वायवीयसंहिता पूर्वभागः - अध्यायः ३४

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


ऋषय ऊचुः
धौम्याग्रजेन शिशुना क्षीरार्थं हि तपः कृतम् ॥१॥
तस्मात्क्षीरार्णवो दत्तस्तस्मै देवेन शूलिना ॥१॥
स कथं शिशुको लेभे शिवशास्त्रप्रवक्तृताम् ॥२॥
कथं वा शिवसद्भावं ज्ञात्वा तपसि निष्ठितः ॥२॥
कथं च लब्धविज्ञानस्तपश्चरणपर्वणि ॥३॥
रुद्राग्नेर्यत्परं वीर्यं लभे भस्म स्वरक्षकम् ॥३॥
वायुरुवाच॥
न ह्येष शिशुकः कश्चित्प्राकृतः कृतवांस्तपः ॥४॥
मुनिवर्यस्य तनयो व्याघ्रपादस्य धीमतः ॥४॥
जन्मान्तरेण संसिद्धः केनापि खलु हेतुना ॥५॥
स्वपदप्रच्युतो दिष्ट्या प्राप्तो मुनिकुमारताम् ॥५॥
महादेवप्रसादस्य भाग्यापन्नस्य भाविनः ॥६॥
दुग्धाभिलाषप्रभवद्वारतामगमत्तपः ॥६॥
अतः सर्वगणेशत्वं कुमारत्वं च शाश्वतम् ॥७॥
सह दुग्धाब्धिना तस्मै प्रददौ शंकरः स्वयम् ॥७॥
तस्य ज्ञानागमोप्यस्य प्रसादादेव शांकरात् ॥८॥
कौमारं हि परं साक्षाज्ज्ञानं शक्तिमयं विदुः ॥८॥
शिवशास्त्रप्रवक्तृत्वमपि तस्य हि तत्कृतम् ॥९॥
कुमारो मुनितो लब्धज्ञानाब्धिरिव नन्दनः ॥९॥
दृष्टं तु कारणं तस्य शिवज्ञानसमन्वये ॥१०॥
स्वमातृवचनं साक्षाच्छोकजं क्षीरकारणात् ॥१०॥
कदाचित्क्षीरमत्यल्पं पीतवान्मातुलाश्रमे ॥११॥
ईर्षयया मातुलसुतं संतृप्तक्षीरमुत्तमम् ॥११॥
पीत्वा स्थितं यथाकामं दृष्ट्वा वै मातुलात्मजम् ॥१२॥
उपमन्युर्व्याघ्रपादिः प्रीत्या प्रोवाच मातरम् ॥१२॥
उपमन्युरुवाच
मातर्मातर्महाभागे मम देहि तपस्विनि ॥१३॥
गव्यं क्षीरमतिस्वादु नाल्पमुष्णं पिबाम्यहम् ॥१३॥
वायुरुवाच
तच्छ्रुत्वा पुत्रवचनं तन्माता च तपस्विनी ॥१४॥
व्याघ्रपादस्य महिषी दुःखमापत्तदा च सा ॥१४॥
उपलाल्याथ सुप्रीत्या पुत्रमालिंग्य सादरम् ॥१५॥
दुःखिता विललापाथ स्मृत्वा नैर्धन्यमात्मनः ॥१५॥
स्मृत्वास्मृत्वा पुनः क्षीरमुपमन्युस्स बालकः ॥१६॥
देहि देहीति तामाह रुद्रन्भूयो महाद्युतिः ॥१६॥
तद्धठं सा परिज्ञाय द्विजपत्नी तपस्विनी ॥१७॥
शान्तये तद्धठस्याथ शुभोपायमरीरचत् ॥१७॥
उञ्छवृत्त्यार्जितान्बीजान्स्वयं दृष्ट्वा च सा तदा ॥१८॥
बीजपिष्टमथालोड्य तोयेन कलभाषिणी ॥१८॥
एह्येहि मम पुत्रेति सामपूर्वं ततस्सुतम् ॥१९॥
आलिंग्यादाय दुःखार्ता प्रददौ कृत्रिमं पयः ॥१९॥
पीत्वा च कृत्रिमं क्षीरं मात्रां दत्तं स बालकः ॥२०॥
नैतत्क्षीरमिति प्राह मातरं चातिविह्वलः ॥२०॥
दुःखिता सा तदा प्राह संप्रेक्ष्याघ्राय मूर्धनि ॥२१॥
समार्ज्य नेत्र पुत्रस्य कराभ्यां कमलायते ॥२१॥
जनन्युवाच
तटिनी रत्नपूर्णास्तास्स्वर्गपातालगोचराः ॥२२॥
भाग्यहीना न पश्यन्ति भक्तिहीनाश्च ये शिवे ॥२२॥
राज्यं स्वर्गं च मोक्षं च भोजनं क्षीरसंभवम् ॥२३॥
न लभन्ते प्रियाण्येषां न तुष्यति यदा शिवः ॥२३॥
भवप्रसादजं सर्वं नान्यद्देवप्रसादजम् ॥२४॥
अन्यदेवेषु निरता दुःखार्ता विभ्रमन्ति च ॥२४॥
क्षीरं तत्र कुतो ऽस्माकं वने निवसतां सदा ॥२५॥
क्व दुग्धसाधनं वत्स क्व वयं वनवासिनः ॥२५॥
कृत्स्नाभावेन दारिद्र्यान्मया ते भाग्यहीनया ॥२६॥
मिथ्यादुग्धमिदं दत्तम्पिष्टमालोड्य वारिणा ॥२६
त्वं मातुलगृहे स्वल्पं पीत्वा स्वादु पयः शृतम् ॥२७॥
ज्ञात्वा स्वादु त्वया पीतं तज्जातीयमनुस्मरन् ॥२७॥
दत्तं न पय इत्युक्त्वा रुदन् दुःखीकरोषि माम् ॥२८॥
प्रसादेन विना शंभो पयस्तव न विद्यते ॥२८॥
पादपंकजयोस्तस्य साम्बस्य सगणस्य च ॥२९॥
भक्त्या समर्पितं यत्तत्कारणं सर्वसम्पदाम् ॥२९॥
अधुना वसुदोस्माभिर्महादेवो न पूजितः ॥३०॥
सकामानां यथाकामं यथोक्तफलदायकः ॥३०॥
धनान्युद्दिश्य नास्माभिरितः प्रागर्चितः शिवः ॥३१॥
अतो दरिद्रास्संजाता वयं तस्मान्न ते पयः ॥३१॥
पूर्वजन्मनि यद्दत्तं शिवमुद्दिश्य वै सुतः ॥३२॥
तदेव लभ्यते नान्यद्विष्णुमुद्दिश्य वा प्रभुम् ॥३२॥
वायुरुवाच
इति मातृवचः श्रुत्वा तथ्यं शोकादिसूचकम् ॥३३॥
बालो ऽप्यनुतपन्नंतः प्रगल्भमिदमब्रवीत् ॥३३॥
उपमन्युरुवाच
शोकेनालमितो मातः सांबो यद्यस्ति शंकरः ॥३४॥
त्यज शोकं महाभागे सर्वं भद्रं भविष्यति ॥३४॥
शृणु मातर्वचो मेद्य महादेवो ऽस्ति चेत्क्वचित् ॥३५॥
चिराद्वा ह्यचिराद्वापि क्षीरोदं साधयाम्यहम् ॥३५॥
वायुरुवाच
इति श्रुत्वा वचस्तस्य बालकस्य महामतेः ॥३६॥
प्रत्युवाच तदा माता सुप्रसन्ना मनस्विनी ॥३६॥
मातोवाच
शुभं विचारितं तात त्वया मत्प्रीतिवर्धनम् ॥३७॥
विलंबं मा कथास्त्वं हि भज सांबं सदाशिवम् ॥३७॥
सर्वस्मादधिको ऽस्त्येव शिवः परमकारणम् ॥३८॥
तत्कृतं हि जगत्सर्वं ब्रह्माद्यास्तस्य किंकराः ॥३८॥
तत्प्रसादकृतैश्वर्या दासास्तस्य वयं प्रभोः ॥३९॥
तं विनान्यं न जानीमश्शंकरं लोकशंकरम् ॥३९॥
अन्यान्देवान्परित्यज्य कर्मणा मनसा गिरा ॥४०॥
तमेव सांबं सगणं भज भावपुरस्सरम् ॥४०॥
तस्य देवाधिदेवस्य शिवस्य वरदायिनः ॥४१॥
साक्षान्नमश्शिवायेति मंत्रो ऽयं वाचकः स्मृतः ॥४१॥
सप्तकोटिमहामंत्राः सर्वे सप्रणवाः परे ॥४२॥
तस्मिन्नेव विलीयंते पुनस्तस्माद्विनिर्गताः ॥४२॥
सप्रसादाश्च ते मंत्राः स्वाधिकाराद्यपेक्षया ॥४३॥
सर्वाधिकारस्त्वेको ऽयं मंत्र एवेश्वराज्ञया ॥४३॥
यथा निकृष्टानुत्कृष्टान्सर्वानप्यात्मनः शिवः ॥४४॥
क्षमते रक्षितुं तद्वन्मंत्रो ऽयमपि सर्वदा ॥४४॥
प्रबलश्च तथा ह्येष मंत्रो मन्त्रान्तरादपि ॥४५॥
सर्वरक्षाक्षमो ऽप्येष नापरः कश्चिदिष्यते ॥४५॥
तस्मान्मन्त्रान्तरांस्त्यक्त्वा पञ्चाक्षरपरो भव ॥४६॥
तस्मिञ्जिह्वांतरगते न किंचिदिह दुर्लभम् ॥४६॥
अघोरास्त्रं च शैवानां रक्षाहेतुरनुत्तमम् ॥४७॥
तच्च तत्प्रभवं मत्वा तत्परो भव नान्यथा ॥४७॥
भस्मेदन्तु मया लब्धं पितुरेव तवोत्तमम् ॥४८॥
विरजानलसंसिद्धं महाव्यापन्निवारणम् ॥४८॥
मंत्रं च ते मया दत्तं गृहाण मदनुज्ञया ॥४९॥
अनेनैवाशु जप्तेन रक्षा तव भविष्यति ॥४९॥
वायुरुवाच
एवं मात्रा समादिश्य शिवमस्त्वित्युदीर्य च ॥५०॥
विसृष्टस्तद्वचो मूर्ध्नि कुर्वन्नेव तदा मुनिः ॥५०॥
तां प्रणम्यैवमुक्त्वा च तपः कर्तुं प्रचक्रमे ॥५१॥
तमाह च तदा माता शुभं कुर्वंतु ते सुराः ॥५१॥
अनुज्ञातस्तया तत्र तपस्तेपे स दुश्चरम् ॥५२॥
हिमवत्पर्वतं प्राप्य वायुभक्षः समाहितः ॥५२॥
अष्टेष्टकाभिः प्रसादं कृत्वा लिंगं च मृन्मयम् ॥५३॥
तत्रावाह्य महादेवं सांबं सगणमव्ययम् ॥५३॥
भक्त्या पञ्चाक्षरेणैव पुत्रैः पुष्पैर्वनोद्भवैः ॥५४॥
समभ्यर्च्य चिरं कालं चचार परमं तपः ॥५४॥
ततस्तपश्चरत्तं तं बालमेकाकिनं कृशम् ॥५५॥
उपमन्युं द्विजवरं शिवसंसक्तमानसम् ॥५५॥
पुरा मरीचिना शप्ताः केचिन्मुनिपिशाचकाः ॥५६॥
संपीड्य राक्षसैर्भावैस्तपसोविघ्नमाचरन् ॥५६॥
स च तैः पीड्यमानो ऽपि तपः कुर्वन्कथञ्चन ॥५७॥
सदा नमः शिवायेति क्रोशति स्मार्तनादवत् ॥५७॥
तन्नादश्रवणादेव तपसो विघ्नकारिणः ॥५८॥॥
ते तं बालं समुत्सृज्य मुनयस्समुपाचरन् ॥५८॥॥
तपसा तस्य विप्रस्य चोपमन्योर्महात्मनः ॥५९॥
चराचरं च मुनयः प्रदीपितमभूज्जगत्  ॥५९॥

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे उपमन्युतपोवर्णनं नाम चतुस्त्रिंशो ऽध्यायः

N/A

References : N/A
Last Updated : October 13, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP