संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|शतरुद्रसंहिता| अध्यायः २६ शतरुद्रसंहिता अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ विषयानुक्रमणिका शतरुद्रसंहिता - अध्यायः २६ शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे. Tags : puransanskritshiv puranपुराणशिव पुराणसंस्कृत अध्यायः २६ Translation - भाषांतर नन्दीश्वर उवाच ॥शृणु तात प्रवक्ष्यामि शिवस्य परमात्मनः ॥अवतारं परमानन्दं वैश्यनाथाह्वयं मुने ॥१॥नन्दिग्रामे पुरा काचिन्महानन्देति विश्रुता ॥बभूव वारवनिता शिवभक्ता सुसुन्दरी ॥२॥महाविभवसम्पन्ना सुधनाढ्या महोज्ज्वला ॥नानारत्नपरिच्छिन्न शृङ्गाररसनिर्भरा ॥३॥सर्वसंगीत विद्यासु निपुणातिमनोहरा ॥तस्या गेयेन हृष्यन्ति राज्ञ्यो राजान एव च ॥४॥समानर्च सदा साम्बं सा वेश्या शंकरं मुदा ॥शिवनामजपासक्ता भस्मरुद्राक्षभूषणा ॥५॥शिवं सम्पूज्य सा नित्यं सेवन्ती जगदीश्वरम् ॥ननर्त परया भक्त्या गायन्ती शिवसद्यशः ॥६॥रुद्राक्षैर्भूषयित्वैकं मर्कटं चैव कुक्कुटम् ॥करतालैश्च गीतैश्च सदा नर्तयति स्म सा ॥७॥नृत्यमानौ च तौ दृष्ट्वा शिवभक्तिरता च सा ॥वेश्या स्म विहसत्युच्चैः प्रेम्णा सर्वसखीयुता ॥८॥रुद्राक्षैः कृतकेयूरकर्णा भरणमण्डनः ॥मर्कटः शिक्षया तस्याः पुरो नृत्यति बालवत् ॥९॥शिखासंबद्धरुद्राक्षः कुक्कुटः कपिना सह ॥नित्यं ननर्त नृत्यज्ञः पश्यतां हितमावहन् ॥१०॥एवं सा कुर्वती वेश्या कौतुकम्परमादरात् ॥शिवभक्तिरता नित्यं महानन्दभराऽभवत् ॥११॥शिवभक्तिं प्रकुर्वन्त्या वेश्याया मुनिसत्तम ॥बहुकालो व्यतीयाय तस्याः परमसौख्यतः ॥१२॥एकदा च गृहे तस्या वैश्यो भूत्वा शिवस्स्वयम् ॥परीक्षितुं च तद्भावमाजगाम शुभो व्रती ॥१३॥त्रिपुण्ड्रविलसद्भालो रुद्राक्षाभरणः कृती ॥शिवनामजपासक्तो जटिलः शैववेषभृत् ॥१४॥स बिभ्रद्भस्मनिचयं प्रकोष्ठे वरकंकणम् ॥महारत्नपरिस्तीर्णं राजते परकौतुकी ॥१५॥तमागतं सुसंपूज्य सा वेश्या परया मुदा ॥स्वस्थाने सादरं वैश्यं सुन्दरी हि न्यवेशयत् ॥१६॥तत्प्रकोष्ठे वरं वीक्ष्य कंकणं सुमनोहरम् ॥तस्मिञ्जातस्पृहा सा च तं प्रोवाच सुविस्मिता ॥१७॥महानन्दोवाच ॥महारत्नमयश्चायं कंकणस्त्वत्करे स्थितः ॥मनो हरति मे सद्यो दिव्यस्त्रीभूषणोचितः ॥१८॥नन्दीश्वर उवाच ॥इति तां नवरत्नाढ्ये सस्पृहां करभूषणे ॥वीक्ष्योदारमतिर्वैश्यः सस्मितं समभाषत ॥१९॥वैश्यनाथ उवाच ॥अस्मिन्रत्नवरे दिव्ये सस्पृहं यदि ते मनः ॥त्वमेवाधत्स्व सुप्रीत्या मौल्यमस्य ददासि किम् ॥२०॥वेश्योवाच ॥वयं हि स्वैरचारिण्यो वेश्यास्तु न पतिव्रताः ॥अस्मत्कुलोचितो धर्मो व्यभिचारो न संशयः ॥२१॥यद्येतदखिलं चित्तं गृह्णाति करभूषणम् ॥दिनत्रयमहोरात्रं पत्नी तव भवाम्यहम् ॥२२॥वैश्य उवाच ॥तथास्तु यदि ते सत्यं वचनं वीरवल्लभे ॥ददामि रत्नवलयं त्रिरात्रं भव मे वधूः ॥२३॥एतस्मिन्व्यवहारे तु प्रमाणं शशिभास्करौ ॥त्रिवारं सत्यमित्युक्त्वा हृदयं मे स्पृश प्रिये ॥२४॥वेश्योवाच ॥दिनत्रयमहोरात्रं पत्नी भूत्वा तव प्रभो ॥सहधर्मं चरामीति सत्यंसत्यं न संशयः ॥२५॥नन्दीश्वर उवाच ॥इत्युक्त्वा हि महानन्दा त्रिवारं शशिभास्करौ ॥प्रमाणीकृत्य सुप्रीत्या सा तद्धृदयमस्पृशत् ॥२६॥अथ तस्यै स वैश्यस्तु प्रदत्त्वा रत्नकंकणम् ॥लिंगं रत्नमयं तस्य हस्ते दत्त्वेदमब्रवीत् ॥२७॥वैश्यनाथ उवाच ॥इदं रत्नमयं लिंगं शैवं मत्प्राणदवल्ल भम् ॥रक्षणीयं त्वया कान्ते गोपनीयं प्रयत्नतः ॥२८॥नन्दीश्वर उवाच ॥एवमस्त्विति सा प्रोच्य लिंगमादाय रत्नजम् ॥नाट्यमण्डपिका मध्ये निधाय प्राविशद्गृहम् ॥२९॥सा तेन संगता रात्रौ वैश्येन विटधर्मिणा ॥सुखं सुष्वाप पर्यंके मृदुतल्पोपशो भिते ॥३०॥ततो निशीथसमये मुने वैश्यपतीच्छया ॥अकस्मादुत्थिता वाणी नृत्यमण्डपिकान्तरे ॥३१॥महाप्रज्वलितो वह्निः सुसमीरसहायवान् ॥नाट्यमण्डपिकां तात तामेव सहसावृणोत् ॥३२॥मण्डपे दह्यमाने तु सहसोत्थाय संभ्रमात् ॥मर्कटं मोचयामास सा वेश्या तत्र बन्धनात् ॥३३॥स मर्कटो मुक्तबन्धः कुक्कुटेन सहामुना ॥भिया दूरं हि दुद्राव विधूयाग्निकणान्बहून् ॥३४॥स्तम्भेन सह निर्दग्धं तल्लिंगं शकलीकृतम् ॥दृष्ट्वा वेश्या स वैश्यश्च दुरंतं दुःखमापतुः ॥३५॥दृष्ट्वा ह्यात्मसमं लिंगं दग्धं वैश्यपतिस्तदा ॥ज्ञातुन्तद्भावमन्तःस्थम्मरणाय मतिन्दधे ॥३६॥निविश्येतितरां खेदाद्वैश्यस्तामाह दुःखिताम् ॥नानालीलो महेशानः कौतुकान्नरदेहवान् ॥३७॥वैश्यपतिरुवाच ॥शिवलिंगे तु निर्भिन्ने दग्धे महत्प्राणवल्लभे ॥सत्यं वच्मि न सन्देहो नाहं जीवितुमुत्सहे ॥३८॥चितां कारय मे भद्रे स्वभृत्यैस्त्वं वरैर्लघु ॥शिवे मनस्समावेश्य प्रवेक्ष्यामि हुताशनम् ॥३९॥यदि ब्रह्मेन्द्रविष्ण्वाद्या वारयेयुः समेत्य माम् ॥तथाप्यस्मिन् क्षणे भद्रे प्रविशामि त्यजाम्यसून् ॥४०॥नन्दीश्वर उवाच ॥तमेवं दृढनिर्बन्धं सा विज्ञाय सुदुःखिता ॥स्वभृत्यैः कारयामास चितां स्वभवनाद्बहिः ॥४१॥ततस्स वैश्यश्शिव एक एव प्रदक्षिणीकृत्य समिद्धमग्निम् ॥विवेश पश्यत्सु नरेषु धीरः सुकौतुकी संगतिभावमिच्छुः ॥४२॥दृष्ट्वा सा तद्गतिं वेश्या महानन्दातिविस्मिता ॥अनुतापं च युवती प्रपेदे मुनिसत्तम ॥४३॥अथ सा दुःखिता वेश्या स्मृत्वा धर्म सुनिर्मलम् ॥सर्वान्बंधुजनान्वीक्ष्य बभाषे करुणं वचः ॥४४॥महानन्दोवाच ॥रत्नकंकणमादाय मया सत्यमुदाहृतम् ॥दिनत्रयमहं पत्नी वैश्यस्यामुष्य संमता ॥४५॥कर्मणा मत्कृतेनायं मृतो वैश्यः शिवव्रती ॥तस्मादहं प्रवेक्ष्यामि सहानेन हुताशनम् ॥४६॥स्वधर्मचारिणी त्यक्तमाचार्य्यै सत्यवादिभिः ॥एवं कृते मम प्रीत्या सत्यं मयि न नश्यतु ॥४७॥सत्याश्रयः परो धर्म सत्येन परमा गतिः ॥सत्येन स्वर्ग मोक्षौ च सत्ये सर्वं प्रतिष्ठितम् ॥४८॥नन्दीश्वर उवाच ॥इति सा दृढनिर्वन्धा वार्यमाणापि बन्धुभिः ॥सत्यलोकपरा नारी प्राणांस्त्यक्तुं मनो दधे ॥४९॥सर्वस्वं द्विजमुख्येभ्यो दत्त्वा ध्यात्वा सदाशिवम् ॥तमग्निं त्रिः परिक्रम्य प्रवेशाभिमुखी ह्यभूत् ॥५०॥तां पतन्तीं समिद्धेग्नौ स्वपदार्पितमानसाम् ॥वारयामास विश्वात्मा प्रादुर्भूतः स वै शिवः ॥५१॥सा तं विलोक्याखिलदेवदेवन्त्रिलोचनं चन्द्रकलावतंसम् ॥शशांकसूर्यानलकोटिभासं स्तब्धेव भीतेव तथैव तस्थौ ॥५२॥तां विह्वलां सुवित्रस्वां वेपमानां जडीकृताम् ॥समाश्वास्य गलद्बाष्पां करौ धृत्वाऽब्रवीद्वचः ॥५३॥शिव उवाच ॥सत्यं धर्मं च धैर्यं च भक्तिं च मयि निश्चलाम् ॥परीक्षितुं त्वत्सकाशं वैश्यो भूत्वाहमागतः ॥५४॥मा ययाग्निं समुद्दीप्य दग्धन्ते नाट्यमण्डपम् ॥दग्धं कृत्वा रत्नलिंगं प्रविष्टोहं हुताशनम् ॥५५॥सा त्वं सत्यमनुस्मृत्य प्रविष्टाग्निं मया सहा ॥अतस्ते संप्रदास्यामि भोगांस्त्रिदशदुर्लभान् ॥५६॥यद्यदिच्छसि सुश्रोणि तदेव हि ददामि ते ॥त्वद्भक्त्याहं प्रसन्नोस्मि तवादेयं न विद्यते ॥५७॥नन्दीश्वर उवाच ॥इति ब्रुवति गौरीशे शंकरे भक्तवत्सले ॥महानन्दा च सा वेश्या शंकरम्प्रत्यभाषत ॥५८॥वेश्योवाच ॥न मे वाञ्छास्ति भोगेषु भूमौ स्वर्गे रसातले ॥तव पादाम्बुजस्पर्शादन्यत्किंचिन्न कामये ॥५९॥ये मे भृत्याश्च दास्यश्च ये चान्ये मम बान्धवाः ॥सर्वे त्वद्दर्शनपरास्त्वयि सन्न्यस्तवृत्तयः ॥६०॥सर्वानेतान्मया सार्द्धं निनीयात्मपरम्पदम् ॥पुनर्जन्मभयं घोरं विमोचय नमोऽस्तु ते ॥६१॥नन्दीश्वर उवाच ॥ततस्स तस्या वचनम्प्रतिनन्द्य महेश्वरः ॥ताः सर्वाश्च तया सार्धं निनाय स्वम्परम्पदम् ॥६२॥वैश्यनाथावतारस्ते वर्णितः परमो मया ॥महानन्दासुखकरो भक्तानन्दप्रदस्सदा ॥६३॥इदं चरित्रं परमं पवित्रं सतां च सर्वप्रदमाशु दिव्यम् ॥शिवावतारस्य विशाम्पतेर्महानन्दामहासौख्यकरं विचित्रम् ॥६४॥इदं यः शृणुयाद्भक्त्या श्रावयेद्वा समाहितः ॥च्यवते न स्वधर्मात्स परत्र लभते गतिम् ॥६५॥इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां वैश्यनाथाह्वयशिवावतारवर्णनं नाम षड्विंशोऽध्यायः ॥२६॥( ७६) N/A References : N/A Last Updated : October 11, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP