संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|मुमुक्षुव्यवहारप्रकरणम्| सर्गः १४ मुमुक्षुव्यवहारप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० मुमुक्षुव्यवहारप्रकरणम् - सर्गः १४ योगवासिष्ठः Tags : sanskrityogavasisthaयोगवासिष्ठःसंस्कृत सर्गः १४ Translation - भाषांतर श्रीवसिष्ठ उवाच ।शास्त्रावबोधामलया धिया परमपूतया ।कर्तव्यः कारणज्ञेन विचारोऽनिशमात्मनः ॥१॥विचारात्तीक्ष्णतामेत्य धीः पश्यति परं पदम् ।दीर्घसंसाररोगस्य विचारो हि महौषधम् ॥२॥आपद्वनमनन्तेहापरिपल्लविताकृति ।विचारक्रकचच्छिन्नं नैव भूयः प्ररोहति ॥३॥मोहेन बन्धुनाशेषु संकटेषु शमेषु च ।सर्वं व्याप्तं महाप्राज्ञ विचारो हि सतां गतिः ॥४॥न विचारं विना कश्चिदुपायोऽस्ति विपश्चिताम् ।विचारादशुभं त्यक्त्वा शुभमायाति धीः सताम् ॥५॥बलं बुद्धिश्च तेजश्च प्रतिपत्तिः क्रियाफलम् ।फलन्त्येतानि सर्वाणि विचारेणैव धीमताम् ॥६॥युक्तायुक्तमहादीपमभिवाञ्छितसाधकम् ।स्फारं विचारमाश्रित्य संसारजलधिं तरेत् ॥७॥आलूनहृदयाम्भोजान्महामोहमतङ्गजान् ।विदारयति शुद्धात्मा विचारो नाम केसरी ॥८॥मूढाः कालवशेनेह यद्गताः परमं पदम् ।तद्विचारप्रदीपस्य विजृम्भितमनुत्तमम् ॥९॥राज्यानि संपदः स्फारा भोगो मोक्षश्च शाश्वतः ।विचारकल्पवृक्षस्य फलान्येतानि राघव ॥१०॥या विवेकविकासिन्यो मतयो महतामिह ।न ता विपदि मज्जन्ति तुम्बकानीव वारिणि ॥११॥विचारोदयकारिण्या धिया व्यवहरन्ति ये ।फलानामत्युदाराणां भाजनं हि भवन्ति ते ॥१२॥मूर्खहृत्काननस्थानामाशाप्रथमरोधिनाम् ।अविचारकरञ्जानां मञ्जर्यो दुःखरीतयः ॥१३॥कज्जलक्षोदमलिना मदिरामदधर्मिणी ।अविचारमयी निद्रा यातु ते राघव क्षयम् ॥१४॥महापदतिदीर्घेषु सद्विचारपरो नरः ।न निमज्जति मोहेषु तेजोराशिस्तमःस्विव ॥१५॥मानसे सरसि स्वच्छे विचारकमलोत्करः ।नूनं विकसितो यस्य हिमवानिव भाति सः ॥१६॥विचारविकला यस्य मतिर्मान्द्यमुपेयुषः ।तस्योदेत्यशनिश्चन्द्रान्मुधा यक्षः शिशोरिव ॥१७॥दुःखखण्डकमस्थूलं विपन्नवलतामधुः ।राम दूरे परित्याज्यो निर्विवेको नराधमः ॥१८॥ये केचन दुरारम्भा दुराचारा दुराधयः ।अविचारेण ते भान्ति वेतालास्तमसा यथा ॥१९॥अविचारिणमेकान्तवनद्रुमसधर्मकम् ।अक्षमं साधुकार्येषु दूरे कुरु रघूद्वह ॥२०॥विविक्तं हि मनो जन्तोराशावैवश्यवर्जितम् ।परां निर्वृतिमभ्येति पूर्णचन्द्र इवात्मनि ॥२१॥विवेकितोदिता देहे सर्वं शीतलयत्यलम् ।अलंकरोति चात्यन्तं ज्योत्स्नेव भुवनं यथा ॥२२॥परमार्थपताकाया धियो धवलचामरम् ।विचारो राजते जन्तो रजन्यामिव चन्द्रमाः ॥२३॥विचारचारवो जीवा भासयन्तो दिशो दश ।भान्ति भास्करवन्नूनं भूयो भवभयापहाः ॥२४॥बालस्य स्वमनोमोहकल्पितः प्राणहारकः ।रात्रौ नभसि वेतालो विचारेण विलीयते ॥२५॥सर्वं एव जगद्भावा अविचारेण चारवः ।अविद्यमानसद्भावा विचारविशरारवः ॥२६॥पुंसो निजमनोमोहकल्पितोऽनल्पदुःखदः ।संसारचिरवेतालो विचारेण विलीयते ॥२७॥समं सुखं निराबाधमनन्तमनपाश्रयम् ।विद्धीमं केवलीभावं विचारोच्चतरोः फलम् ॥२८॥अचलस्थितितोदारा प्रकटाभोगतेजसा ।तेन निष्कामतोदेति शीततेवेन्दुनोदिता ॥२९॥स्वविचारमहौषध्या साधुश्चित्तनिषण्णया ।तयोत्तमत्वप्रदया नाभिवाञ्छति नोज्झति ॥३०॥तत्पदालम्बनं चेतः स्फारमाभासमागतम् ।नास्तमेति न चोदेति खमिवातिततान्तरम् ॥३१॥न ददाति न चादत्ते न चोन्नमति शाम्यति ।केवलं साक्षिवत्पश्यञ्जगदाभोगि तिष्ठति ॥३२॥न च शाम्यति नाप्यन्तर्नापि बाह्येऽवतिष्ठति ।न च नैष्कर्म्यमादत्ते न च कर्मणि मज्जति ॥३३॥उपेक्षते गतं वस्तु संप्राप्तमनुवर्तते ।न क्षुब्धो न च वाऽक्षुब्धो भाति पूर्ण इवार्णवः ॥३४॥एवं पूर्णेन मनसा महात्मानो महाशयाः ।जीवन्मुक्ता जगत्यस्मिन्विहरन्तीह योगिनः ॥३५॥उषित्वा सुचिरं कालं धीरास्ते यावदीप्सितम् ।ते तमन्ते परित्यज्य यान्ति केवलतां तताम् ॥३६॥कोऽहं कस्य च संसार इत्यापद्यपि धीमता ।चिन्तनीयं प्रयत्नेन सप्रतीकारमात्मना ॥३७॥कार्यसंकटसंदेहं राजा जानाति राघव ।निष्फलं सफलं वापि विचारेणैव नान्यथा ॥३८॥वेदवेदान्तस्रिद्धान्तस्थितयः स्थितिकारणम् ।निर्णीयन्ते विचारेण दीपेन च भुवो निशि ॥३९॥अनष्टमन्धकारेषु बहुतेजःस्वजिह्मितम् ।पश्यत्यपि व्यवहितं विचारश्चारुलोचनम् ॥४०॥विवेकान्धो हि जात्यन्धः शोच्यः सर्वस्य दुर्मतिः ।दिव्यचक्षुर्विवेकात्मा जयत्यखिलवस्तुषु ॥४१॥परमात्ममयी मान्या महानन्दैकसाधिनी ।क्षणमेकं परित्याज्या न विचारचमत्कृतिः ॥४२॥विचारचारुपुरुषो महतामपि रोचते ।परिपक्वचमत्कारं सहकारफलं यथा ॥४३॥विचारकान्तमतयो नानेकेषु पुनःपुनः ।लुठन्ति दुःखश्वभ्रेषु ज्ञाताध्वगतयो नराः ॥४४॥नच रौति तथा रोगी नानर्थशतजर्जरः ।अविचारविनष्टात्मा यथाऽज्ञः परिरोदिति ॥४५॥वरं कर्दममेकत्वं मलकीटकता वरम् ।वरमन्धगुहाहित्वं न नरस्याविचारिता ॥४६॥सर्वानर्थनिजावासं सर्वसाधुतिरस्कृतम् ॥सर्वदौस्थित्यसीमान्तमविचारं परित्यजेत् ॥४७॥नित्यं विचारयुक्तेन भवितव्यं महात्मना ।तथान्धकूपे पततां विचारो ह्यवलम्बनम् ॥४८॥स्वयमेवात्मनात्मानमवष्टभ्य विचारतः ।संसारमोहजलधेस्तारयेत्स्वमनोमृगम् ॥४९॥कोऽहं कथमयं दोषः संसाराख्य उपागतः ।न्यायेनेति परामर्शो विचार इति कथ्यते ॥५०॥अन्धान्धमोहसुधनं चिरं दुःखाय केवलम् ।कृतं शिलाया हृदयं दुर्मतेश्चाविचारिणः ॥५१॥भावाभावग्रहोत्सर्गदृशामिह हि राघव ।न विचारादृते तत्त्वं ज्ञायते साधु किंचन ॥५२॥विचाराज्ज्ञायते तत्त्वं तत्त्वाद्विश्रान्तिरात्मनि ।अतो मनसि शान्तत्वं सर्वदुःखपरिक्षयः ॥५३॥सफलता फलते भुवि कर्मणांप्रकटतां किल गच्छति उत्तमाम् ।स्फुटविचारदृशैव विचारिताशमवते भवते च विरोचताम् ॥५४॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मुमुक्षुव्यवहारप्रकरणे विचारनिरूपणं नाम चतुर्दशः सर्गः ॥१४॥ N/A References : N/A Last Updated : July 21, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP