ॥४१॥दैवपौरुषविचारचारुभि-श्चेदमाचरितमात्मपौरुषम् ।नित्यमेव जयतीति भावितैःकार्य आर्यजनसेवयोद्यमः ॥४२॥जन्मप्रबन्धमयमामयमेष जीवोबुद्ध्वैहिकं सहजपौरुषमेव सिद्ध्यै ।शान्तिं नयत्ववितथेन वरौषधेनमृष्टेन तुष्टपरपण्डितसेवनेन ॥४३॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मुमुक्षुव्यवहारप्रकरणे दैवनिराकरणं नाम षष्ठः सर्गः ॥६॥ N/A References : N/A Last Updated : July 19, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP