वायवीयसंहिता पूर्वभागः - अध्यायः १

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


व्यास उवाच
नमश्शिवाय सोमाय सगणाय ससूनवे ॥१॥
प्रधानपुरुषेशाय सर्गस्थित्यंतहेतवे ॥१॥
शक्तिरप्रतिमा यस्य ह्यैश्वर्यं चापि सर्वगम् ॥२॥
स्वामित्वं च विभुत्वं च स्वभावं संप्रचक्षते ॥२॥
तमजं विश्वकर्माणं शाश्वतं शिवमव्ययम् ॥३॥
महादेवं महात्मानं व्रजामि शरणं शिवम् ॥३॥
धर्मक्षेत्रे महातीर्थे गंगाकालिंदिसंगमे ॥४॥
प्रयागे नैमिषारण्ये ब्रह्मलोकस्य वर्त्मनि ॥४॥
मुनयश्शंसितात्मानः सत्यव्रतपरायणाः ॥५
महौजसो महाभागा महासत्रं वितेनिरे ॥५॥
तत्र सत्रं समाकर्ण्य तेषामक्लिष्टकर्मणाम् ॥६
साक्षात्सत्यवतीसूनोर्वेदव्यासस्य धीमतः ॥६
शिष्यो महात्मा मेधावी त्रिषु लोकेषु विश्रुतः ॥७॥
पञ्चावयवयुक्तस्य वाक्यस्य गुणदोषवित् ॥७
उत्तरोत्तरवक्ता च ब्रुवतो ऽपि बृहस्पतेः ॥८॥
मधुरः श्रवणानां च मनोज्ञपदपर्वणाम् ॥८॥
कथानां निपुणो वक्ता कालविन्नयवित्कविः ॥९॥
आजगाम स तं देशं सूतः पौराणिकोत्तमः ॥९॥
तं दृष्ट्वा सूतमायांतं मुनयो हृष्टमानसाः ॥१०॥
तस्मै साम च पूजां च यथावत्प्रत्यपादयन् ॥१०॥
प्रतिगृह्य सतां पूजां मुनिभिः प्रतिपादिताम् ॥११॥
उद्दिष्टमानसं भेजे नियुक्तो युक्तमात्मनः ॥११॥
ततस्तत्संगमादेव मुनीनां भावितात्मनाम् ॥१२॥
सोत्कंठमभवच्चितं श्रोतुं पौराणिकीं कथाम् ॥१२॥
तदा तमनुकूलाभिर्वाग्भिः पूज्य १ महर्षयः ॥१३॥
अतीवाभिमुखं कृत्वा वचनं चेदमब्रुवन् ॥१३
ऋषय ऊचुः
रोमहर्षण सर्वज्ञ भवान्नो भाग्यगौरवात् ॥१४॥
संप्राप्तोद्य महाभाग शैवराज महामते ॥१४॥
पुराणविद्यामखिलां व्यासात्प्रत्यक्षमीयिवान् ॥१५॥
तस्मादाश्चर्यभूतानां कथानां त्वं हि भाजनम् ॥१५॥
रत्नानामुरुसाराणां रत्नाकर इवार्णवः ॥१६॥
यच्च भूतं यच्च भव्यं यच्चान्यद्वस्तु वर्तते ॥१६॥
न तवाविदितं किञ्चित्त्रिषु लोकेषु विद्यते ॥१७॥
त्वमदृष्टवशादस्मद्दर्शनार्थमिहागतः ॥१७॥
अकुर्वन्किमपि श्रेयो न वृथा गन्तुमर्हसि ॥१७॥
तस्माच्छ्राव्यतरं पुण्यं सत्कथाज्ञानसंहितम् ॥१८॥
वेदांतसारसर्वस्वं पुराणं श्रावयाशु नः ॥१८॥
एवमभ्यर्थितस्सूतो मुनिभिर्वेदवादिभिः ॥१९॥
श्लक्ष्णां च न्यायसंयुक्तां प्रत्युवाच शुभां गिरम् ॥१९॥
सूत उवाच
पूजितो ऽनुगृहीतश्च भवद्भिरिति चोदितः ॥२०॥
कस्मात्सम्यङ्न विब्रूयां पुराणमृषिपूजितम् ॥२०॥
अभिवंद्य महादेवं देवीं स्कंदं विनायकम् ॥२१॥
नंदिनं च तथा व्यासं साक्षात्सत्यवतीसुतम् ॥२१॥
वक्ष्यामि परमं पुण्यं पुराणं वेदसंमितम् ॥२२॥
शिवज्ञानार्णवं साक्षाद्भक्तिमुक्तिफलप्रदम् ॥२२॥
शब्दार्थन्यायसंयुक्तै रागमार्थैर्विभूषितम् ॥२३॥
श्वेतकल्पप्रसंगेन वायुना कथितं पुरा ॥२३॥
विद्यास्थानानि सर्वाणि पुराणानुक्रमं तथा ॥२४॥
तत्पुराणस्य चोत्पत्तिं ब्रुवतो मे निबोधत ॥२४
अंगानि वेदाश्चत्वारो मीमांसान्यायविस्तरः ॥२५॥
पुराणं धर्मशास्त्रं च विद्याश्चेताश्चतुर्दश ॥२५॥
आयुर्वेदो धनुर्वेदो गांधर्वश्चेत्यनुक्रमात् ॥२६
अर्थशास्त्रं परं तस्माद्विद्या ह्यष्टादश स्मृताः ॥२६॥
अष्टादशानां विद्यानामेतासां भिन्नवर्त्मनाम् ॥२७॥
आदिकर्ता कविस्साक्षाच्छूलपाणिरिति श्रुतिः ॥२७॥
स हि सर्वजगन्नाथः सिसृक्षुरखिलं जगत् ॥२८॥
ब्रह्माणं विदधे साक्षात्पुत्रमग्रे सनातनम् ॥२८॥
तस्मै प्रथमपुत्राय ब्रह्मणे विश्वयोनये ॥२९॥
विद्याश्चेमा ददौ पूर्वं विश्वसृष्ट्यर्थमीश्वरः ॥२९॥
पालनाय हरिं देवं रक्षाशक्तिं ददौ ततः ॥३०॥
मध्यमं तनयं विष्णुं पातारं ब्रह्मणो ऽपि हि ॥३०॥
लब्धविद्येन विधिना प्रजासृष्टिं वितन्वता ॥३१॥
प्रथमं सर्वशास्त्राणां पुराणं ब्रह्मणा स्मृतम् ॥३१॥
अनंतरं तु वक्त्रेभ्यो वेदास्तस्य विनिर्गताः ॥३२॥
प्रवृत्तिस्सर्वशास्त्राणां तन्मुखादभवत्ततः ॥३२॥
यदास्य विस्तरं शक्ता नाधिगंतुं प्रजा भुवि ॥३३॥
तदा विद्यासमासार्थं विश्वेश्वरनियोगतः ॥३३॥
द्वापरांतेषु विश्वात्मा विष्णुर्विश्वंभरः प्रभुः ॥३४॥
व्यासनाम्ना चरत्यस्मिन्नवतीर्य महीतले ॥३४॥
एवं व्यस्ताश्च वेदाश्च द्वापरेद्वापरे द्विजाः ॥३५॥
निर्मितानि पुराणानि अन्यानि च ततः परम् ॥३५॥
स पुनर्द्वापरे चास्मिन्कृष्णद्वैपायनाख्यया ॥३६॥
अरण्यामिव हव्याशी सत्यवत्यामजायत ॥३६॥
संक्षिप्य स पुनर्वेदांश्चतुर्धा कृतवान्मुनिः ॥३७॥
व्यस्तवेदतया लोके वेदव्यास इति श्रुतः ॥३७॥
पुराणानाञ्च संक्षिप्तं चतुर्लक्षप्रमाणतः ॥३८॥
अद्यापि देवलोके तच्छतकोटिप्रविस्तरम् ॥३८॥
यो विद्याच्चतुरो वेदान् सांगोपणिषदान्द्विजः ॥३९॥
न चेत्पुराणं संविद्यान्नैव स स्याद्विचक्षणः ॥३९॥
इतिहासपुराणाभ्यां वेदं समुपबृंहयेत् ॥४०॥
बिभेत्यल्पश्रुताद्वेदो मामयं प्रतरिष्यति ॥४०॥
सर्गश्च प्रतिसर्गश्च वंशो मन्वंतराणि च ॥४१॥
वंशानुचरितं चैव पुराणं पञ्चलक्षणम् ॥४१॥
दशधा चाष्टधा चैतत्पुराणमुपदिश्यते ॥४२॥
बृहत्सूक्ष्मप्रभेदेन मुनिभिस्तत्त्ववित्तमैः ॥४२॥
ब्राह्मं पाद्मं वैष्णवं च शैवं भागवतं तथा ॥४३॥
भविष्यं नारदीयं च मार्कंडेयमतः परम् ॥४३॥
आग्नेयं ब्रह्मवैवर्तं लैंगं वाराहमेव च ॥४४॥
स्कान्दं च वामनं चैव कौर्म्यं मात्स्यं च गारुडम् ॥४४॥
ब्रह्मांडं चेति पुण्यो ऽयं पुराणानामनुक्रमः ॥४५॥
तत्र शैवं तुरीयं यच्छार्वं सर्वार्थसाधकम् ॥४५॥
ग्रंथो लक्षप्रमाणं तद्व्यस्तं द्वादशसंहितम् ॥४६॥
निर्मितं तच्छिवेनैव तत्र धर्मः प्रतिष्ठितः ॥४६॥
तदुक्तेनैव धर्मेण शैवास्त्रैवर्णिका नराः ॥४७॥
तस्माद्विमुकुतिमन्विच्छञ्च्छिवमेव समाश्रयेत् ॥४७॥
तमाश्रित्यैव देवानामपि मुक्तिर्न चान्यथा ॥४८॥
यदिदं शैवमाख्यातं पुराणं वेदसंमितम् ॥४९॥
तस्य भेदान्समासेन ब्रुवतो मे निबोधत ॥४९॥
विद्येश्वरं तथा रौद्रं वैनायकमनुत्तमम् ॥५०॥
औमं मातृपुराणं च रुद्रैकादशकं तथा ॥५०॥
कैलासं शतरुद्रं च शतरुद्राख्यमेव च ॥५१॥
सहस्रकोटिरुद्राख्यं वायवीयं ततःपरम् ॥५१॥
धर्मसंज्ञं पुराणं चेत्येवं द्वादश संहिताः ॥५२॥
विद्येशं दशसाहस्रमुदितं ग्रंथसंख्यया ॥५२॥
रौद्रं वैनायकं चौमं मातृकाख्यं ततः परम् ॥५३॥
प्रत्येकमष्टसाहस्रं त्रयोदशसहस्रकम् ॥५३॥
रौद्रकादशकाख्यं यत्कैलासं षट्सहस्रकम् ॥५४॥
शतरुद्रं त्रिसाहस्रं कोटिरुद्रं ततः परम् ॥५४॥
सहस्रैर्नवभिर्युक्तं सर्वार्थज्ञानसंयुतम् ॥५५॥
सहस्रकोटिरुद्राख्यमेकादशसहस्रकम् ॥५५॥
चतुस्सहस्रसंख्येयं वायवीयमनुत्तमम् ॥५६॥
धर्मसंज्ञं पुराणं यत्तद्द्वादशसहस्रकम् ॥५६॥
तदेवं लक्षमुद्दिष्टं शैवं शाखाविभेदतः ॥५७॥
पुराणं वेदसारं तद्भुक्तिमुक्तिफलप्रदम् ॥५७॥
व्यासेन तत्तु संक्षिप्तं चतुर्विंशत्सहस्रकम् ॥५८॥
शैवन्तत्र पुराणं वै चतुर्थं सप्तसंहितम् ॥५८॥
विद्येश्वराख्या तत्राद्या द्वितीया रुद्रसंहिता ॥५९॥
तृतीया शतरुद्राख्या कोटिरुद्रा चतुर्थिका ॥५९॥
पञ्चमी कथिता चोमा षष्ठी कैलाससंहिता ॥६०॥
सप्तमी वायवीयाख्या सप्तैवं संहिता इह ॥६०॥
विद्येश्वरं द्विसाहस्रं रौद्रं पञ्चशतायुतम् ॥६१॥
त्रिंशत्तथा द्विसाहस्रं सार्धैकशतमीरितम् ॥६१॥
शतरुद्रन्तथा कोटिरुद्रं व्योमयुगाधिकम् ॥६२॥
द्विसाहस्रं च द्विशतं तथोमं भूसहस्रकम् ॥६२॥
चत्वारिंशत्साष्टशतं कैलासं भूसहस्रकम् ॥६३॥
चत्वारिंशच्च द्विशतं वायवीयमतः परम् ॥६३॥
चतुस्साहस्रसंख्याकमेवं संख्याविभेदतः ॥६४॥
श्रुतम्परमपुण्यन्तु पुराणं शिवसंज्ञकम् ॥६४॥
चतुःसाहस्रकं यत्तु वायवीयमुदीरितम् ॥६५॥
तदिदं वर्तयिष्यामि भागद्वयसमन्वितम् ॥६५॥
नावेदविदुषे वाच्यमिदं शास्त्रमनुत्तमम् ॥६६॥
न चैवाश्रद्धधानाय नापुराणविदे तथा ॥६६॥
परीक्षिताय शिष्याय धार्मिकायानसूयवे ॥६७॥
प्रदेयं शिवभक्ताय शिवधर्मानुसारिणे ॥६७॥
पुराणसंहिता यस्य प्रसादान्मयि वर्तते ॥६८॥
नमो भगवते तस्मै व्यासायामिततेजसे ॥६८॥


इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे विद्यावतारकथनं नाम प्रथमो ऽध्यायः

N/A

References : N/A
Last Updated : October 13, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP