संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|शिवपुराणम्|शतरुद्रसंहिता| अध्यायः १ शतरुद्रसंहिता अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ विषयानुक्रमणिका शतरुद्रसंहिता - अध्यायः १ शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे. Tags : puransanskritshiv puranपुराणशिव पुराणसंस्कृत अध्यायः १ Translation - भाषांतर श्रीगणेशाय नमः ॥अथ तृतीया शतरुद्रसंहिता प्रारभ्यते ॥वन्दे महानन्दमनन्तलीलम्महेश्वरं सर्व्वविभुम्महान्तम् ॥गौरीप्रियं कार्तिकविघ्नराजसमुद्भवं शंकरमादिदेवम् ॥१॥शौनक उवाच ॥व्यासशिष्यमहाभाग सूत ज्ञानदयानिधे ॥वद शंभ्ववतारांश्च यैरकार्षीत्सतां शिवम् ॥१॥सूत उवाच ॥मुने शौनक सद्भक्त्या दत्तचित्तो जितेन्द्रियः ॥अवताराञ्छिवस्याहं वच्मि ते मुनये शृणु ॥२॥एतत्पृष्टः पुरा नन्दी शिवमूर्तिस्सतां गतिः ॥सनत्कुमारेण मुने तमुवाच शिवं स्मरन् ॥३॥नन्दीश्वर उवाच ॥असंख्याता हि कल्पेषु विभोः सर्व्वेश्वरस्य वै ॥अवतारास्तथापीह वच्म्यहं तान्यथामति ॥४॥एकोनविंशकः कल्पो विज्ञेयः श्वेत लोहितः ॥सद्योजातावतारस्तु प्रथमः परिकीर्तितः ॥५॥तस्मिंस्तत्परमं ब्रह्म ध्यायतो ब्रह्मणस्तथा ॥उत्पन्नस्तु शिखायुक्तः कुमारः श्वेतलोहितः ॥६॥तं दृष्ट्वा पुरुषं ब्रह्मा ब्रह्मरूपिणमीश्वरम् ॥ज्ञात्वा ध्यात्वा स हृदये ववन्दे प्रयताञ्जलिः ७ ॥सद्योजातं शिवं बुद्ध्वा जहर्ष भुवनेश्वरः ॥मुहुर्मुहुश्च सद्बुद्ध्या परं तं समचिन्तयत् ॥८॥ततोऽस्य ध्यायतः श्वेताः प्रादुर्भूता यशस्विनः ॥कुमाराः परविज्ञानपरब्रह्मस्वरूपिणः ॥९॥सुनन्दो नन्दनश्चैव विश्वनन्दोपनन्दनौ ॥शिष्यास्तस्य महात्मानो यैस्तद्ब्रह्म समावृतम् ॥१०॥सद्योजातश्च वै शम्भुर्ददौ ज्ञानं च वेधसे ॥सर्गशक्तिमपि प्रीत्या प्रसन्नः परमेश्वरः ॥११॥(इति सद्योजाताव तारः१) ६॥ततो विंशतिमः कल्पो रक्तो नाम प्रकीर्तितः ॥ब्रह्मा यत्र महातेजा रक्तवर्णमधारयत् ॥१२॥ध्यायतः पुत्रकामस्य प्रादुर्भू तो विधेस्सुतः ॥रक्तमाल्याम्बरधरो रक्ताक्षो रक्तभूषणः ॥१३॥स तं दृष्ट्वा महात्मानं कुमारं ध्यानमाश्रितः ॥वामदेवं शिवं ज्ञात्वा प्रणनाम कृतांजलिः ॥१४॥ततस्तस्य सुता ह्यासंश्चत्वारो रक्तवाससः ॥विरजाश्च विवाहश्च विशोको विश्वभावनः ॥१५॥वामदेवः स वै शम्भुर्ददौ ज्ञानं च वेधसे ॥सर्गशक्तिमपि प्रीत्या प्रसन्नः परमेश्वरः ॥१६॥(इति वामदेवावतारः २)एकविंशतिमः कल्पः पीतवासा इति स्मृतः ॥ब्रह्मा यत्र महाभागः पीतवासा बभूव ह ॥१७॥ध्यायतः पुत्रकामस्य विधेर्जातः कुमारकः ॥पीतवस्त्रादिक प्रौढो महातेजा महाभुजः ॥१८॥तं दृष्ट्वा ध्यानसंयुक्तं ज्ञात्वा तत्पुरुषं शिवम् ॥प्रणनाम ततो बुद्ध्या गायत्रीं शांकरीं विधिः ॥१९॥जपित्वा तु महादेवीं सर्वलोकनमस्कृताम् ॥प्रसन्नस्तु महादेवो ध्यानयुक्तेन चेतसा ॥२०॥ततोऽस्य पार्श्वतो दिव्याः प्रादुर्भूताः कुमारकाः ॥पीतवस्त्रा हि सकला योगमार्गप्रवर्तकाः ॥२१॥(इतितत्पुरुषावतारः ३)ततस्तस्मिन्गते कल्पे पीतवर्णे स्वयंभुवःपुनरन्यः प्रवृत्तस्तु कल्पो नाम्ना शिवस्तु स ॥२२॥एकार्णवे संव्यतीते दिव्यवर्षसहस्रके ॥स्रष्टुकामः प्रजा ब्रह्मा चिन्तयामास दुःखितः ॥२३॥ततोऽपश्यन्महातेजा प्रादुर्भूतं कुमारकम् ॥कृष्णवर्णं महावीर्यं दीप्यमानं स्वतेजसा ॥२४॥धृतकृष्णाम्बरोष्णीषं कृष्णयज्ञोपवीतिनम् ॥कृष्णेन मौलिनायुक्तं कृष्णस्नानानुलेपनम् ॥२५॥स तं दृष्ट्वा महात्मानमघोरं घोरविक्रमम् ॥ववन्दे देवदेवेशमद्भुतं कृष्णपिंगलम् ॥२६॥अघोरं तु ततो ब्रह्मा ब्रह्मरूपं व्यचिंतयत् ॥तुष्टाव वाग्भिरिष्टाभिर्भक्तवत्सलमव्ययम् ॥२७॥अथास्य पार्श्वतः कृष्णाः कृष्णस्नानानुलेपनाः ॥चत्वारस्तु महात्मानः संबभूवुः कुमारकाः ॥२८॥कृष्ण कृष्णशिखश्चैव कृष्णा स्यः कृष्णकण्ठधृक् ॥इति तेऽव्यक्तनामानः शिवरूपाः सुतेजसः ॥२९॥एवंभूता महात्मानो ब्रह्मणः सृष्टिहेतवे ॥योगं प्रवर्त्तया मासुर्घोराख्यं महदद्भुतम् ॥३० ॥(इत्यघोरावतारश्चतुर्थः ४)अथान्यो ब्रह्मणः कल्पः प्रावर्त्तत मुनीश्वराः ॥विश्वरूप इति ख्यातो नामतः परमाद्भुतः ॥३१॥ब्रह्मणः पुत्रकामस्य ध्यायतो मनसा शिवम् ॥प्रादुर्भूता महानादा विश्वरूपा सरस्वती ॥३२॥तथाविधः स भगवानीशानः परमेश्वरः ॥शुद्धस्फटिकसंकाशः सर्वाभरणभूषितः ॥३३॥तं दृष्ट्वा प्रणनामासौ ब्रह्मेशानमजं विभुम् ॥सर्वगं सर्वदं सर्वं सुरूपं रूपवर्जितम् ॥३४॥ईशानोऽपि तथादिश्य सन्मार्गं ब्रह्मणे विभुः ॥सशक्तिः कल्पयांचक्रे स बालांश्चतुरः शुभान् ॥३५॥जटीमुण्डी शिखण्डी च अर्द्धमुण्डश्च जज्ञिरे ॥योगेनादिश्य सद्धर्मं कृत्वा योगगतिं गताः ॥३६॥( इतीशानावतारः पञ्चमः ५)एवं संक्षेपतः प्रोक्तः सद्यादीनां समुद्भवः ॥सनत्कुमार सर्वज्ञ लोकानां हितकाम्यया ॥३७॥अथ तेषां महाप्राज्ञ व्यवहारं यथायथम् ॥त्रिलोकहितकारं हि सर्वं ब्रह्माण्डसंस्थितम् ॥३८॥ईशानः पुरुषो घोरो वामसंज्ञस्तथैव च ॥ब्रह्मसंज्ञो महेशस्य मूर्तयः पंच विश्रुताः ॥३९॥ईशानः शिवरूपश्च गरीयान्प्रथमः स्मृतः ॥भोक्तारं प्रकृतेः साक्षात्क्षेत्रज्ञमधितिष्ठति ॥४०॥शैवस्तत्पुरुषाख्यश्च स्वरूपो हि द्वितीयकः ॥गुणाश्रयात्मकं भोग्यं सर्वज्ञमधितिष्ठति ॥४१॥धर्माय स्वांगसंयुक्तं बुद्धितत्त्वं पिनाकिनः ॥अघोराख्यस्वरूपो यस्तिष्ठत्यंतस्तृतीयकः ॥४२॥वामदेवाह्वयो रूपश्चतुर्थः शङ्करस्य हि ॥अहंकृतेरधिष्ठानो बहुकार्यकरः सदा ॥४३॥ईशानाह्वस्वरूपो हि शंकरस्येश्वरः सदा ॥श्रोत्रस्य वचसश्चापि विभोर्व्योम्नस्तथैव च ॥४४॥त्वक्पाणिस्पर्शवायूनामीश्वरं रूपमैश्वरम् ॥पुरुषाख्यं विचारज्ञा मतिमन्तः प्रचक्षते ॥४५॥वपुषश्च रसस्यापि रूपस्याग्नेस्तथैव च ॥अघोराख्यमधिष्ठानं रूपमाहुर्मनीषिणः ॥४६॥रशनायाश्च पायोश्च रसस्यापां तथैव च ॥ईश्वरं वामदेवाख्यं स्वरूपं शांकरं स्मृतम् ॥४७॥प्राणस्य चैवोपस्थस्य गंधस्य च भुवस्तथा ॥सद्योजाताह्वयं रूपमीश्वरं शांकरं विदुः ॥४८॥इमे स्वरूपाः शंभोर्हि वन्दनीयाः प्रयत्नतः ॥श्रेयोर्थिभिर्नरैर्नित्यं श्रेयसामेकहेतवः ॥४९॥यः पठेच्छृणुयाद्वापि सद्यादीनां समुद्भवम् ॥स भुक्त्वा सकलान्कामान्प्रयाति परमां गतिम् ॥इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां शिवस्य पञ्चब्रह्मावतारवर्णनं नाम प्रथमोऽध्यायः ॥१॥ N/A References : N/A Last Updated : October 11, 2020 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP