संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|मुमुक्षुव्यवहारप्रकरणम्| सर्गः ३ मुमुक्षुव्यवहारप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० मुमुक्षुव्यवहारप्रकरणम् - सर्गः ३ योगवासिष्ठः Tags : sanskrityogavasisthaयोगवासिष्ठःसंस्कृत सर्गः ३ Translation - भाषांतर श्रीवसिष्ठ उवाच ।पूर्वमुक्तं भगवता यज्ज्ञानं पद्मजन्मना ।सर्गादौ लोकशान्त्यर्थं तदिदं कथयाम्यहम् ॥१॥श्रीराम उवाच ।कथयिष्यसि विस्तीर्णा भगवन्मोक्षसंहिताम् ।इमं तावत्क्षणं जातं संशयं मे निवारय ॥२॥पिता शुकस्य सर्वज्ञो गुरुर्व्यासो महामतिः ।विदेहमुक्तो न कथं कथं मुक्तः सुतोऽस्य सः ॥३॥श्रीवसिष्ठ उवाच ।परमार्कप्रकाशान्तस्त्रिजगत्त्रसरेणवः ।उत्पत्योत्पत्य लीना ये न संख्यामुपयान्ति ते ॥४॥वर्तमानाश्च याः सन्ति त्रैलोक्यगणकोटयः ।शक्यन्ते ताश्च संख्यातुं नैव काश्चन केनचित् ॥५॥भविष्यन्ति पराम्भोधौ जन्तसर्गतरङ्गकाः ।तांश्च वै परिसंख्यातुं सा कथैव न विद्यते ॥६॥श्रीराम उवाच ।या भूता या भविष्यन्त्यो जगत्सर्गपरम्पराः ।तासां विचारणा युक्ता वर्तमानास्तु का इव ॥७॥श्रीवसिष्ठ उवाच ।तिर्यक्पुरुषदेवादेर्यो नाम स विनश्यति ।यस्मिन्नेव प्रदेशेऽसौ तदैवेदं प्रपश्यति ॥८॥आतिवाहिकनाम्नान्तः स्वहृद्येव जगत्त्रयम् ।व्योम्नि चित्तशरीरेण व्योमात्मानुभवत्यजः ॥९॥एवं मृता म्रियन्ते च मरिष्यन्ति च कोटयः ।भूतानां यां जगन्त्याशामुदितानि पृथक्पृथक् ॥१०॥संकल्पनिर्माणमिव मनोराज्यविलासवत् ।इन्द्रजालामाल इव कथार्थप्रतिभासवत् ॥११॥दुर्वातभूकम्प इव त्रस्तबालपिशाचवत् ।मुक्तालीवामले व्योम्नि नौस्पन्दतरुयानवत् ॥१२॥स्वप्नसंवित्तिषुरवत्स्मृतिजातखपुष्पवत् ।जगत्संसरणं स्वान्तर्मृतोऽनुभवति स्वयम् ॥१३॥तत्रातिपरिणामेन तदेव घनतां गतम् ।इहलोकोऽयमित्येव जीवाकाशे विजृम्भते ॥१४॥पुनस्तत्रैव जग्नेद्वामरणाद्यनुभूतिमान् ।परं लोकं कल्पयति मृतस्तत्र तथा पुनः ॥१५॥तदन्तरन्ये पुरुषास्तेवामन्तस्तथेतरे ।संसार इति भान्तीमे कदलीदलपीठवत् ॥१६॥न पृम्ब्यादिमहाभूतगणा न च जगत्क्रमाः ।मृतानां सन्ति तत्रापि तथाप्येषां जगद्भमाः ॥१७॥अविद्यैव ह्यनन्तेयं नानाप्रसरशालिनी ।जडानां सरिदादीर्घा तरत्सर्गतरङ्गिणी ॥१८॥परमार्थाम्बुधौ स्फारे राम सर्गतरङ्गकाः ।भूयोभूयोऽनुवर्तन्ते त एवान्ये च भूरिशः ॥१९॥सर्वतः सदृशाः केचित्कुलक्रममनोगुणेः ।केचिदर्धेन सदृशाः केचिच्चातिविलक्षणाः ॥२०॥इमं व्यासङ्ग तत्र द्वात्रिंशं संस्मराम्यहम् ।यथासंभवविज्ञानदृशा संलश्यमानया ॥२१॥द्वादशाल्पधियस्तत्र कुलाकारेहितैः समाः ।दश सर्वे समाकाराः शिष्टाः कुलविलक्षणाः ॥२२॥अद्यपयन्ये भविष्यन्ति व्यासवाल्मीकयस्तथा ।भृग्वङ्गिरःपुलस्त्याश्च तथैवाप्यन्यथैव च ॥२३॥नराः सुरर्षिदेवानां गणाः संभूय भूरिशः ।उत्पद्यन्ते विलीयन्ते कदाचिच्च पृथक्पृथक् ॥२४॥ब्राह्मी द्वासप्ततिस्त्रैता आसीदस्ति भविष्यति ।स एवान्यश्च लोकाश्च त्वं चाहं चेति वेदयहम् ॥२५॥क्रमेणास्य मुनेरित्थं व्यासस्याद्भुतकर्मणः ।संलक्ष्यतेऽवतारोऽयं दशमो दीर्घदर्शिनः ॥२६॥अभूम व्यासवाल्मीकियुक्ता वयमनेकशः ।अभूम वयमेवेमे बहुशश्च पृथक्पृथक् ॥२७॥अभूम् वयमेवेमे सदृशा इतरे विदः ।अभूम वयमेवेमे नानाकारा समाशयाऽ ॥२८॥भाव्यमद्याप्यनेनेह ननु वाराष्टकं पुनः ।भूयोऽपि भारतं नाम सेतिहासं करिष्यति ॥२९॥कृत्वा वेदविभागं च नीत्वानेन कुलप्रथाम् ।ब्रह्मत्वं च तथा कृत्वा भाव्यं वैदेहमोक्षणम् ॥३०॥वीतशोकभयः शान्तनिर्वाणो गतकल्पनः ।जीवन्मुक्तो जितमना व्यासोऽयमिति वर्णितः ॥३१॥वित्तक्तधुवयःकर्मविद्याविज्ञानचेष्टितैः ।समानि सन्ति भूतानि कदाचिन्नतु तानि तु ॥३२॥क्वचित्सर्गशतैस्तानि भवन्ति न भवन्ति वा ।कदाचिदपि मायेयमित्थमन्तविवर्जिता ॥३३॥यच्छतीयं विपर्यासं भूरिभूतपरम्परा ।बीजराशिरिवाजस्रं पूर्यमाणः पुनःपुनः ॥३४॥तेनैव संनिवेशेन तथान्येन पुनःपुनः ।सर्गाकाराः प्रवर्तन्ते तरङ्गाः कालवारिधेः ॥३५॥आश्वस्तान्तःकरणःशान्तविकल्पः स्वरूपसारमयः ।परमशमामृततृप्त-स्तिष्ठति विद्वान्निरावरणः ॥३६॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मुमुक्षुव्यवहारप्रकरणे भूयोभूयःसर्गानुवर्णनं नाम तृतीयः सर्गः ॥३॥ N/A References : N/A Last Updated : July 18, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP