संस्कृत सूची|संस्कृत साहित्य|पुराण|शिवपुराणम्|शतरुद्रसंहिता| अध्यायः ९ शतरुद्रसंहिता अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ विषयानुक्रमणिका शतरुद्रसंहिता - अध्यायः ९ शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे. Tags : puransanskritshiv puranपुराणशिव पुराणसंस्कृत अध्यायः ९ Translation - भाषांतर नन्दीश्वर उवाच ॥सनत्कुमार सर्वज्ञ भैरवीमपरां कथाम् ॥शृणु प्रीत्या महादोषसंहर्त्रीम्भक्तिवर्द्धिनीम् ॥१॥तत्सान्निध्यं भैरवोऽपि कालोऽभूत्कालकालनः ॥स देवदेववाक्येन बिभ्रत्कापालिकं व्रतम् ॥२॥कपालपाणिर्विश्वात्मा चचार भुवनत्रयम् ॥नात्याक्षीच्चापि तं देवं ब्रह्महत्यापि दारुणा ॥३॥प्रतितीर्थं भ्रमन्वापि विमुक्तो ब्रह्महत्यया ॥अतः कामारिमहिमा सर्वोपि ह्यवगम्यताम् ॥४॥प्रमथैः सेव्यमानोऽपि ह्येकदा विहरन्हरः ॥कापालिको ययौ स्वैरी नारायणनिकेतनम् ॥५॥अथायान्तं महाकालं त्रिनेत्रं सर्पकुण्डलम् ॥महादेवांशसम्भूतं पूर्णाकारं च भैरवम् ॥६॥पपात दण्डवद्भूमौ तं दृष्ट्वा गरुडध्वजः ॥देवाश्च मुनयश्चैव देवनार्य्यः समन्ततः ॥७॥अथ विष्णुः प्रणम्यैनं प्रयातः कमलापतिः ॥शिरस्यञ्जलिमाधाय तुष्टाव विविधैः स्तवः ॥८॥सानन्दोऽथ हरिः प्राह प्रसन्नात्मा महामुने ॥क्षीरोदमथनोद्भूतां पद्मां पद्मालयां मुदा ॥९॥विष्णुरुवाच ॥प्रिये पश्याब्जनयने धन्यासि सुभगेऽनघे ॥धन्योऽहं देवि सुश्रोणि यत्पश्यावो जगत्पतिम् ॥१०॥अयन्धाता विधाता च लोकानां प्रभुरीश्वरः ॥अनादिः शरणः शान्तः पुरः षड्विंशसंमितः ॥११॥सर्वज्ञः सर्वयोगीशस्सर्वभूतैकनायकः ॥सर्वभूतान्तरात्मायं सर्वेषां सर्वदः सदा ॥१२॥ये विनिद्रा विनिश्वासाः शान्ता ध्यानपरायणाः ॥धिया पश्यंति हृदये सोयं पद्मे समीक्षताम् ॥१३॥यं विदुर्व्वेदतत्त्वज्ञा योगिनो यतमानसाः ॥अरूपो रूपवान्भूत्वा सोऽयमायाति सर्वगः ॥१४॥अहो विचित्रं देवस्य चेष्टितम्परमेष्ठिनः ॥यस्याख्यां ब्रुवतो नित्यं न देहः सोऽपि देहभृत् ॥१५॥तं दृष्ट्वा न पुनर्जन्म लभ्यते मानवैर्भुवि ॥सोयमायाति भगवांस्त्र्यम्बकश्शशिभूषणः ॥१६॥पुण्डरीकदलायामे धन्ये मेऽद्य विलोचने ॥यद्दृश्यते महादेवो ह्याभ्यां लक्ष्मि महेश्वरः ॥१७॥धिग्धिक्पदन्तु देवानां परं दृष्ट्वा न शंकरम् ॥लभ्यते यत्र निर्वाणं सर्व दुःखान्तकृत्तु यत् ॥१८॥देवत्वादशुभं किञ्चिद्देवलोके न विद्यते ॥दृष्ट्वापि सर्वे देवेशं यन्मुक्तिन्न लभामहे ॥१९॥एवमुक्त्वा हृषीकेशस्संप्रहृष्टतनूरुहः ॥प्रणिपत्य महादेवमिदमाह वृषध्वजम् ॥२०॥विष्णुरुवाच ॥किमिदन्देवदेवेन सर्वज्ञेन त्वया विभो ॥क्रियते जगतां धात्रा सर्वपापहराव्यय ॥२१॥क्रीडेयन्तव देवेश त्रिलोचन महामते ॥किङ्कारणं विरूपाक्ष चेष्टितन्ते स्मरार्दन ॥२२॥किमर्थं भगवञ्छम्भो भिक्षाञ्चरसि शक्तिप ॥संशयो मे जगन्नाथ एष त्रैलोक्यराज्यद ॥२३॥ ॥नन्दीश्वर उवाच ॥एवमुक्तस्ततः शम्भुर्विष्णुना भैरवो हरः ॥प्रत्युवाचाद्भुतोतिस्स विष्णुं हि विहसन्प्रभुः ॥२४॥ ॥भैरव उवाच ॥ब्रह्मणस्तु शिरश्छिन्नमंगुल्याग्रनखेन ह ॥तदघम्प्रतिहन्तुं हि चराम्येतद्व्रतं शुभम् ॥२५॥नन्दीश्वर उवाच ॥एवमुक्तो महेशेन भैरवेण रमापतिः ॥स्मृत्वा किंचिन्नतशिराः पुनरेवमजिज्ञपत् ॥२६॥ ॥विष्णुरुवाच ॥यथेच्छसि तथा क्रीड सर्वविघ्नोपनोदक ॥मायया मां महादेव नाच्छादयितुमर्हसि ॥२७॥नाभीकमलकोशात्तु कोटिशः कमलासनाः ॥कल्पे कल्पे पुरा ह्यान्सत्यं योगबलाद्विभो ॥२८॥त्यज मायामिमान्देव दुस्तरामकृतात्मभिः ॥ब्रह्मादयो महादेव मायया तव मोहिताः ॥२९॥यथावदनुगच्छामि चेष्टितन्ते शिवापते ॥तवैवानुग्रहाच्छम्भो सर्वेश्वर सतांगते ॥३०॥संहारकाले संप्राप्ते सदेवान्निखिलान्मुनीन् ॥लोकान्वर्णाश्रमवतो हरिष्यसि यदा हर ॥३१॥तदा कृते महादेव पापं ब्रह्मवधादिकम् ॥पारतन्त्र्यं न ते शम्भो स्वैरं क्रीडत्यतो भवान् ॥३२॥अर्घीव ब्रह्मणो ह्यस्थ्नां स्रक्कण्ठे तव भासते ॥तथाद्यनुगता शम्भो ब्रह्महत्या तवानघ ॥३३॥कृत्वापि सुमहत्पापं यस्त्वां स्मरति मानवः ॥आधारं जगतामीश तस्य पापं विलीयते ॥३४॥यथा तमो न तिष्ठेत सन्निधावंशुमालिनः ॥तथैव तव यो भक्तः पापन्तस्य व्रजेत्क्षयम् ॥३५॥यश्चिन्तयति पुण्यात्मा तव पादाम्बुजद्वयम् ॥ब्रह्महत्याकृतमपि पापन्तस्य व्रजेत्क्षयम् ॥३६॥तव नामानुरक्ता वाग्यस्य पुंसो जगत्पते ॥अप्यद्रिकूटतुलितं नैनस्तमनुबाधते ॥३७॥परमात्मन्परन्धाम स्वेच्छाभिधृतविग्रह ॥कुतूहलं तवेशेदं कृपणाधीनतेश्वर ॥३८॥अद्य धन्योऽस्मि देवेश यत्र पश्यंति योगिनः ॥पश्यामि तं जगन्मूर्त्ति परमेश्वरमव्ययम् ॥३९॥अद्य मे परमो लाभस्त्वद्य मे मंगलं परम् ॥तं दृष्ट्वामृत तृप्तस्य तृणं स्वर्गापवर्गकम् ॥४०॥इत्थं वदति गोविंदे विमला पद्मया तया ॥मनोरथवती नाम भिक्षा पात्रे समर्पिता ॥४१॥भिक्षाटनाय देवोऽपि निरगात्परया मुदा ॥अन्यत्रापि महादेवो भैरवश्चात्तविग्रहः ॥४२॥दृष्ट्वानुयायिनीं तान्तु समाहूय जनार्दनः ॥संप्रार्थयद्ब्रह्महत्यां विमुंच त्वं त्रिशूलिनम् ॥४३॥ ॥ब्रह्महत्योवाच ॥अनेनापि मिषेणाहं संसेव्यामुं वृषध्वजम् ॥आत्मानम्पावयिष्यामि त्वपुनर्भवदर्शनम् ॥४४॥नन्दीश्वर उवाच ॥सा तत्याज न तत्पार्श्वं व्याहृतापि मुरारिणा ॥तमूचेऽथ हरिं शंभुः स्मेरास्यो भैरवो वचः ॥४५॥भैरव उवाच ॥त्वद्वाक्पीयूषपानेन तृप्तोऽस्मि बहुमानद ॥स्वभावोऽयं हि साधूनां यत्त्वं वदसि मापते ॥४६॥वरं वृणीष्व गोविंद वरदोऽस्मि तवानघ ॥अग्रणीर्मम भक्तानां त्वं हरे निर्विकारवान् ॥४७॥नो माद्यन्ति तथा भैक्ष्यैर्भिक्षवोऽप्यतिसंस्कृतैः ॥यथा मानसुधापानैर्ननु भिक्षाटनज्वराः ॥४८॥नन्दीश्वर उवाच ॥इत्याकर्ण्य वचः शंभो भैरवस्य परात्मनः ॥सुप्रसन्नतरो भूत्वा समवोचन्महेश्वरम् ॥४९॥विष्णुरुवाच ॥एष एव वरः श्लाघ्यो यदहं देक्ताधिपम् ॥पश्यामि त्वान्देवदेव मनोवाणी पथातिगम् ॥५०॥अदभ्रेयं सुधादृष्टिरनया मे महोत्सवः ॥अयत्त्ननिधिलाभोयं वीक्षणं हर ते सताम् ॥५१॥अवियोगोऽस्तु मे देव त्वदंघ्रियुगलेन वै ॥एष एव वरः शंभो नान्यं कश्चिद् वृणे वरम् ॥५२॥श्रीभैरवी उवाच ॥एवम्भवतु ते तात यत्त्वयोक्तं महामते ॥सर्वेषामपि देवानां वरदस्त्वं भविष्यसि ॥५३॥नन्दीश्वर उवाच ॥अनुगृह्येति दैत्यारि केंद्राद्रिभुवनेचरम् ॥भेजे विमुक्तनगरीं नाम्ना वाराणसीं पुरीम् ॥५४॥क्षेत्रे प्रविष्टमात्रेऽथ भैरवे भीषणाकृतौ ॥हाहेत्युक्त्वा ब्रह्महत्या पातालं चाविशत्तदा ॥९५॥कपालं ब्राह्मणः सद्यो भैरवस्य करांबुजात् ॥पपात भुवि तत्तीर्थमभूत्कापालमोचनम् ॥५६॥कपालं ब्रह्मणो रुद्रस्सर्वेषामेव पश्यताम् ॥हस्तात्पतन्तमालोक्य ननर्त परया मुदा ॥५७॥विधेः कपालं नामुंचत्करमत्यन्तदुस्सहम् ॥परस्य भ्रमतः क्वापि तत्काश्यां क्षणतोऽपतत् ॥५८॥शूलिनो ब्रह्मणो हत्या नापैति स्म च या क्वचित् ॥सा काश्यां क्षणतो नष्टा तस्मात्सेव्या हि काशिका ॥५९॥कपालमोचनं काश्यां यः स्मरेत्तीर्थमुत्तमम् ॥इहान्यत्रापि यत्पापं क्षिप्रं तस्य प्रणश्यति ॥६०॥आगत्य तीर्थप्रवरे स्नानं कृत्वा विधानतः ॥तर्पयित्वा पितॄन्देवान्मुच्यते ब्रह्महत्यया ॥६१॥कपालमोचनं तीर्थं पुरस्कृत्वा तु भैरवः ॥तत्रैव तस्थौ भक्तानां भक्षयन्नघसन्ततिम् ॥६२॥कृष्णाष्टम्यान्तु मार्गस्य मासस्य परमेश्वरः ॥आविर्बभूव सल्लीलो भैरवात्मा सताम्प्रियः ॥६३॥मार्गशीर्षासिताष्टम्यां कालभैरवसन्निधौ ॥उपोष्य जागरं कुर्वन्महापापैः प्रमुच्यते ॥६४॥अन्यत्रापि नरो भक्त्या तद्व्रतं यः करिष्यति ॥स जागरं महापापैर्मुक्तो यास्यति सद्गतिम् ॥६५॥अनेकजन्मनियुतैर्यत्कृतं जन्तुभिस्त्वघम् ॥तत्सर्वं विलयं याति कालभैरवदर्शनात् ॥६६॥कालभैरवभक्तानां पातकानि करोति यः ॥स मूढो दुःखितो भूत्वा पुनर्दुर्गतिमाप्नुयात् ॥६७॥विश्वेश्वरेऽपि ये भक्ता नो भक्ताः कालभैरवे ॥ते लभन्ते महादुःखं काश्यां चैव विशेषतः ॥६८॥वाराणस्यामुषित्वा यो भैरवं न भजेन्नरः ॥तस्य पापानि वर्द्धन्ते शुक्लपक्षे यथा शशी ॥६९॥कालराजं न यः काश्यां प्रतिभूताष्टमीकुजम् ॥भजेत्तस्य क्षयं पुण्यं कृष्णपक्षे यथा शशी ॥७०॥श्रुत्वाख्यानमिदम्पुण्यम्ब्रह्महत्यापनोदकम् ॥भैरवोत्पत्तिसंज्ञं च सर्वपापैः प्रमुच्यते ॥७१॥बन्धनागारसंस्थोऽपि प्राप्तोऽपि विपदम्पराम् ॥प्रादुर्भावं भैरवस्य श्रुत्वा मुच्येत सङ्कटात् ॥७२॥इति श्रीशिवमहापुराणे तृतीयायांशत रुद्रसंहितायां भैरवावतारलीलावर्णनं नाम नवमोऽध्यायः ॥९॥ N/A References : N/A Last Updated : October 11, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP