संस्कृत सूची|संस्कृत साहित्य|पुराण|योगवासिष्ठः|मुमुक्षुव्यवहारप्रकरणम्| सर्गः ७ मुमुक्षुव्यवहारप्रकरणम् सर्गः १ सर्गः २ सर्गः ३ सर्गः ४ सर्गः ५ सर्गः ६ सर्गः ७ सर्गः ८ सर्गः ९ सर्गः १० सर्गः ११ सर्गः १२ सर्गः १३ सर्गः १४ सर्गः १५ सर्गः १६ सर्गः १७ सर्गः १८ सर्गः १९ सर्गः २० मुमुक्षुव्यवहारप्रकरणम् - सर्गः ७ योगवासिष्ठः Tags : sanskrityogavasisthaयोगवासिष्ठःसंस्कृत सर्गः ७ Translation - भाषांतर श्रीवसिष्ठ उवाच ।प्राप्य व्याधिविनिर्मुक्तं देहमल्पाधिवेदनम् ।तथात्मनि समादध्याद्यथा भूयो न जायते ॥१॥दैवं पुरुषकारेण यो निवर्तितुमिच्छति ।इह वामुत्र जगति स संपूर्णाभिवाञ्छितः ॥२॥ये समुद्योगमुत्सृज्य स्थिता दैवपरायणाः ।ते धर्ममर्थं कामं च नाशयन्त्यात्मविद्विषः ॥३॥संवित्स्पन्दो मनःस्पन्द ऐन्द्रियस्पन्द एव च ।एतानि पुरुषार्थस्य रूपाण्येभ्यः फलोदयः ॥४॥यथा संवेदनं चेतस्तथा तत्स्पन्दमृच्छति ।तथैव कायश्चलति तथैव फलभोक्तृता ॥५॥आबालमेतत्संसिद्धं यत्र यत्र यथा यथा ।दैवं तु न क्वचिद्दृष्टमतो जगति पौरुषम् ॥६॥पुरुषार्थेन देवानां गुरुरेव बृहस्पतिः ।शुक्रो दैत्येन्द्रगुरुतां पुरुषार्थेन चास्थितः ॥७॥दैन्यदारिद्र्यदुःखार्ता अपि साधो नरोत्तमाः ।पौरुषेणैव यत्नेन याता देवेन्द्रतुल्यताम् ॥८॥महान्तो विभवास्वादैर्नानाश्चर्यसमाश्रयाः ।पौरुषेणैव दोषेण नरकातिथितां गताः ॥९॥भावाभावसहस्रेषु दशासु विविधासु च ।स्वपौरुषवशादेव निवृत्ता भूतजातयः ॥१०॥शास्त्रतो गुरुतश्चैव स्वतश्चेति त्रिसिद्धयः ।सर्वत्र पुरुषार्थस्य न दैवस्य कदाचन ॥११॥अशुभेषु समाविष्टं शुभेष्वेवावतारयेत् ।प्रयत्नाच्चित्तमित्येष सर्वशास्त्रार्थसंग्रहः ॥१२॥यच्छ्रेयो यदतुच्छं च यदपायविवर्जितम् ।तत्तदाचर यत्नेन पुत्रेति गुरवः स्थिताः ॥१३॥यथा यथा प्रयत्नो मे फलमाशु तथा तथा ।इत्यहं पौरुषादेव फलभाङ् न तु दैवतः ॥१४॥पौरुषाद्दृश्यते सिद्धिः पौरुषाद्धीमतां क्रमः ।दैवमाश्वासनामात्रं दुःखे पेलवबुद्धिषु ॥१५॥प्रत्यक्षप्रमुखैर्नित्यं प्रमाणैः पौरुषक्रमः ।फलितो दृश्यते लोके देशान्तरगमादिकः ॥१६॥भोक्ता तृप्यति नाभोक्ता गन्ता गच्छति नागतिः ।वक्ता वक्ति न चावक्ता पौरुषं सफलं नृणाम् ॥१७॥पौरुषेण दुरन्तेभ्यः संकटेभ्यः सुबुद्धयः ।समुत्तरन्त्ययत्नेन न तु मोघतयानया ॥१८॥यो यो यथा प्रयतते स स तत्तत्फलैकभाक् ।न तु तूष्णीं स्थितेनेह केनचित्प्राप्यते फलम् ॥१९॥शुभेन पुरुषार्थेन शुभमासाद्यते फलम् ।अशुभेनाशुभं राम यथेच्छसि तथा कुरु ॥२०॥पुरुषार्थात्फलप्राप्तिर्देशकालवशादिह ।प्राप्ता चिरेण शीघ्रं वा यासौ दैवमिति स्मृता ॥२१॥न दैवं दृश्यते दृष्ट्या न च लोकान्तरे स्थितम् ।उक्तं दैवाभिधानेन स्वर्लोके कर्मणः फलम् ॥२२॥पुरुषो जायते लोके वर्धते जीर्यते पुनः ।न तत्र दृश्यते दैवं जरायौवनबाल्यवत् ॥२३॥अर्थप्रापककार्यैकप्रयत्नपरता बुधैः ।प्रोक्ता पौरुषशब्देन सर्वमासाद्यतेऽनया ॥२४॥देशाद्देशान्तरप्राप्तिर्हस्तस्य द्रव्यधारणम् ।व्यापारश्च तथाङ्गानां पौरुषेण न दैवतः ॥२५॥अनर्थप्राप्तिकार्यैकप्रयत्नपरता तु या ।प्रोक्ता प्रोन्मत्तचेष्टेति न किंचित्प्राप्यतेऽनया ॥२६॥क्रियया स्पन्दधर्मिण्या स्वार्थसाधकता स्वयम् ।साधुसंगमसच्छास्त्रतीक्ष्णयोन्नीयते धिया ॥२७॥अनन्तसमतानन्दं परमार्थं स्वकं विदुः ।स येभ्यः प्राप्यते यत्नात्सेव्यास्ते शास्त्रसाधवः॥२८॥सच्छास्त्रादिगुणो मत्या सच्छास्त्रादिगुणान्मतिः ।विवर्धेते मिथोऽभ्यासात्सरोजाविव कालतः ॥२९॥आबाल्यादलमभ्यस्तैः शास्त्रसत्संगमादिभिः ।गुणैः पुरुषयत्नेन स्वार्थः संपद्यते हितः ॥३०॥पौरुषेण जिता दैत्याः स्थापिता भुवनक्रियाः ।रचितानि जगन्तीह विष्णुना न च दैवतः ॥३१॥जगति पुरुषकारकारणेऽस्मिन्कुरु रघुनाथ चिरं तथा प्रयत्नम् ।व्रजसि तरुसरीसृपाभिधानांसुभग यथा न दशामशङ्क एव ॥३२॥इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये मुमुक्षुव्यवहारप्रकरणे पौरुषप्राधान्यसमर्थनं नाम सप्तमः सर्गः ॥७॥ N/A References : N/A Last Updated : July 19, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP