मुमुक्षुव्यवहारप्रकरणम् - सर्गः ४

योगवासिष्ठः


श्रीवसिष्ठ उवाच ।
सौम्याम्बुत्वे तरङ्गत्वे सलिलस्याम्बुता यथा ।
समैवाब्धौ तथाऽदेहसदेहमुनिमुक्तता ॥१॥
सदेहा वास्त्वदेहा वा मुक्तता विषये न च ।
अनास्वादितभोगस्य कुतो भोज्यानुभूतयः ॥२॥
जीवन्मुक्त मुनिश्रेष्ठं केवलं हि पदार्थवत् ।
पश्यामः पुरतो नास्य पुनर्विघ्नोऽन्तराशयम् ॥३॥
सदेहादेहमुक्तानां भेदः को बोधरूपिणाम् ।
यदेवाम्बुतरङ्गत्वे सौम्यत्वेऽपि तदेव तत् ॥४॥
न मनागपि भेदोऽस्ति सदेहादेहमुक्तयोः ।
सस्पन्दोऽप्यथवाऽस्पन्दो वायुरेव यथानिलः ॥५॥
सदेहा वा विदेहा वा मुक्तता न प्रमास्पदम् ।
अस्माकमपि तस्यास्ति स्वैकतास्त्यविभागिनी ॥६॥
तस्मात्प्रकृतमेवेदं शृणु श्रवणभूषणम् ।
मयोपदिश्यमानं त्वं ज्ञानमज्ञान्ध्यनाशनम् ॥७॥
सर्वमेवेह हि सदा संसारे रघुनन्दन ।
सम्यक्प्रयुक्तात्सर्वेण पौरुषात्समवाप्यते ॥८॥
इह हीन्दोरिवोदेति शीतलाह्लादनं हृदि ।
परिस्पन्दफलप्राप्तौ पौरुषादेव नान्यतः ॥९॥
पौरुषं स्पन्दफलवद्दृष्टं प्रत्यक्षतो नयत् ।
कल्पितं मोहितैर्मन्दैर्दैवं किंचिन्न विद्यते ॥१०॥
साधूपदिष्टमार्गेण यन्मनोङ्गविचेष्टितम् ।
तत्पौरुषं तत्सफलमन्यदुन्मत्तचेष्टितम् ॥११॥
यो यमर्थं प्रार्थयते तदर्थं चेहते क्रमात् ।
अवश्यं स तमाप्नोति न चेदर्धान्निवर्तते ॥१२॥
पौरुषेण प्रयत्नेन त्रैलोक्यैश्वर्यसुन्दराम् ।
कश्चित्प्राणिविशेषो हि शक्रतां समुपागतः ॥१३॥
पौरुषेणैव यत्नेन सहसाम्भोरुहास्पदम् ।
कश्चिदेव चिदुल्लासो ब्रह्मतामधितिष्ठति ॥१४॥
सारेण पुरुषार्थेन स्वेनैव गरुडध्वजः ।
कश्चिदेव पुमानेव पुरुषोत्तमतां गतः ॥१५॥
पौरुषेणैव यत्नेन ललनावलिताकृतिः ।
शरीरी कश्चिदेवेह गतश्चन्द्रार्धचूडताम् ॥१६॥
प्राक्तनं चैहिकं चेति द्विविधं विद्धि पौरुषम् ।
प्राक्तनोऽद्यतनेनाशु पुरुषार्थेन जीयते ॥१७॥
यत्नवद्भिर्दृढाभ्यासैः प्रज्ञोत्साहसमन्वितैः ।
मेरवोऽपि निगीर्यन्ते कैव प्राक्पौरुषे कथा ॥१८॥
शास्त्रनियन्त्रितपौरुषपरमा पुरुषस्य पुरुषता या स्यात् ।
अभिमतफलभरसिद्ध्यै भवति हि सैवान्यथा त्वनर्थाय ॥१९॥
कस्यांचित्स्वयमात्मदुःस्थितिवशात्पुंसो दशायां शनै
रङ्गुल्यग्रनिपीडितैकचुलुकादावापबिन्दुर्बहुः ।
कस्यांचिज्जलराशिपर्वतपुरद्वीपान्तरालीकृता
भर्तव्योचितसंविभागकरणे पृथ्वी न पृथ्वी भवेत्॥

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मुमुक्षुव्यवहारप्रकरणे पौरुषप्रकरणं नाम चतुर्थः सर्गः ॥४॥

N/A

References : N/A
Last Updated : July 18, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP