संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|वायवीय संहिता|पूर्व भागः| अध्यायः १२ पूर्व भागः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ विषयानुक्रमणिका वायवीयसंहिता पूर्वभागः - अध्यायः १२ शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे. Tags : puransanskritshiv puranपुराणशिव पुराणसंस्कृत अध्यायः १२ Translation - भाषांतर वायुरुवाचसर्गं चिंतयतस्तस्य तदा वै बुद्धिपूर्वकम् ॥प्रध्यानकाले मोहस्तु प्रादुर्भूतस्तमोमयः ॥१॥तमोमोहो महामोहस्तामिस्रश्चान्धसंज्ञितः ॥अविद्या पञ्चमी चैषा प्रादुर्भूता महात्मनः ॥२॥पञ्चधा ऽवस्थितः सर्गो ध्यायतस्त्वभिमानिनः ॥सर्वतस्तमसातीव बीजकुम्भवदावृतः ॥३॥बहिरन्तश्चाप्रकाशः स्तब्धो निःसंज्ञ एव च ॥तस्मात्तेषां वृता बुद्धिर्मुखानि करणानि च ॥४॥तस्मात्ते संवृतात्मानो नगा मुख्याः प्रकीर्तिताः ॥तं दृष्ट्वाऽसाधकं ब्रह्मा प्रथमं सर्गमीदृशम् ॥५॥अप्रसन्नमना भूत्वा द्वितीयं सो ऽभ्यमन्यत ॥तस्याभिधायतः सर्गं तिर्यक्स्रोतो ऽभ्यवर्तत ॥६॥अन्तःप्रकाशास्तिर्यंच आवृताश्च बहिः पुनः ॥पश्वात्मानस्ततो जाता उत्पथग्राहिणश्च ते ॥७॥तमप्यसाधकं ज्ञात्वा सर्गमन्यममन्यत ॥तदोर्ध्वस्रोतसो वृत्तो देवसर्गस्तु सात्त्विकः ॥८॥ते सुखप्रीतिबहुला बहिरन्तश्च नावृताः ॥प्रकाशा बहिरन्तश्चस्वभावादेव संज्ञिताः ॥९॥ततो ऽभिध्यायतोव्यक्तादर्वाक्स्रोतस्तु साधकः ॥मनुष्यनामा सञ्जातः सर्गो दुःखसमुत्कटः ॥१०॥प्रकाशाबहिरन्तस्ते तमोद्रिक्ता रजो ऽधिकाः ॥पञ्चमोनुग्रहः सर्गश्चतुर्धा संव्यवस्थितः ॥११॥विपर्ययेण शक्त्या च तुष्ट्यासिद्ध्या तथैव च ॥ते ऽपरिग्राहिणः सर्वे संविभागरताः पुनः ॥१२॥खादनाश्चाप्यशीलाश्च भूताद्याः परिकीर्तिताः ॥प्रथमो महतः सर्गो ब्रह्मणः परमेष्ठिनः ॥१३॥तन्मात्राणां द्वितीयस्तु भूतसर्गः स उच्यते ॥वैकारिकस्तृतीयस्तु सर्ग ऐन्द्रियकः स्मृतः ॥१४॥इत्येष प्रकृतेः सर्गः सम्भृतो ऽबुद्धिपूर्वकः ॥१५॥मुख्यसर्गश्चतुर्थस्तु मुख्या वै स्थावराः स्मृताः ॥तिर्यक्स्रोतस्तु यः प्रोक्तस्तिर्यग्योनिः स पञ्चमः ॥तदूर्ध्वस्रोतसः षष्ठो देवसर्गस्तु स स्मृतः ॥१६॥ततो ऽर्वाक्स्रोतसां सर्गः सप्तमः स तु मानुषः ॥अष्टमो ऽनुग्रहः सर्गः कौमारो नवमः स्मृतः ॥१७॥प्राकृताश्च त्रयः पूर्वे सर्गास्ते ऽबुद्धिपूर्वकाः ॥बुद्धिपूर्वं प्रवर्तन्ते मुख्याद्याः पञ्च वैकृताः ॥१८॥अग्रे ससर्ज वै ब्रह्मा मानसानात्मनः समान् ॥सनन्दं सनकञ्चैव विद्वांसञ्च सनातनम् ॥१९॥ऋभुं सनत्कुमारञ्च पूर्वमेव प्रजापतिः ॥सर्वे ते योगिनो ज्ञेया वीतरागा विमत्सराः ॥२०॥ईश्वरासक्तमनसो न चक्रुः सृष्टये मतिम् ॥तेषु सृष्ट्यनपेक्षेषु गतेषु सनकादिषु ॥२१॥स्रष्टुकामः पुनर्ब्रह्मा तताप परमं तपः ॥तस्यैवं तप्यमानस्य न किंचित्समवर्तत ॥२२॥ततो दीर्घेण कालेन दुःखात्क्रोधो व्यजायत ॥क्रोधाविष्टस्य नेत्राभ्यां प्रापतन्नश्रुबिन्दवः ॥२३॥ततस्तेभ्यो ऽश्रुबिन्दुभ्यो भूताः प्रेतास्तदाभवन् ॥सर्वांस्तानश्रुजान्दृष्ट्वा ब्रह्मात्मानमनिंदत ॥२४॥तस्य तीव्रा ऽभवन्मूर्छा क्रोधामर्षसमुद्भवा ॥मूर्छितस्तु जहौ प्राणान्क्रोधाविष्टः प्रजापतिः ॥२५॥ततः प्राणेश्वरो रुद्रो भगवान्नीललोहितः ॥प्रसादमतुलं कर्तुं प्रादुरासीत्प्रभोर्मुखात् ॥२६॥दशधा चैकधा चक्रे स्वात्मानं प्रभुरीश्वरः ॥ते तेनोक्ता महात्मानो दशधा चैकधा कृताः ॥२७॥यूयं सृष्टा मया वत्सा लोकानुग्रहकारणात् ॥तस्मात्सर्वस्य लोकस्य स्थापनाय हिताय च ॥२८॥प्रजासन्तानहेतोश्च प्रयतध्वमतन्द्रिताः ॥एवमुक्ताश्च रुरुदुर्दुद्रुवुश्च समन्ततः ॥२९॥रोदनाद्द्रावणाच्चैव ते रुद्रा नामतः स्मृताः ॥ये रुद्रास्ते खलु प्राणा ये प्राणास्ते महात्मकाः ॥३०॥ततो मृतस्य देवस्य ब्रह्मणः परमेष्ठिनः ॥घृणी ददौ पुनः प्राणान्ब्रह्मपुत्रो महेश्वरः ॥३१॥प्रहृष्टवदनो रुद्रः प्राणप्रत्यागमाद्विभोः ॥अभ्यभाषत विश्वेशो ब्रह्माणं परमं वचः ॥३२॥माभैर्माभैर्महाभाग विरिंच जगतां गुरो ॥मया ते प्राणिताः प्राणाः सुखमुत्तिष्ठ सुव्रत ॥३३॥स्वप्नानुभूतमिव तच्छ्रुत्वा वाक्यं मनोहरम् ॥हरं निरीक्ष्य शनकैर्नेत्रैः फुल्लाम्बुजप्रभैः ॥३४॥तथा प्रत्यागतप्राणः स्निग्धगम्भीरया गिरा ॥उवाच वचनं ब्रह्मा तमुद्दिश्य कृताञ्जलिः ॥३५॥त्वं हि दर्शनमात्रेण चानन्दयसि मे मनः ॥को भवान् विश्वमूर्त्या वा स्थित एकादशात्मकः ॥३६॥तस्य तद्वचनं श्रुत्वा व्याजहार महेश्वरः ॥स्पृशन् काराभ्यां ब्रह्माणं सुसुखाभ्यां सुरेश्वरः ॥३७॥मां विद्धि परमात्मानं तव पुत्रत्वमागतम् ॥एते चैकादश रुद्रास्त्वां सुरक्षितुमागताः ॥३८॥तस्मात्तीव्रामिमाम्मूर्छां विधूय मदनुग्रहात् ॥प्रबुद्धस्व यथापूर्वं प्रजा वै स्रष्टुमर्हसि ॥३९॥एवं भगवता प्रोक्तो ब्रह्मा प्रीतमना ह्यभूत् ॥नानाष्टकेन विश्वात्मा तुष्टाव परमेश्वरम् ॥४०॥ब्रह्मोवाचनमस्ते भगवन् रुद्र भास्करामिततेजसे ॥नमो भवाय देवाय रसायाम्बुमयात्मने ॥४१॥शर्वाय क्षितिरूपाय नन्दीसुरभये नमः ॥ईशाय वसवे तुभ्यं नमस्स्पर्शमयात्मने ॥४१॥पशूनां पतये चैव पावकायातितेजसे ॥भीमाय व्योमरूपाय शब्दमात्राय ते नमः ॥४२॥उग्रायोग्रस्वरूपाय यजमानात्मने नमः ॥महादेवाय सोमाय नमोस्त्वमृतमूर्तये ॥४३॥एवं स्तुत्वा महादेवं ब्रह्मा लोकपितामहः ॥प्रार्थयामास विश्वेशं गिरा प्रणतिपूर्वया ॥४४॥भगवन् भूतभव्येश मम पुत्र महेश्वर ॥सृष्टिहेतोस्त्वमुत्पन्नो ममांगे ऽनंगनाशनः ॥४५॥तस्मान्महति कार्येस्मिन् व्यापृतस्य जगत्प्रभो ॥सहायं कुरु सर्वत्र स्रष्टुमर्हसि स प्रजाः ॥४६॥तेनैषां पावितो देवो रुद्रस्त्रिपुरमर्दनः ॥बाढमित्येव तां वाणीं प्रतिजग्राह शंकरः ॥४७॥ततस्स भगवान् ब्रह्मा हृष्टं तमभिनंद्य च ॥स्रष्टुं तेनाभ्यनुज्ञातस्तथान्याश्चासृजत्प्रजाः ॥४८॥मरीचिभृग्वंगिरसः पुलस्त्यं पुलहं क्रतुम् ॥दक्षमत्रिं वसिष्ठं च सो ऽसृजन्मनसैव च ॥४९॥पुरस्तादसृजद्ब्रह्मा धर्मं संकल्पमेव च ॥४९॥इत्येते ब्रह्मणः पुत्रा द्वादशादौ प्रकीर्तिताः ॥सह रुद्रेण संभूताः पुराणा गृहमेधिनः ॥५०॥तेषां द्वादश वंशाः स्युर्दिव्या देवगणान्विताः ॥प्रजावन्तः क्रियावन्तो महर्षिभिरलंकृताः ॥५१॥अथ देवासुरपित्ःन्मनुष्यांश्च चतुष्टयम् ॥सह रुद्रेण सिसृक्षुरंभस्येतानि वै विधिः ॥५२॥स सृष्ट्यर्थं समाधाय ब्रह्मात्मानमयूयुजत् ॥मुखादजनयद्देवान् पित्ःंश्चैवोपपक्षतः ॥५३॥जघनादसुरान् सर्वान् प्रजनादपि मानुषान् ॥अवस्करे क्षुधाविष्टा राक्षसास्तस्य जज्ञिरे ॥५४॥पुत्रास्तमोरजःप्राया बलिनस्ते निशाचराः ॥सर्पा यक्षास्तथा भूता गंधर्वाः संप्रजज्ञिरे ॥५५॥वयांसि पक्षतः सृष्टाः पक्षिणो वक्षसो ऽसृजत् ॥मुखतोजांस्तथा पार्श्वादुरगांश्च विनिर्ममे ॥५६॥पद्भ्यां चाश्वान्समातंगान् शरभान् गवयान्मृगान् ॥उष्ट्रानश्वतरांश्चैव न्यंकूनन्याश्च जातयः १॥५७॥औषध्यः फलमूलानि रोमभ्यस्तस्य जज्ञिरे ॥गायत्रीं च ऋचं चैव त्रिवृत्साम रथंतरम् ॥५८॥अग्निष्टोमं च यज्ञानां निर्ममे प्रथमान्मुखात् ॥यजूंषि त्रैष्टुभं छंदःस्तोमं पञ्चदशं तथा ॥५९॥बृहत्साम तथोक्थं च दक्षिणादसृजन्मुखात् ॥सामानि जगतीछंदः स्तोमं सप्तदशं तथा ॥६०॥वैरूप्यमतिरात्रं च पश्चिमादसृजन्मुखात् ॥एकविंशमथर्वाणमाप्तोर्यामाणमेव च ॥६१॥अनुष्टुभं स वैराजमुत्तरादसृजन्मुखात् ॥उच्चावचानि भूतानि गात्रेभ्यस्तस्य जज्ञिरे ॥६२यक्षाः पिशाचा गंधर्वास्तथैवाप्सरसां गणाः ॥नरकिन्नररक्षांसि वयःपशुमृगोरगाः ॥६३॥अव्ययं चैव यदिदं स्थाणुस्थावरजंगमम् ॥तेषां वै यानि कर्माणि प्राक्सृष्टानि प्रपेदिरे ॥६४॥तान्येव ते प्रपद्यंते सृज्यमानाः पुनः पुनः ॥हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्मावृतानृते ॥६५॥तद्भाविताः प्रपद्यंते तस्मात्तत्तस्य रोचते ॥महाभूतेषु नानात्वमिंद्रियार्थेषु मुक्तिषु ॥६६॥विनियोगं च भूतानां धातैव व्यदधत्स्वयम् ॥नाम रूपं च भूतानां प्राकृतानां प्रपञ्चनम् ॥६७॥वेदशब्देभ्य एवादौ निर्ममे ऽसौ पितामहः ॥आर्षाणि चैव नामानि याश्च वेदेषु वृत्तयः ॥६८॥शर्वर्यंते प्रसूतानां तान्येवैभ्यो ददावजः ॥यथर्तावृतुलिंगानि नानारूपाणि पर्यये ॥६९॥दृश्यंते तानि तान्येव तथा भावा युगादिषु ॥इत्येष करणोद्भूतो लोकसर्गस्स्वयंभुवः ॥७०॥महदाद्योविशेषांतो विकारः प्रकृतेः स्वयम् ॥चंद्रसूर्यप्रभाजुष्टो ग्रहनक्षत्रमंडितः ॥७१॥नदीभिश्च समुद्रैश्च पर्वतैश्च स मंडितः ॥परैश्च विविधैरम्यैस्स्फीतैर्जनपदैस्तथा ॥७२॥तस्मिन् ब्रह्मवने ऽव्यक्तो ब्रह्मा चरति सर्ववित् ॥अव्यक्तबीजप्रभव ईश्वरानुग्रहे स्थितः ॥७३॥बुद्धिस्कंधमहाशाख इन्द्रियांतरकोटरः ॥महाभूतप्रमाणश्च विशेषामलपल्लवः ॥७४॥धर्माधर्मसुपुष्पाढ्यः सुखदुःखफलोदयः ॥आजीव्यः सर्वभूतानां ब्रह्मवृक्षः सनातनः ॥७५॥द्यां मूर्धानं तस्य विप्रा वदंति खं वै नाभिं चंद्रसूर्यौ च नेत्रे ॥दिशः श्रोत्रे चरणौ च क्षितिं च सो ऽचिन्त्यात्मा सर्वभूतप्रणेता ॥७६॥वक्त्रात्तस्य ब्रह्मणास्संप्रसूतास्तद्वक्षसः क्षत्रियाः पूर्वभागात् ॥वैश्या उरुभ्यां तस्य पद्भ्यां च शूद्राः सर्वे वर्णा गात्रतः संप्रसूताः ॥७७॥इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे सृष्टिवर्णनं नाम द्वादशो ऽध्यायः N/A References : N/A Last Updated : October 13, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP