आन्हिकाचारप्रकरणम् - अथप्रात:संध्या

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥
॥ प्रात:संध्याकाल: ॥
उत्तमातारकोपेतामध्यमालुप्ततारका ॥ अधमासूर्यसहि
ताप्रात:संध्यात्रिधामता ॥ शुचौदेशेभूमिष्ठपादोंतर्जानुहस्त:प्राड्मुखौदड्मुखवोपविश्यसंहं
तांगुलिनाशुध्दजलंगृहीत्वामुक्तांगुष्ठकनिष्ठेनवामेनान्वारब्धेनदक्षपाणिनाब्रह्मतीर्थेन
केशवनारायणमाधवेतिसंबुध्द्यंतैस्त्रिभिर्नामभिस्त्रिरप:पिबेत् ॥ ब्रह्मातीर्थमंगुष्ठमूलम् ॥ ॐ केशव । नारायण । माधव । गोविंदायनम: । विष्णवेनम: । मधुसूदनायनम:
त्रिविक्रमायनम: । त्रिविक्रमायनम: । वामनायनम: । श्रीधरायनम: । हृषीकेशायनम:
पद्मनाभाय नम: । दामोदरायनम: । संकर्षणायनम: । वासुदेवायनम: । प्रद्युम्नाय नम: । अनिरुध्दायनम: । पुरुषोत्तायनम: । अधोक्षजायनम: । नारसिंहायनम: । अच्युतायनम: । जनार्दनायनम: । उपेंद्रायनम: । हरयेनम: । श्रीकृष्णाय नम: ॥ पूर्वोक्तवद्दर्भद्वयकृतेपवित्रेग्रंथिरहितेग्रंथियुतेवाहस्तयोर्धृत्वा ॥ प्रणवस्यपरब्रह्मऋषि: । परमात्मदेवता । दैवीगायत्रीच्छंद: । सप्तानांव्याहृतीनांविश्वामित्रजमदग्निभरद्वाज
गौतमात्रिवसिष्ठकश्यपाऋषय: । अग्निवाय्यावादित्यबृहस्पतिवरुणेंद्रविश्वेदेवादेवता: ।
गायत्र्युष्णिगनुष्टुब्बृहतीपंक्तित्रिष्टुब्जगत्यश्छंदांसि । गायत्र्याविश्वामित्रऋषि: । सवितादेवता । गायत्रीच्छंद: । गायत्रीशिरस:प्रजापतिऋषि: । ब्रह्माग्निवाय्यवादित्या
देवता: । यजुश्च्छद: । प्राणायामेविनियोग: ॥ ॐ भू: ॐ भुव: ॐ स्व: ॐ मह: ॐ जन: ॐ तप: ॐ सत्यं ॐ तत्सविरुर्वरेण्यंभर्गोदेवस्यधीमहि । धियोयोन:प्रचोदयात् ॥
ॐ आपोज्योतीरसोमृतंब्रह्मभूर्भव:स्वरोम् ॥ एवंत्रिरुक्त्वा ॥ ममोपात्तदुरितयक्षद्वारा
श्रीपरमेश्वरप्रीत्यर्थंप्रात:संध्यामुपासिष्ये । मार्जनम् ॥ आपोहिष्ठेतितृचस्यांबरीष:सिंधु
द्वीपऋषि: आपोदेवतागायत्रीछंद: मार्जनेविनियोग: ॥ ॐ आपोहिष्ठामयोभुव: । ॐ
तानऊर्जेदधातन । ॐ महेरणायचक्षसे ॥ ॐ योव:शिवतमोरस: । ॐ तस्यभाजयहेतन: । ॐ उशतीरिवमातर: ॥
ॐतस्माअरंगमामव: । ॐ यस्यक्षयायजिन्वथ (इत्यध:) ॥ ॐ आपोजनयथाचन: ॥
मंत्राचमनम् ॥ सूर्यश्चेतिमंत्रस्य याज्ञवल्क्यउपनिषद ऋषि: । सूर्यमन्युमन्युपतिरात्र
योदेवता: । प्रकृतिश्छंद: । अभ्यंतरशुध्दयर्थेमंत्राचमनेविनियोग: ॥ ॐ सूर्यश्चमाम
न्युश्चमन्युपतयश्चमन्युकृतेभ्य: ॥ पापेभ्योरक्षंताम् ॥ यद्रात्र्यापापमकार्षं ॥ मनसा
वाचाहस्ताभ्यां ॥ पभ्दयामुदरेणशिश्रा ॥ रात्रिस्तदवलंपतु ॥ यत्किंचदुरितंमयि ॥
इदमहंमाममृतयोनौ ॥ सूर्यज्योतिषिजुहोमिस्वाहा ॥ इतिजलंपीत्वा आचम्य ॥ प्रणवस्यपरब्रह्मऋषि: परमात्मादेवता दैवीगायत्रीच्छंद: व्याहृतीनांपरमेष्ठीप्रजापति:
प्रजापतिर्बृहती गायत्र्याविश्वामित्र: सवितागायत्री ॥ द्वितीयमार्जनम् ॥ आपोहिष्ठेति
नवर्चस्यसूक्तस्यांबरीष:सिंधुद्वीपआपोगायत्री ॥ पंचमीवर्धमानासप्तमीप्रतिष्ठाअंत्ये
द्वेअनुष्टुभौमार्जनेविनियोग: । प्रथमंप्रणवेनमार्जनंव्याहृतिभिर्द्वितीयंप्रणवांतया
गायत्र्यातृतीयंगायत्रीशिरसानवर्ग्भिश्चतुर्थमितिमार्जयेत् ॥ ॐ आपोहिष्ठा ऋ० ॥३॥
शंनोदेवीरभिष्टयाआपोभवंतुपीतये॥ शंयोरभिस्त्रवंतुन: ॥ ईशानावार्याणांक्षयंतीश्चर्षणी नाम्॥
आपोयाचामिभेषजम् ॥ अप्सुमेसोमोअब्रवीदंतर्विश्वानिभेषजा ॥ अग्निंचविश्वंभुवम् ॥ आप:पृणीतभेषजंवरुथंतन्वे ३ मम ॥ ज्योक्कसूर्यदृशे ॥ इदमाप:प्रवहतयत्किंचदुरितं
मयि ॥ यद्वाहमभिदुद्रोहयद्वाशेपउतानृतम् ॥ आपोअदयान्वचारिषंरसेनसमगस्महि ॥ पयस्वानग्नआगहितंमासंसृजवर्चसा ॥ इति ॥ अघमर्षणम् ॥ ऋतंचेतितृचस्यामाधु
च्छंदसोऽघमर्षणऋषि: । भाववृत्तंदेवता । अनुष्टुपच्छंद: । अघमर्षणेविनियोग: ॥ ॐ ऋतंचसत्यंचाभीध्दात्तपसोध्यजायत ॥ ततोरात्र्यजायतत:समुद्रोअर्णव: ॥ समुद्रादर्णवा
दधिंसंवत्सरोअजायत ॥ अहोरात्राणिविदधद्विश्चस्यमिषतोवशी ॥ सूर्याचंद्रमसौधाता
यथापूर्वमकल्पयत् ॥ दिवचपृथिवींचांतरिक्षमथोस्व: ॥ इतिवामनासापुटेनवायुंनिरुधय
दक्षिणनासयापापपुरुषंनिरस्यतज्जलमनवलोकयन्वामभोगेक्षितौक्षिपेत् ॥ आचम्य ॥
अर्ध्यदानम्॥ प्रणवस्यपरब्रह्मऋषि: परमात्मादेवता दैवीगायत्रीछंद: व्याहृतीनांपरमे
ष्ठीप्रजापति:प्रजापतिर्बृहती गायत्र्याविश्वामित्र:सवितागायत्री ॥ श्रीसूर्यायार्ध्यदानेविनि
योग: ॥ ॐ भूर्भुव:स्व: तत्सवितुर्व० श्रीसूर्यनारायणायेदमर्ध्यंसमर्पयामि इतिश्री: ॥
कालातिक्रमेप्रायश्चित्तार्थंचतुर्थं ॥ तच्चकाललोपजनितप्रत्यवायपरिहारार्थचतुर्थार्घ्यदानं
करिष्ये इतिदध्यात् ॥ असावादित्योब्रह्म ॥ इत्यात्मानंप्रदक्षिणंपरिषिच्यापउपस्पृशेत् ॥ आचम्यप्राणायामंकृत्वा ॥ गायत्रीजप: ॥ कुशोदकेनजपस्थानंप्रोक्ष्यं ॐ भूर्भव:स्वरो
मितिजपित्वासनेपद्मासनेनोपविश्य ॥ पृथ्वीतिमंत्रस्य मेरुपृष्ठऋषि: कूर्मोदेवता सुतलंछंद: आसनेविनियोग: ॥ ॐ पृथ्वित्वयाधृतालोकादेवित्वंविष्णुनाधृता ॥
त्वंचधारयमांदेविपवित्रंकुरुचासनम् ॥ ऊर्ध्वकेशिविरुपाक्षिमांसशोणितभक्षणे ॥ तिष्ठदे
विशिखाबंधेचामुंडेह्यपराजिते ॥ अपसर्पतुतेभूतायेभूताभूमिसंस्थिता: ॥ येभूताविघ्न
कर्तारस्तेगच्छंतुशिवाज्ञया ॥ अपक्रामंतुभूतानिपिशाचा:सर्वतोदिशम् ॥ सर्वेषामवरोधेन
ब्रह्मकर्मसमारभे ॥ गायत्र्याविश्वामित्रऋषि: ॥ सवितादेवता ॥ गायत्रीछंद: ॥ न्यासे
विनियोग: ॥ ॐ तत्सवितुर् अंगुष्ठाभ्यांनम: । वरेण्यंर्जनीभ्यांनम: । भर्गोदेवस्यम
ध्यमाभ्यांनम: । धीमहिअनामिकाभ्यांनम: । धियोयोन:कनिष्ठिकाभ्यांनम: । प्रचो
दयात् करतलकरपृष्ठाभ्यांनम: ॥ ॐ तत्सवितुर्हृदयायनम: । वरेण्यंशिरसेस्वाहा ।
भर्गोदेवस्यशिखायैवषट् । धीमहिकवचायहुम् । धियोयोनोनेत्रत्रयायवौषट् । प्रचोदयात्
अस्त्रायफट्‍ । इतिदिग्बंध: ॥ योदेव:सवितास्माकंधियोधर्मादिगोचरे ॥ प्रेरयेत्तस्यतभ्द
र्गस्तद्वरेण्यमुपास्महे ॥ शुक्लोवर्ण: । अग्निर्मुखं । ब्रह्माशिर: विष्णुर्हृदयं । रुद्रो
ललाटं । पृथिवीकुक्षि: । त्रैलोक्यंचरणा: । सांख्यायनगोत्रं । त्रिपदागायत्री । अशेषपापक्षयार्थंगायत्रीजपेविनियोग: । मुक्ताविद्रुमहेमनीरधवलच्छायैर्मुखैस्त्रीक्षणै
र्युक्तामिंदुकलानिबध्दमुकुटांतत्त्वार्थवर्णात्मिकाम् ॥ गायत्रींवरदाभयांकुशकशाशुभ्रंकपा
लंगुणंशंखंचक्रमथारविंदयुगुलंहस्तैर्वहंतींभजे ॥ बालांबालादित्यमंडलमध्यस्थांरक्तवर्णां
रक्ताबरानुलेपनस्त्रगाभरणांचतुर्वक्रांदंडकमंडल्वक्षसूत्राभयांकचतुर्भुजांहंसासनारुढां ब्रह्म
दैवत्यामृग्वेदमुदाहरंतींभूर्लोकाधिष्ठात्रींगायत्रींनामदेवतांध्यायामि ॥ आगच्छवरदेदेविज
पेमेसंनिधौभव ॥ गायंतंत्रायसेयस्माद्गायत्रीत्वंतत:स्मृता ॥ ॐ भूर्भव:स्व: ॥ तत्सवितुर्वरेण्यंभर्गोदेवस्यध्दीमहि ॥ धियोयोन:प्रचोदयात् ॥ इतिगायत्रीमंत्रं वस्त्राच्छादितहस्तपर्वभिर्गणयन्नष्टोत्तरशतमष्टाविंशतिर्दशवारंवाजप्त्वापुन:तत्सवितुरितिषडंगन्यासंकृत्वा ॥ उपस्थानम् ॥ जातवेदसेमारीच:कश्यपोजातवेदाअग्निस्त्रिष्टुप् ॥ उपस्थानेविनियोग: ॥ ॐ जातवेदसेसुनवामसोममरातीयतोनिदहातिवेद: ॥ सन:पर्षदतिंदुर्गाणिविश्वानावेवसिंधुंदुरितात्यग्नि: ॥ मित्रोजनानितिनवर्चस्यसूक्तस्य
गाथिनोविश्वामित्रऋषि: मित्रोदेवतात्रिष्टुप छंद:अंत्याश्चतस्त्रोगायत्र्य:सूर्योपस्थानेविनि
योग: ॥ ॐ मित्रोजनान्यातयतिब्रुवाणोमित्रोदाधारपृथिवीमुतदयां ॥ मित्र:कृष्टीरनिमि
षाभिचष्टेमित्रायहव्यंघृतवज्जुहोत ॥ प्रसमित्रमर्तोअस्तुप्रयस्वान्यस्तआदित्यशिक्षति
व्रतेन ॥ नहन्यतेनजीयतेत्वोतोनैनमंहोअश्रोत्यंतितोनदूरात् ॥ अनमीवासैअळयामदंतो
मितज्ञवोवरिमन्नापृथिव्या: ॥ आदित्यस्यव्रतमुपक्षियंतोवयंमित्रस्यसुमतौस्याम् ॥ अयंमित्रोनमस्य:शुशेवोराजासुक्षत्रोअजनिष्टावेधा: ॥ तस्यवयंसुमतौयज्ञियस्यापिभद्रेसौ
मनसेस्याम ॥ महाँआदित्योनमसोपसद्योयातयज्जनोगृणतेसुशेव: ॥ तस्माएतत्पन्य
मायजुष्टमग्नौमित्रायहविराजुहोत ॥ मित्रस्यचर्षणीधृतोवोदेवस्यसानसि ॥ ध्युम्नंचित्र
श्रवस्तम् ॥ अभियोमहिनादिवंमित्रोबभूवसप्रथा: ॥ अभिश्रवोभि:पृथिवीं ॥ मित्रायपंच
येमिरेजनाअभिष्टिशवसे ॥ सदेवान्विश्वान्बिभतिं ॥ मित्रोदेवेष्वायुषुजनायवृक्तबहिर्षे ॥ इषइष्टव्रताअक: ॥ (इदमुपस्थानंमित्रस्यचर्षणीत्यादिचतुर्भिवोक्तं) ॥ त्र्यंबकंमैत्रा
वरुणिर्वसिष्ठोरुद्रोऽनुष्टुप् ॥ उपस्थानेविनियोग: ॥ ॐ त्र्यंबकंयजामहेसुगंधिंपुष्टिव
र्धनम् ॥ उर्वारुवरुकमिवबंधनान्मृत्योर्मुक्षीयमामृतात् ॥ तच्छंयो।शंयुर्विश्वेदेवा:शक्करी । उपस्थानेविनियोग: ॥ ॐ तच्छंयोरावृणीमहेगातुंयज्ञायगातुंयज्ञपतयेदैवीस्वस्तिरस्त
नु:स्वस्तिर्मानेषभ्य: ॥ ऊर्ध्वंजिगातुभेषजम् ॥ शंनोअस्तुद्विपदेशंचतुष्पदे ॥ नमो
ब्रह्मणे प्रजापतिर्विश्वेदेवाजगती ॥ उपस्थानेविनियोग: ॥ ॐ नमोब्रह्मणेनमोअस्त्व
ग्नयेनम:पृथिव्यैनमओषधीभ्य: । दक्षिणायैदिशेयमायचनम: । नैऋत्यैदिशेनिऋतयेच
नम: । प्रतीच्यैदिशेवरुणायचनम: । वायव्यैदिशेवायवेचनम: । उदीच्यैदिशेसोमायच नम: । ईशान्यैदिशेईश्वरायचनम: । ऊर्ध्वायैदिशेब्रह्मणेचनम: । अधरायैदिशेअनंतायच
नम: । संध्यायैनम: । गायत्र्यैनम: । सावित्र्यैनम: । सरस्वत्यैनम: । सर्वाभ्योदेवता
भ्योनम: ॥    यांसदासर्वभूतानिस्थावराणिचराणिच ॥ सायंप्रातर्नमस्यंतिसामासंध्याऽ
भिरक्षतु ॥ उत्तमेशिखरेजातेभूम्यांपर्वतमूर्धनि ॥ ब्राह्मणेभ्योऽभ्यनुज्ञातागच्छदेवियथा
सुगम् ॥ भद्रंनतिमंत्रस्यऐंद्रोविमदऋषि: ॥ अग्निर्देवता ॥ एकपदारविराट्‍छंद: ॥
शांत्यर्थेजपेविनियोग: ॥ ॐ भद्रंनोअपिवातयमन: ॥ ॐ शांति:शांति:शांति: ॥
प्रदक्षिणंपरिभ्रमन् ॥ आसत्यलोकादापातालादालोकालोकपर्वतात् ॥ येसंतिब्राह्मणादेवा
स्तेभ्योनित्यंनमोनम: ॥ इतिगुरुनभिवादय यथा स्वस्तिकाकारहस्ताभ्यांकर्णौस्पृष्ट्वा
अमुकप्रवरोमुकगोत्रोत्पन्नोऽहममुकशर्माभोगुरोत्वामभिवादयामिइतिभूम्यपसंग्रहंप्रणमेत् ॥
स्मरणोदेवताविष्णो:संपूर्णंस्यादितिश्रुति: ॥ प्रायश्चित्तान्यशेषाणित: कर्मात्मकानिवै ॥
यानितेषामशेषाणांकृष्णानुस्मरणंपरम् ॥ विष्णवेनमइतित्रि: ॥ इतिप्रात:संध्या: ॥

N/A

References : N/A
Last Updated : June 02, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP