वायवीयसंहिता पूर्वभागः - विषयानुक्रमणिका

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


अथ सप्तम्या वायवीयसंहितायाः पूर्वभागः १॥

अध्याय १ वेदादिचतुर्दशविद्यापुराणाविर्भावकथनम, तत्र पुराणसंख्यालक्षणादि निरूपणश्च

अध्याय २ 'कः परः' इति विवदमानानां षट्कुलीनमुनीनां विधिप्रति प्रञ्चः
 
अध्याय ३ शिव एक सर्वस्मात्परस्तत्प्रसादादेव जीवानां मुक्तिरिति विध्युत्तरं प्रसंगान्नैमिषवर्णनञ्च

अध्याय ४ ऋषिसत्रसमाप्त्युत्तरं तत्र वायोरागनमृषीणां प्रश्नानुरोधाद्वायोः शिवैश्वर्यकथनारंभः

अध्याय ५ पशुपतिशब्दार्थविषये वायुनैमिषेय ऋषिमविवादः

अध्याय ६ उपर्युक्तशब्दार्थः शिव एवेति वायोः प्रत्युत्तरं प्रसंगाद्ब्रह्मादीनामायुर्मानकथनञ्च

अध्याय ७ काल: शिवाद्भिन्नो नेत्युक्त्वा तस्य स्वरूपशक्त्यादिविवरणम्

अध्याय ८ कृत्स्नमिदं सृष्ट्वा तत्र क्रीडानिमित्तं शिवस्य सृष्ट्यादि भवति

अध्याय ९ ऋषीणां वायुं प्रति शिवस्य क्रीडाविषयकसृष्टिविषयानेकप्रश्नकथनम्

अध्याय १० अखिलब्रह्मांडस्थितिस्वरूपादिविवरणम्

अध्याय ११ मन्वंतरकल्पप्रतिकल्पादिभेदेन सर्गप्रतिसर्गोंद्भव: ॥

अध्याय १२ ब्रह्मण:सकाशान्मोहगदादिसर्गः  भूतपिशाचासुरराक्षसां चोत्पतिविसर्गौ

अध्याय १३ कल्पभेदेन ब्रह्मविष्णुरुद्रादीनामन्योन्यतः प्रादुर्भावकथनम्

अध्याय १४ प्रतिकल्पे ब्रह्मण: सकाशाद्रुद्रोत्पत्तिवर्णनम्

अध्याय १५ अर्धनारीश्वररुपेण प्रादुर्भूताच्छिवाद् ब्रह्मणो मैथुनसृष्टिकल्पना

अध्याय १६ मैथुनसृष्टिकथने प्रसंगाच्छक्तिनिर्माणकथनम्

अध्याय १७ विधिदेहार्धाच्छतरूपोत्पतिर्दक्षादीनां चोत्पत्तिवर्णनम्

अध्याय १८ शिवायाः सतीनाम्ना दक्षोदराज्जन्म, दक्षस्य रुद्रद्धेषे कारणं

अध्याय १९ शिवद्वेषनिमित्तात्सतीदेहत्यागवर्णनञ्च  वीरभद्रोत्पतिश्च

अध्याय २० सगणस्य वीरभद्रस्य दक्षयज्ञस्थानागमनं तत्कृतदक्षमखविध्वंसनवर्णनम्

अध्याय २१ यज्ञस्थानाद्विष्ण्वादीनां गमनम् अग्न्यादीनां च पलायनवर्णनम्

अध्याय २२ दक्षस्य पक्षपाताद्वीरभद्रदेवयोर्मध्ये दारुण संग्राम:, तत्र वीरभद्रकृतदेवादीनां विरूपकरणस्य वर्णनम्

अध्याय २३ पराभूतैर्देवैः कृतया स्तुत्या प्रसन्नाच्छिवान्मखसंधानदेवसन्त्वान शिवांतर्धानादिकथनम्

अध्याय २४ ततो मंदराचले शिवस्य तपोर्थ गमनं प्रसंगान्मंदरवर्णनं च ! अत्रांतरे शुंभनिशुंभदैत्योरुत्पत्तिः विधिप्रार्थनया च तद्वधार्थं प्रवृत्तयोः शिव शिवयोर्विचित्रलीलाप्रपंचनम्

अध्याय २५ शिवेन 'काली' त्यभिहिता शिवा तपोऽर्थं हिमाचलं जगाम तत्रोग्रं तपश्चरंतीं देवीं दैत्यवधेच्छया ब्रह्माऽऽजगाम तदा कालीं मां गौरी कुरु, मंत्सिंहश्च शिवभक्तो भवत्विति तं देव्युक्तिः

अध्याय २६ ब्रह्माण च तथास्त्वित्युक्ते सा सखीभिस्सिंहेन च सह शिवं द्रष्टुं गता ब्रह्मापि गौर्या: स्वदेहकोशान्निर्मितां कौशिकीं गृहीत्वा दैत्यवधार्थं स्वलोकं जगामेत्यादिवर्णनम्

अध्याय २७ मंदरे गौरीगतौ शिवगणकृतोत्साहवर्णनं शिवयो: संमेलनप्रसंगकथनं शिवयाऽऽनीतस्य सिंहस्य शिवप्रसादः

अध्याय २८ विश्वस्यास्य याऽग्नीषोमीयता पूर्वोक्ता तस्याः प्रपंचः प्रसंगाद्भस्ममहिमवर्णनं च

अध्याय २९ वाग्रथा इव चास्य विश्वस्य शिवस्य संबंध: पूर्वोक्तस्तस्य विवरणं तथा षडध्वस्वरूपकथनम्

अध्याय ३० शिवविचित्र चरितश्रवणनास्तिक्यप्रवृत्तबुद्धिप्रवाहस्यनिवर्तनक्षम शिवतत्त्वविषयक ऋषिप्रश्नप्रपंचः

अध्याय ३१ उत्तरत्वेन वायुप्रोक्तानेकाग्न्यादिदृष्टांतैर्विशुद्धशिवतत्त्वकथनम्

अध्याय ३२ मोक्षप्रापकश्रेष्ठधर्मप्रच्छानुरोधाच्छैवधर्मानुष्ठानमेव नान्यदित्यादि विवरणम्  तस्य च पंचविधत्वनिरुक्ति:

अध्याय ३३ सप्रपंचपाशुपतव्रतकथनं भस्ममहिमवर्णनञ्च  

अध्याय ३४ प्रश्नानुसारेण शिशुत्वेऽप्युपमन्योः शैवागमतत्वज्ञानं तस्य पूर्वजन्मवृत्तकथनं रुद्रकृतया तस्य विभूतिलाभश्च  

अध्याय ३५ उपमन्युपस्तप्ता देवाः शिवशरणं प्राप्तास्तदा शक्ररूपशिवेनोपमन्युसमीपं गत्वा वरं याचस्वेत्युक्ते बालकेनोक्तं शिवभक्ति विना मम किमपि नेप्टं तदा शक्ररूपी शिवः शिवनिंदामकरोत्तां श्रुत्वा चोपमन्युस्तं शप्तुं प्रवृत्तस्तदा शिवरूपेण तस्य कामवरं दत्त्वा स्वलोक गत इत्यादिवर्णनम्

इति सप्तम्या वायवीयसंहितायाः पूर्वखण्डः ॥१॥

N/A

References : N/A
Last Updated : October 13, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP