वायवीयसंहिता पूर्वभागः - अध्यायः ६

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


मुनय ऊचुः
यो ऽयं पशुरिति प्रोक्तो यश्च पाश उदाहृतः ॥१॥
अभ्यां विलक्षणः कश्चित्कोयमस्ति तयोः पतिः ॥१॥
वायुरुवाच॥
अस्ति कश्चिदपर्यंतरमणीयगुणाश्रयः ॥२॥
पतिर्विश्वस्य निर्माता पशुपाशविमोचनः ॥२॥
अभावे तस्य विश्वस्य सृष्टिरेषा कथं भवेत् ॥३॥
अचेतनत्वादज्ञानादनयोः पशुपाशयोः ॥३॥
प्रधानपरमाण्वादि यावत्किंचिदचेतनम् ॥४॥
तत्कर्तृकं स्वयं दृष्टं बुद्धिमत्कारणं विना ॥४॥
जगच्च कर्तृसापेक्षं कार्यं सावयवं यतः ॥५॥
तस्मात्कार्यस्य कर्तृत्वं पत्युर्न पशुपाशयोः ॥५॥
पशोरपि च कर्तृत्वं पत्युः प्रेरणपूर्वकम् ॥६॥
अयथाकरणज्ञानमंधस्य गमनं यथा ॥६॥
आत्मानं च पृथङ्मत्वा प्रेरितारं ततः पृथक् ॥७॥
असौ जुष्टस्ततस्तेन ह्यमृतत्वाय कल्पते ॥७॥
पशोः पाशस्य पत्युश्च तत्त्वतो ऽस्ति पदं परम् ॥८॥
ब्रह्मवित्तद्विदित्वैव योनिमुक्तो भविष्यति ॥८॥
संयुक्तमेतद्द्वितयं क्षरमक्षरमेव च ॥९॥
व्यक्ताव्यक्तं बिभर्तीशो विश्वं विश्वविमोचकः ॥९॥
भोक्ता भोग्यं प्रेरयिता मंतव्यं त्रिविधं स्मृतम् ॥१०॥
नातः परं विजानद्भिर्वेदितव्यं हि किंचनः ॥१०॥
तिलेषु वा यथा तैलं दध्नि वा सर्पिरर्पितम् ॥११॥
यथापः स्रोतसि व्याप्ता यथारण्यां हुताशनः ॥११॥
एवमेव महात्मानमात्मन्यात्मविलक्षणम् ॥१२॥
सत्येन तपसा चैव नित्ययुक्तो ऽनुपश्यति ॥१२॥
य एको जालवानीश ईशानीभिस्स्वशक्तिभिः ॥१३॥
सर्वांल्लोकानिमान् कृत्वा एक एव स ईशते  ॥१३॥
एक एव तदा रुद्रो न द्वितीयो ऽस्ति कश्चन ॥१४॥
संसृज्य विश्वभुवनं गोप्ता ते संचुकोच यः ॥१४॥
विश्वतश्चक्षुरेवायमुतायं विश्वतोमुखः ॥१५॥
तथैव विश्वतोबाहुविश्वतः पादसंयुतः ॥१५॥
द्यावाभूमी च जनयन् देव एको महेश्वरः ॥१६॥
स एव सर्वदेवानां प्रभवश्चोद्भवस्तथा ॥१६॥
हिरण्यगर्भं देवानां प्रथमं जनयेदयम् ॥१७॥
विश्वस्मादधिको रुद्रो महर्षिरिति हि श्रुतिः ॥१७॥
वेदाहमेतं पुरुषं महांतममृतं ध्रुवम् ॥१८॥
आदित्यवर्णं तमसः परस्तात्संस्थितं प्रभुम् ॥१८॥
अस्मान्नास्ति परं किंचिदपरं परमात्मनः ॥१९॥
नाणीयो ऽस्ति न च ज्यायस्तेन पूर्णमिदं जगत् ॥१९॥
सर्वाननशिरोग्रीवः सर्वभूतगुहाशयः ॥२०॥
सर्वव्यापी च भगवांस्तस्मात्सर्वगतश्शिवः ॥२०॥
सर्वतः पाणिपादो ऽयं सर्वतो ऽक्षिशिरोमुखः ॥२१॥
सर्वतः श्रुतिमांल्लोके सर्वमावृत्य तिष्ठति ॥२१॥
सर्वेन्द्रियगुणाभासस्सर्वेन्द्रियविवर्जितः ॥२२॥
सर्वस्य प्रभुरीशानः सर्वस्य शरणं सुहृत् ॥२२॥
अचक्षुरपि यः पश्यत्यकर्णो ऽपि शृणोति यः ॥२३॥
सर्वं वेत्ति न वेत्तास्य तमाहुः पुरुषं परम् ॥२३॥
अणोरणीयान्महतो महीयानयमव्ययः ॥२४॥
गुहायां निहितश्चापि जंतोरस्य महेश्वरः ॥२४॥
तमक्रतुं क्रतुप्रायं महिमातिशयान्वितम् ॥२५॥
धातुः प्रसादादीशानं वीतशोकः प्रपश्यति ॥२५॥
वेदाहमेनमजरं पुराणं सर्वगं विभुम् ॥२६॥
निरोधं जन्मनो यस्य वदंति ब्रह्मवादिनः ॥२६॥
एको ऽपि त्रीनिमांल्लोकान् बहुधा शक्तियोगतः ॥२७॥
विदधाति विचेत्यंते १ विश्वमादौ महेश्वरः ॥२७॥
विश्वधात्रीत्यजाख्या च शैवी चित्रा कृतिः परा ॥२८॥
तामजां लोहितां शुक्लां कृष्णामेकां त्वजः प्रजाम् ॥२८॥
जनित्रीमनुशेते ऽन्योजुषमाणस्स्वरूपिणीम् ॥२९॥
तामेवाजामजो ऽन्यस्तु भक्तभोगा जहाति च ॥२९॥
द्वौ सुपर्णौ च सयुजौ समानं वृक्षमास्थितौ ॥३०॥
एको ऽत्ति पिप्पलं स्वादु परो ऽनश्नन् प्रपश्यति ॥३०॥
वृक्षेस्मिन् पुरुषो मग्नो गुह्यमानश्च शोचति ॥३१॥
जुष्टमन्यं यदा पश्येदीशं परमकारणम् ॥३१॥
तदास्य महिमानं च वीतशोकस्सुखी भवेत् ॥३२॥
छंदांसि यज्ञाः ऋतवो यद्भूतं भव्यमेव च ॥३२॥
मायी विश्वं सृजत्यस्मिन्निविष्टो मायया परः ॥३३॥
मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् ॥३३॥
तस्यास्त्ववयवैरेव व्याप्तं सर्वमिदं जगत् ॥३४॥
सूक्ष्मातिसूक्ष्ममीशानं कललस्यापि मध्यतः ॥३४॥
स्रष्टारमपि विश्वस्य वेष्टितारं च तस्य तु ॥३५॥
शिवमेवेश्वरं ज्ञात्वा शांतिमत्यंतमृच्छति ॥३५॥
स एव कालो गोप्ता च विश्वस्याधिपतिः प्रभुः ॥३६॥
तं विश्वाधिपतिं ज्ञात्वा मृत्युपाशात्प्रमुच्यते ॥३६॥
घृतात्परं मंडमिव सूक्ष्मं ज्ञात्वा स्थितं प्रभुम् ॥३७॥
सर्वभूतेषु गूढं च सर्वपापैः प्रमुच्यते ॥३७॥
एष एव परो देवो विश्वकर्मा महेश्वरः ॥३८॥
हृदये संनिविष्टं तं ज्ञात्वैवामृतमश्नुते ॥३८॥
यदा समस्तं न दिवा न रात्रिर्न सदप्यसत् ॥३९॥
केवलश्शिव एवैको यतः प्रज्ञा पुरातनी ॥३९॥
नैनमूर्ध्वं न तिर्यक्च न मध्यं पर्यजिग्रहत् ॥४०॥
न तस्य प्रतिमा चास्ति यस्य नाम महद्यशः ॥४०॥
अजातमिममेवैके बुद्धा जन्मनि भीरवः ॥४१॥
रुद्रस्यास्य प्रपद्यंते रक्षार्थं दक्षिणं सुखम् ॥४१॥
द्वे अक्षरे ब्रह्मपरे त्वनंते समुदाहृते ॥४२॥
विद्याविद्ये समाख्याते निहिते यत्र गूढवत् ॥४२॥
क्षरं त्वविद्या ह्यमृतं विद्येति परिगीयते ॥४३॥
ते उभे ईशते यस्तु सो ऽन्यः खलु महेश्वरः ॥४३॥
एकैकं बहुधा जालं विकुर्वन्नेकवच्च यः ॥४४॥
सर्वाधिपत्यं कुरुते सृष्ट्वा सर्वान् प्रतापवान् ॥४४॥
दिश ऊर्ध्वमधस्तिर्यक्भासयन् भ्राजते स्वयम् ॥४५॥
यो निःस्वभावादप्येको वरेण्यस्त्वधितिष्ठति ॥४५॥
स्वभाववाचकान् सर्वान् वाच्यांश्च परिणामयन् ॥४६॥
गुणांश्च भोग्यभोक्तृत्वे तद्विश्वमधितिष्ठति ॥४६॥
ते वै गुह्योपणिषदि गूढं ब्रह्म परात्परम् ॥४७॥
ब्रह्मयोनिं जगत्पूर्वं विदुर्देवा महर्षयः ॥४७॥
भावग्राह्यमनीहाख्यं भावाभावकरं शिवम् ॥४८॥
कलासर्गकरं देवं ये विदुस्ते जहुस्तनुम् ॥४८॥
स्वभावमेके मन्यंते कालमेके विमोहिताः ॥४९॥
देवस्य महिमा ह्येष येनेदं भ्राम्यते जगत् ॥४९॥
येनेदमावृतं नित्यं कालकालात्मना यतः ॥५०॥
तेनेरितमिदं कर्म भूतैः सह विवर्तते ॥५०॥
तत्कर्म भूयशः कृत्वा विनिवृत्य च भूयशः ॥५१॥
तत्त्वस्य सह तत्त्वेन योगं चापि समेत्य वै ॥५१॥
अष्टाभिश्च त्रिभिश्चैवं द्वाभ्यां चैकेन वा पुनः ॥५२॥
कालेनात्मगुणैश्चापि कृत्स्नमेव जगत्स्वयम् ॥५२॥
गुणैरारभ्य कर्माणि स्वभावादीनि योजयेत् ॥५३॥
तेषामभावे नाशः स्यात्कृतस्यापि च कर्मणः ॥५३॥
कर्मक्षये पुनश्चान्यत्ततो याति स तत्त्वतः ॥५४॥
स एवादिस्स्वयं योगनिमित्तं भोक्तृभोगयोः ॥५४॥
परस्त्रिकालादकलस्स एव परमेश्वरः ॥५५॥
सर्ववित्त्रिगुणाधीशो ब्रह्मसाक्षात्परात्परः ॥५५॥
तं विश्वरूपमभवं भवमीड्यं प्रजापतिम् ॥५६॥
देवदेवं जगत्पूज्यं स्वचित्तस्थमुपास्महे ॥५६॥
कालादिभिः परो यस्मात्प्रपञ्चः परिवर्तते ॥५७॥
धर्मावहं पापनुदं भोगेशं विश्वधाम च ॥५७॥
तमीश्वराणां परमं महेश्वरं तं देवतानां परमं च दैवतम् ॥५८॥॥
पतिं पतीनां परमं परस्ताद्विदाम देवं भुवनेश्वरेश्वरम् ॥५८॥
न तस्य विद्येत कार्यं कारणं च न विद्यते ॥५९॥
न तत्समो ऽधिकश्चापि क्वचिज्जगति दृश्यते ॥५९॥
परास्य विविधा शक्तिः श्रुतौ स्वाभाविकी श्रुता ॥६०॥
ज्ञानं बलं क्रिया चैव याभ्यो विश्वमिदं कृतम् ॥६०॥
तस्यास्ति पतिः कश्चिन्नैव लिंगं न चेशिता ॥६१॥
कारणं कारणानां च स तेषामधिपाधिपः ॥६१॥
न चास्य जनिता कश्चिन्न च जन्म कुतश्चन ॥६२॥
न जन्महेतवस्तद्वन्मलमायादिसंज्ञकाः ॥६२॥
स एकस्सर्वभूतेषु गूढो व्याप्तश्च विश्वतः ॥६३॥
सर्वभूतांतरात्मा च धर्माध्यक्षस्स कथ्यते ॥६३॥
सर्वभूताधिवासश्च साक्षी चेता च निर्गुणः ॥६४॥
एको वशी निष्क्रियाणां बहूनां विवशात्मनाम् ॥६४॥
नित्यानामप्यसौ नित्यश्चेतनानां च चेतनः ॥६५॥
एको बहूनां चाकामः कामानीशः प्रयच्छति ॥६५॥
सांख्ययोगाधिगम्यं यत्कारणं जगतां पतिम् ॥६६॥
ज्ञात्वा देवं पशुः पाशैस्सर्वैरेव विमुच्यते ॥६६॥
विश्वकृद्विश्ववित्स्वात्मयोनिज्ञः कालकृद्गुणी ॥६७॥
प्रधानः क्षेत्रज्ञपतिर्गुणेशः पाशमोचकः ॥६७॥
ब्रह्माणं विदधे पूर्वं वेदांश्चोपादिशत्स्वयम् ॥६८॥
यो देवस्तमहं बुद्ध्वा स्वात्मबुद्धिप्रसादतः ॥६८॥
मुमुक्षुरस्मात्संसारात्प्रपद्ये शरणं शिवम् ॥६९॥
निष्फलं निष्क्रियं शांतं निरवद्यं निरंजनम् ॥६९॥
अमृतस्य परं सेतुं दग्धेंधनमिवानिलम् ॥७०॥
यदा चर्मवदाकाशं वेष्टयिष्यंति मानवाः ॥७०॥
तदा शिवमविज्ञाय दुःखस्यांतो भविष्यति ॥७१॥
तपःप्रभावाद्देवस्य प्रसादाच्च महर्षयः ॥७२॥
अत्याश्रमोचितज्ञानं पवित्रं पापनाशनम् ॥७२॥
वेदांते परमं गुह्यं पुराकल्पप्रचोदितम् ॥७३॥
ब्रह्मणो वदनाल्लब्धं मयेदं भाग्यगौरवात् ॥७३॥
नाप्रशांताय दातव्यमेतज्ज्ञानमनुत्तमम् ॥७४॥
न पुत्रायाशुवृत्ताय नाशिष्याय च सर्वथा ॥७४॥
यस्य देवे पराभक्तिर्यथा देवे तथा गुरौ ॥७५॥
तस्यैते कथिताह्यर्थाः प्रकाशंते महात्मनः ॥७५॥
अतश्च संक्षेपमिदं शृणुध्वं शिवः परस्तात्प्रकृतेश्च पुंसः ॥७६॥
स सर्गकाले च करोति सर्वं संहारकाले पुनराददाति ॥७६॥

इति श्रीशिवमहापुराणे सप्तम्यां वायवीयसंहितायां पूर्वखण्डे शिवतत्त्ववर्णनं नाम षष्ठो ऽध्यायः

N/A

References : N/A
Last Updated : October 13, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP