संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|आन्हिकाचारप्रकरणम्| अथप्रात:स्मरणम् आन्हिकाचारप्रकरणम् मंगलमुपोध्दातश्च अथप्रात:स्मरणम् अथप्रज्ञाविवर्धनस्तोत्रम् अथमूत्रपुरीषोत्सर्गविधि: अथदंतधावनविधि: अथप्रात:स्नानविधि: अथोष्णोदकस्नानविधि: अथगौणस्नानानि अथभस्मधारणविधि: अथगोपीचंदनधारणम् अथकुशग्रहणविधि: अथमालालक्षणंसंस्कारश्च अथमालासंस्कार: अथप्रात:संध्या अथाग्निकार्यंब्रह्मचारिण: अथौपासन:सायंहोम: अथप्रातर्होम: अथद्वादशनमस्कारा: अथतृचाकल्पनमस्कारा: आन्हिकाचारप्रकरणम् - अथप्रात:स्मरणम् ऋग्वेदीयब्रह्मकर्मसमुच्चयः Tags : brahmarugvedsanskritॠग्वेदब्रह्मसंस्कृत अथप्रात:स्मरणम् Translation - भाषांतर श्री: ॥ अत्रस्मरणीयमाहमहाभारते ॥ महर्षिंर्भगवान्व्यास:कृत्वेमांसंहितांपुरा ॥ श्लोकैश्चतुर्भिर्धर्मात्मापुत्रमध्यापयच्छुकम् ॥१॥मातापितृसहस्त्राणिपुत्रदारशतानिच ॥ संसारेष्वनुभूतानियांतियास्यंतिचापरे ॥२॥हर्षस्थानसहस्त्राणिभयस्था नशतानिच ॥ दिवसेदिवसेमूढमाविशंतिनपंडितम् ॥३॥ऊर्ध्वबाहुर्विरौम्येषनचकश्चिच्छृणोतिमे ॥ धर्मार्थश्चकामश्चसकिमर्थंनसेव्यते ॥४॥नजातुकामान्नभयालोभाध्दर्मंत्यजेज्जीवितस्यापिहेतो: ॥ धर्मोनित्य:सुखदु:खदु:खेत्वनित्येजीवोनित्योहेतुरस्यत्वनित्य: ॥५॥इमांभारतसावित्रींप्रातरुत्थायय:पठेत् ॥ सभारतफलंप्राप्यपरंब्रह्माधिगच्छति ॥६॥योगोशतंकनकश्रृंगमयंददातिविप्रायवेदविदुषेचबहुश्रुताय ॥ पुण्यांचभारतकथांश्रृणुयाच्चनित्यंतुल्यंफलंभवतितस्यचतस्यचैव ॥७॥अथ भाग्नो:श्लोका: ॥ प्रात:स्मरामिखलुतत्सवितुर्वरेण्यंरुपंहिमंडलमृचोऽथतनुर्यजूंषि ॥सामानियस्यकिरणा:प्रभवादिहेतुंब्रह्याहरात्मकमलक्ष्यमचिंत्यरुपम् ॥१॥प्रातर्नमामितरणिंतनुवाड्मनोभिर्ब्रह्मेंद्रपूर्वकसुरैर्नुतमर्चितंच ॥ तंसर्वलोककलनात्मककालमूर्तिंगोकंठबंधनविमोचनमादिदेवम् ॥३॥श्लोकत्रयमिदंभानो:प्रात:प्रात:पठेत्तुय: ॥ ससर्वव्याधिनिर्मुक्त:परंसुखमवाप्नुयात् ॥४॥अथविघ्नेशस्य ॥ प्रात:स्मरामिगणनाथमनाथबंधुंसिंदूरपूरपरिशोभितगंडयुग्मम् ॥उद्दंडविघ्नपरिखंडनंचंडदंडमाखंडलादिसुरनायकवृंदवंदयम् ॥१॥प्रातर्नमामिचतुरानवंदयमानमिच्छानुकूलमखिलंचवरंददानम् ॥तंतुंदिलंद्विरसनप्रिययज्ञसूत्रंपुत्रंविलासचतुरंशिवयो:शिवाय ॥२॥प्रातर्भजाम्यभयदंखलुभक्तशोकदावानलंगणविभुंवरकुंजरास्यम् ॥ अज्ञानकाननविनाशनहव्यवाहमुत्साहवर्धनमहंसुतमीश्वरस्य ॥३॥श्लोकत्रयमिदंपुण्यंसदासाम्राज्यदायकम् ॥ प्रातरुत्थायसततंय:पठेत्प्रयत:पुमान् ॥४॥अथदेव्या: ॥ प्रात:स्मरामिशरदिंदुकरोज्ज्वलाभांसद्रत्नवत्सकलकुंडलहारशोभाम् ॥दिव्यायुधोर्जितसुनीलसहस्त्रहस्तांरक्तोत्पलाभचरणांभवतींपरेशाम् ॥१॥प्रातर्नमामिमहिषासुरचंडमुंडशुंभासुरप्रमुखदैत्यविनाशदक्षाम् ॥ ब्रह्मेंद्ररुद्रमुनिमोहनशीललीलांचंडींसमस्तसुरमूर्तिमनेकरुपाम् ॥२॥प्रातर्भजामिभजतामखिलार्थदात्रींधात्रींसमस्तजगतादुरितापहंत्रीम् ॥संसारबंधनविमोचनहेतुभूतांमायांपरांसमधिअगम्यपरस्यविष्णो: ॥३॥श्लोककत्रयमिदंदेव्याश्चंडिकाया:पठेन्नर:॥सर्वान्कामानवाप्नोतिविष्णुलोकेमहीयते ॥४॥अथशिवस्य ॥ प्रात:स्मरामिभवभीतिहरंसुरेशंगंगाधरंवृषभवाहनमंबिकेशम् ॥ खट्वांगशूलवरदाभयहस्तमीशंसंसाररोगहरमौषधमद्वितीयम् ॥१॥प्रातर्नमामिगिरिशंगिरिजार्धदेहंसर्गस्थितिप्रलयकारणमादिदेवम् ॥विश्वेश्वरंविजितविश्वमनोभिरामंसंसाररोग० ॥२॥प्रातर्भजामिशिवमेकमनंतमाद्यंवेदांतवेदयमनघंपुरुषंमहांतम् ॥नामादिभेदरहितंषडभावशून्यंसंसाररोग० ॥३॥प्रात:समुत्थायशिवंविचिंत्यश्लोकत्रयंयेऽनुदिनंपठंति॥ तेदु:खजातंबहुजन्मसंचितंहित्वापदंयांतितदेवशंभो: ॥४॥अथविष्णो: ॥ प्रात:स्मरामिभ वभीतिमहातिंशांत्यैनारायणंगरुडवाहनमज्जनाभम् ॥ग्राहाभिभूतवरवारणमुक्तिहेतुंचक्रायुधंतरुणवारिजपत्रनेत्रम् ॥१॥प्रातर्नमामिमनसावचसाचमूर्ध्नापादारविंदयुगुलंपरमस्यपुंस: ॥नारायणस्यनरकार्णवतारणस्यपारायणप्रवणविप्रपरायणस्य ॥२॥प्रातर्भजामिभजतामभयंकरंतंप्राक्ससर्वजन्मकृतपापभयापहत्यै॥ योग्राहवक्रपतितांघ्रिगजेंद्रघोरशोकप्रणाशमकरोध्दृतशंखचक्र: ॥३॥श्लोकत्रयमिदंविष्णो:प्रात:कालेपठेत्तुय: ॥ लोकत्रयगुरुस्तस्मैददयादात्मपदंहरि: ॥४॥अथरामचंद्रस्य ॥ प्रात:स्मरामिरघुनाथमुखारविंदंमंदस्मितमृदुलभाषिविशालभालम् ॥कर्णावलंबिचकुंडलशोभिगंडकर्णांतदीर्घनयनंनयनाभिरामम् ॥१॥प्रातर्नमामिरघुनाथकरारविंदंरक्षोगणायभयदंवरदंनिजेभ्य:॥ यद्राजसंसदिविभज्यमहेशचापंसीताकरग्रहणमंगलमापसद्य: ॥२॥प्रातर्भजामिरघुनाथपदारविंदंपद्मांकुशादिशुभरेखिसुखावहंमे ॥ योगींद्रमानसमधुव्रतसेव्यमानंशापापहंसपदिगौतमधर्मपत्न्या: ॥३॥प्रातर्वदामिवचसारघुनाथनामवाग्दोषहारिसकलंशमलंकरोति ॥ यत्पार्वतीस्वपतिनासहमोक्तुकामाप्रीत्यासहस्त्रहरिनामसमंजजाप ॥४॥प्रात:श्रयेश्रुतिनुतांरघुनाथमूर्तिंनीलांबुजोत्पलसितेतररत्ननीलाम् ॥आमुक्तमौक्तिकविशेषविभूषणाढयांध्येयांसमस्त मुनिभिर्जनमुक्तिहेतुम् ॥५॥य:श्लोकपंचममिद्रंप्रयत:पठेत्तुनित्यंप्रभातसमयेपुरुष: प्रबुध्द: ॥श्रीरामकिंकरजनेषुसएवमुख्योभूत्वाप्रयातिहरिलोकमनन्यलभ्यम् ॥६॥अन्यच्च ॥ ब्रह्मामुरारिस्त्रिपुरांतकारिर्भानु:शशीभूमिसुतोबुधश्च ॥गुरुश्चशुक्र:शनिराहुकेतव:कुर्वंतुसर्वेममसुप्रभातम् ॥१॥भृगुर्वसिष्ठ:क्रतुरंगिराश्चमनु: पुलस्त्यपुलहश्चगौतम: ॥ रैभ्योमरीचिश्चयवनश्चदक्ष:कुर्वंतु० ॥२॥सनत्कुमार:सनक:सनंदन:सनातनोऽप्यासुरिपिंगलौच ॥ सप्तस्वरा:सप्तरसातलानिकुर्वंतु० ॥३॥सप्तार्णवा:सप्तकुलाचलाश्चसप्तर्षयोद्वीपवनानिसप्त॥ भूरादिकृत्वाभुवनानिसप्तकुर्वंतु० ॥४॥पृथ्वीसगंधासरसास्तथाप:स्पर्शींचवायुर्ज्वलन:सतेजा:॥ नभ:सशब्दंमहतासहैतेकुर्वंतु ॥५॥इत्थंप्रभातेपरमंपवित्रंपठेत्स्मरेद्वाराश्रृणुयाच्चतद्वत् ॥ दु:स्वप्ननाशस्त्विहसुप्रभातंभवेच्चनित्यंभगवत्प्रसादात् ॥६॥वैन्यंपृथुंहैहयमर्जुनंच शाकुंतलेयंभरतंनलंच ॥ रामचंयोवैस्मरतिप्रभातेतस्यार्थलाभोविजयस्ते ॥१॥बलिर्भिभीषणोभीष्म:प्रह्लादोनारदोध्रुव: ॥ षडेतेवैष्णवास्तेषांस्मरणंपापनाशनम् ॥२॥अश्वत्थामाबलिर्व्यासोहनूमांश्चबिभीषण: ॥ कृप:परशुरामश्चसप्तैतेचिरजीविन: ॥३॥सप्तैतान्संस्मरेन्नित्यंमार्कंडेयमथाष्टमम् ॥ जीवेद्वर्षतंसाग्रमपमृत्युविवर्जित: ॥४॥अहल्याद्रौपदीसीतातारामंदोदरीतथा ॥ पंचकंनास्मरेन्नित्यंमहापातकनाशनम् ॥५॥कर्कोटकस्यनागस्यदमयंत्यानलस्यच ॥ ऋतुपर्णस्यराजर्षे:कीर्तनं कलिनाशनम् ॥६॥धर्मोविवर्धतियुधिष्ठिरकीर्तनेनपाप्रंप्रणश्यतिवृकोदरकीर्तनेन ॥ शत्रुर्विनशतिधनंजयकीर्तनेमाद्रीसुतौकथयतांनभवंतिरोगा: ॥७॥पुण्यश्लोकोनलोराजापुण्यश्लोकोयुधिष्ठिर:॥पुण्यश्लोकाचवैदेहीपुण्यश्लोकोजनार्दन: ॥८॥विश्वेशंमाधवंढुंढिंदंदपाणिंचभैरवम् ॥ वंदेकाशींगुहागंगांभवानींमणिकर्णिकाम् ॥९॥इत्यादिपौराणश्लोकान्पठित्वा ॥ समुद्रवसनेदेविपर्वतस्तनेमंडिते ॥ विष्णुपत्निनमस्तुभ्यंपादस्पर्शक्षमस्वमे ॥१॥इतिभूमिंप्रार्थ्योत्थायरविंगुरुंचनमस्कृत्यप्रातरग्निमित्यादिमंत्रान्पठेत् ॥ हरि:ॐप्रातरग्निंप्रातरिंद्रंहवामहेप्रातर्मित्रावरुणाप्रातरश्विना ।प्रातर्भगंपूषणंब्रह्मणस्पर्तिंप्रात: सोममुतरुद्रंहुवेम ॥ प्रातर्जितंभगमुग्रंहुवेमवयंपुत्रमर्दितेर्योविधर्ता । आध्रश्चिदयंमन्यमानस्तुरश्चिद्राजाचिदयंभगंभक्षीत्याह ॥भगप्रणेतर्भगसत्यराधोभगेमांधियमुदवाददन्न: । भगप्रणोजनयगोभिरश्चैर्भग प्रनृभिर्नृवंत:स्याम ॥ उतेदानींभगवंतस्यामोतप्रपित्वउतमध्येअन्हा । उतोर्दितामघवन्त्सूर्यस्यवयंदेवानांसुमतौस्याम ॥ भगऽएवभगवाँऽअस्तुदेवास्तेनवयंभगवंत:स्याम । तंत्वाभगसर्वऽइज्जोहवीतिसनोभगपुरएताभवेह ॥समध्य्वरायोषसोनमंतदधिक्रावेवशुचयेपदाय । अर्वाचीनंवसुविदंभगंनोरथमिवाश्वावाजिनऽआवहंतु ॥अश्वावतीर्गोमतीर्नऽउषासोवीरवती:सदमुच्छंतुभद्रा: ॥ घृतंदुहानाविश्वत:प्रपीतायूयंपातस्वस्तिभि:सदान: ॥ ॐयच्चगोषुदु:ष्वप्न्यंयच्चास्मेदुहितर्दिव: ॥त्रितायतद्विभावर्याप्त्यायपरावहानेहसोवऊतय:सुऊतयोवऊतय: ॥निष्कंवाघाकृणवतेस्त्रजंवादुहितर्दिव: । त्रितेदु:ष्वप्न्यंसर्वमाप्त्येपरिदद्मस्यनेहसोवऊत य:सुऊतयोवऊतय: ॥तदन्नायतदपसेतंभागमुपसेदुषे । त्रितायचद्वितायचोषोदु:ष्वप्नयैवहानेहसोवऊतय: सुऊतयोवऊतय: ॥यथाकलांयथाशफंयथऋणंसंनयामसि । एवादु:ष्वप्न्यंसर्वमाप्त्येसंनयामस्यनेहसोव ऊतयोवऊतय: ॥अजैष्मादयासनामचाभूमानागसोवयं । उषोयस्माद्दु:ष्व:प्न्यादभैष्मापतदुच्छत्व नेहसोवऊतय: सुऊतयोवऊतय: ॥ॐ अजैष्माद्यासबानचाभूमानागसोवयं ॥ जाग्रस्त्वप्न:संकल्प:पापोयंद्विष्मस्तंस ऋच्छतुयोनोद्वेष्टितमृच्छतु ॥ इतिप्रात:स्मरणंसंपूर्णम् ॥ N/A References : N/A Last Updated : May 29, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP