वायवीयसंहिता पूर्वभागः - अध्यायः २२

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


तस्मिन्नवसरे व्योम्नि समाविरभवद्रथः ॥१॥
सहस्रसूर्यसंकाशश्चारुचीरवृषध्वजः ॥१॥
अश्वरत्नद्वयोदारो रथचक्रचतुष्टयः ॥२॥
सञ्चितानेकदिव्यास्त्रशस्त्ररत्नपरिष्कृतः ॥२॥
तस्यापि रथवर्यस्य स्यात्स एव हि सारथिः ॥३॥
यथा च त्रैपुरे युद्धे पूर्वं शार्वरथे स्थितः ॥३॥
स तं रथवरं ब्रह्मा शासनादेव शूलिनः ॥४॥
हरेस्समीपमानीय कृताञ्जलिरभाषत ॥४॥
भगवन्भद्र भद्रांग भगवानिन्दुभूषणः ॥५॥
आज्ञापयति वीरस्त्वां रथमारोढुमव्ययः ॥५॥
रेभ्याश्रमसमीपस्थस्त्र्यंबको ऽंबिकया सह ॥६॥
सम्पश्यते महाबाहो दुस्सहं ते पराक्रमम् ॥६॥
तस्य तद्वचनं श्रुत्वा स वीरो गणकुञ्जरः ॥७॥
आरुरोह रथं दिव्यमनुगृह्य पितामहम् ॥७॥
तथा रथवरे तस्मिन्स्थिते ब्रह्मणि सारथौ ॥८॥
भद्रस्य ववृधे लक्ष्मी रुद्रस्येव पुरद्विषः ॥८॥
ततः शंखवरं दीप्तं पूर्णचंद्रसमप्रभम् ॥९॥
प्रदध्मौ वदने कृत्वा भानुकंपो महाबलः ॥९॥
तस्य शंखस्य तं नादं भिन्नसारससन्निभम् ॥१०॥
श्रुत्वा भयेन देवानां जज्वाल जठरानलः ॥१०॥
यक्षविद्याधराहीन्द्रैः सिद्धैर्युद्धदिदृक्षुभिः ॥११॥
क्षणेन निबडीभूताः साकाशविवरा दिशाः ॥११॥
ततः शार्ङ्गेण चापाङ्कात्स नारायणनीरदः ॥१२॥
महता बाणवर्षेण तुतोद गणगोवृषम् ॥१२॥
तं दृष्ट्वा विष्णुमायांतं शतधा बाणवर्षिणम् ॥१३॥
स चाददे धनुर्जैत्रं भद्रो बाणसहस्रमुक् ॥१३॥
समादाय च तद्दिव्यं धनुस्समरभैरवम् ॥१४॥
शनैर्विस्फारयामास मेरुं धनुरिवेश्वरः ॥१४॥
तस्य विस्फार्यमाणस्य धनुषो ऽभून्महास्वनः ॥१५॥
तेन स्वनेन महता पृथिवीं समकंपयत् ॥१५॥
ततः शरवरं घोरं दीप्तमाशीविषोपमम् ॥१६॥
जग्राह गणपः श्रीमान्स्वयमुग्रपराक्रमः ॥१६
बाणोद्धारे भुजो ह्यस्य तूणीवदनसंगतः ॥१७॥
प्रत्यदृश्यत वल्मीकं विवेक्षुरिव पन्नगः ॥१७॥
समुद्धृतः करे तस्य तत्क्षणं रुरुचे शरेः ॥१८॥
महाभुजंगसंदष्टो यथा बालभुजङ्गमः ॥१८॥
शरेण घनतीव्रेण भद्रो रुद्रपराक्रमः ॥१९॥
विव्याध कुपितो गाढं ललाटे विष्णुमव्ययम् ॥१९॥
ललाटे ऽभिहितो विष्णुः पूर्वमेवावमानितः ॥२०॥
चुकोप गणपेंद्राय मृगेंद्रायेव गोवृषः ॥२०॥
ततस्त्वशनिकल्पेन क्रूरास्येन महेषुणा ॥२१॥
विव्याध गणराजस्य भुजे भुजगसन्निभे ॥२१॥
सो ऽपि तस्य भुजे भूयः सूर्यायुतसमप्रभम् ॥२२॥
विससर्ज शरं वेगाद्वीरभद्रो महाबलः ॥२२॥
स च विष्णुः पुनर्भद्रं भद्रो विष्णुं तथा पुनः ॥२३
स च तं स च तं विप्राश्शरैस्तावनुजघ्नतुः ॥२३॥
तयोः परस्परं वेगाच्छरानाशु विमुंचतोः ॥२४॥
द्वयोस्समभवद्युद्धं तुमुलं रोमहर्षणम् ॥२४॥
तद्दृष्ट्वा तुमुलं युद्धं तयोरेव परस्परम् ॥२५॥
हाहाकारो महानासीदाकाशे खेचरेरितः ॥२५॥
ततस्त्वनलतुंडेन शरेणादित्यवर्चसा ॥२६॥
विव्याध सुदृढं भद्रो विष्णोर्महति वक्षसि ॥२६॥
स तु तीव्रप्रपातेन शरेण दृढमाहतः ॥२७॥
महतीं रुजमासाद्य निपपात विमोहितः ॥२७॥
पुनः क्षणादिवोत्थाय लब्धसंज्ञस्तदा हरिः ॥२८॥
सर्वाण्यपि च दिव्यास्त्राण्यथैनं प्रत्यवासृजत् ॥२८॥
स च विष्णुर्धनुर्मुक्तान्सर्वाञ्छर्वचमूपतिः ॥२९॥
सहसा वारयामास घोरैः प्रतिशरैः शरान् ॥२९॥
ततो विष्णुस्स्वनामांकं बाणमव्याहतं क्वचित् ॥३०॥
ससर्ज क्रोधरक्ता क्षस्तमुद्दिश्य गणेश्वरम् ॥३०॥
तं बाणं बाणवर्येण भद्रो भद्राह्वयेण तु ॥३०॥
अप्राप्तमेव भगवाञ्चिच्छेद शतधा पथि ॥३१॥
अथैकेनेषुणा शार्ङ्गं द्वाभ्यां पक्षौ गरुत्मतः ॥३१॥
निमेषादेव चिच्छेद तदद्भुतमिवाभवत् ॥३२॥
ततो योगबलाद्विष्णुर्देहाद्देवान्सुदारुणान् ॥३२॥
शंखचक्रगदाहस्तान् विससर्ज सहस्रशः ॥३३॥
सर्वांस्तान्क्षणमात्रेण त्रैपुरानिव शंकरः ॥३३॥
निर्ददाह महाबाहुर्नेत्रसृष्टेन वह्निना ॥३४॥
ततः क्रुद्धतरो विष्णुश्चक्रमुद्यम्य सत्वरः ॥३४॥
तस्मिन्वीरो समुत्स्रष्टुं तदानीमुद्यतो ऽभवत् ॥३५॥
तं दृष्ट्वा चक्रमुद्यम्य पुरतः समुपस्थितम् ॥३५॥
स्मयन्निव गणेशानो व्यष्टंभयदयत्नतः ॥३६॥
स्तंभितांगस्तु तच्चक्रं घोरमप्रतिमं क्वचित् ॥३६॥
इच्छन्नपि समुत्स्रष्टुं न विष्णुरभवत्क्षमः ॥३७॥
श्वसन्निवैकमुद्धृत्य बाहुं चक्रसमन्वितम् ॥३७॥
अतिष्ठदलसो भूत्वा पाषाण इव निश्चलः ॥३८॥
विशरीरो यथाजीवो विशृङ्गो वा यथा वृषः ॥३८॥
विदंष्ट्रश्च यथा सिंहस्तथा विष्णुरवस्थितः ॥३९॥
तं दृष्ट्वा दुर्दशापन्नं विष्णुमिंद्रादयः सुराः ॥३९॥
समुन्नद्धा गणेन्द्रेण मृगेंद्रेणेव गोवृषाः ॥३९॥
प्रगृहीतायुधा यौद्धुंक्रुद्धाः समुपतस्थिरे ॥४०॥
तान्दृष्ट्वा समरे भद्रःक्षुद्रानिव हरिर्मृगान् ॥४०॥
साक्षाद्रुद्रतनुर्वीरो वरवीरगणावृतः ॥४१॥
अट्टहासेन घोरेण व्यष्टं भयदनिंदितः ॥४१॥
तथा शतमखस्यापि सवज्रो दक्षिणः करः ॥४२॥
सिसृक्षोरेव उद्वज्रश्चित्रीकृत इवाभवत् ॥४२॥
अन्येषामपि सर्वेषां सरक्ता अपि बाहवः ॥४३॥
अलसानामिवारंभास्तादृशाः प्रतियांत्युत ॥४३॥
एवं भगवता तेन व्याहताशेषवैभवात् ॥४४॥
अमराः समरे तस्य पुरतः स्थातुमक्षमाः ॥४४॥
स्तब्धैरवयवैरेव दुद्रुवुर्भयविह्वलाः ॥४५॥
स्थितिं च चक्रिरे युद्धे वीरतेजोभयाकुलाः ॥४५॥
विद्रुतांस्त्रिदशान्वीरान्वीरभद्रो महाभुजः ॥४६॥
विव्याध निशितैर्बाणैर्मघो वर्षैरिवाचलान् ॥४६॥
बहवस्तस्य वीरस्य बाहवः परिघोपमाः ॥४७॥
शस्त्रैश्चकाशिरे दीप्तैः साग्निज्वाला इवोरगाः ॥४७॥
अस्त्रशस्त्राण्यनेकानिसवीरो विसृजन्बभौ ॥४८॥
विसृजन्सर्वभूतानि यथादौ विश्वसंभवः ॥४८॥
यथा रश्मिभिरादित्यः प्रच्छादयति मेदिनीम् ॥४९॥
तथा वीरः क्षणादेव शरैः प्राच्छादयद्दिशः ॥४९॥
खमंडले गणेन्द्रस्य शराः कनकभूषिताः ॥५०॥
उत्पतंतस्तडिद्रूपैरुपमानपदं ययुः ॥५०॥
महांतस्ते सुरगणान्मंडूकानिवडुंडुभाः ॥५१॥
प्राणैर्वियोजयामासुः पपुश्च रुधिरासवम् ॥५१॥
निकृत्तबाहवः केचित्केचिल्लूनवराननाः ॥५२॥
पार्श्वे विदारिताः केचिन्निपेतुरमरा भुवि ॥५२॥
विशिखोन्मथितैर्गात्रैर्बहुभिश्छिन्नसन्धिभिः ॥५३॥
विवृत्तनयनाः केचिन्निपेतुर्भूतले मृताः ॥५३॥
गां प्रवेष्टुमिवेच्छंतः खं गंतुमिव लिप्सवः ॥५३॥
अलब्धात्मनिरोधानां व्यलीयंतः परस्परम् ॥५४॥
भूमौ केचित्प्रविविशुः पर्वतानां गुहाः परे ॥५४॥
अपरे जग्मुराकाशं परे च विविशुर्जलम् ॥५५॥
तथा संछिन्नसर्वांगैस्स वीरस्त्रिदशैर्बभौ ॥५५॥
परिग्रस्तप्रजावर्गो भगवानिव भैरवः ॥५६॥
दग्धत्रिपुरसंव्यूहस्त्रिपुरारिर्यथाभवत् ॥५६॥
एवं देवबलं सर्वं दीनं बीभत्सदर्शनम् ॥५७॥
गणेश्वरसमुत्पन्नं कृपणं वपुराददे ॥५७॥
तदा त्रिदशवीराणामसृक्सलिलवाहिनी ॥५८॥
प्रावर्तत नदी घोरा प्राणिनां भयशंसिनी ॥५८॥
रुधिरेण परिक्लिन्ना यज्ञभूमिस्तदा बभौ ॥५९॥
रक्तार्द्रवसना श्यामा हतशुंभेव कैशिकी ॥५९॥
तस्मिन्महति संवृत्ते समरे भृशदारुणे ॥६०॥
भयेनेव परित्रस्ता प्रचचाल वसुन्धरा ॥६०॥
महोर्मिकलिलावर्तश्चुक्षुभे च महोदधिः ॥६१॥
पेतुश्चोल्का महोत्पाताः शाखाश्च मुमुचुर्द्रुमाः ॥६१॥
अप्रसन्ना दिशः सर्वाः पवनश्चाशिवो ववौ ॥६२॥
अहो विधिविपर्यासस्त्वश्वमेधोयमध्वरः ॥६२॥
यजमानस्स्वयं दक्षौ ब्रह्मपुत्रप्रजापतिः ॥६२॥
धर्मादयस्सदस्याश्च रक्षिता गरुडध्वजः ॥६३॥
भागांश्च प्रतिगृह्णंति साक्षादिंद्रादयः सुराः ॥६३॥
तथापि यजमानस्य यज्ञस्य च सहर्त्विजः ॥६४॥
सद्य एव शिरश्छेदस्साधु संपद्यते फलम् ॥६४॥
तस्मान्नावेदनिर्दिष्टं न चेश्वरबहिष्कृतम् ॥६५॥
नासत्परिगृहीतं च कर्म कुर्यात्कदाचन ॥६५॥
कृत्वापि सुमहत्पुण्यमिष्ट्वा यज्ञशतैरपि ॥६६॥
न तत्फलमवाप्नोति भक्तिहीनो महेश्वरे ॥६६॥
कृत्वापि सुमहत्पापं भक्त्या यजति यश्शिवम् ॥६७॥
मुच्यते पातकैः सर्वैर्नात्र कार्या विचारणा ॥६७॥
बहुनात्र किमुक्तेन वृथा दानं वृथा तपः ॥६८॥
वृथा यज्ञो वृथा होमः शिवनिन्दारतस्य तु ॥६८॥
ततः सनारायणकास्सरुद्राः सलोकपालास्समरे सुरौघाः ॥६९॥
गणेंद्रचापच्युतबाणविद्धाः प्रदुद्रुवुर्गाढरुजाभिभूताः ॥६९॥
चेलुः क्वचित्केचन शीर्णकेशाः सेदुः क्वचित्केचन दीर्घगात्राः ॥७०॥
पेतुः क्वचित्केचन भिन्नवक्त्रा नेशुः क्वचित्केचन देववीराः ॥७०॥
केचिच्च तत्र त्रिदशा विपन्ना विस्रस्तवस्त्राभरणास्त्रशस्त्राः ॥७१॥
निपेतुरुद्भासितदीनमुद्रा मदं च दर्पं च बलं च हित्वा ॥७१॥
सस्मुत्पथप्रस्थितमप्रधृष्यो विक्षिप्य दक्षाध्वरमक्षतास्त्रैः ॥७२॥
बभौ गणेशस्स गणेश्वराणां मध्ये स्थितः सिंह इवर्षभाणाम् ॥७२॥

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्खण्डे दक्षयज्ञविध्वंसवर्णनं नाम द्वाविंशो ऽध्यायः

N/A

References : N/A
Last Updated : October 13, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP