शतरुद्रसंहिता - अध्यायः २४

शिव पुराणात भगवान शिवांच्या विविध रूपांचे, अवतारांचे, ज्योतिर्लिंगांचे, शिव भक्तांचे आणि भक्तिचे विस्तृत वर्णन केलेले आहे.


नन्दीश्वर उवाच ॥
पिप्पलादाख्यपरममवतारं महेशितुः ॥
शृणु प्राज्ञ महाप्रीत्या भक्तिवर्धनमुत्तमम् ॥१॥
यः पुरा गदितो विप्रो दधीचिर्मुनिसत्तमः ॥
महाशैवस्सुप्रतापी च्यावनिर्भृगुवंशजः ॥२॥
क्षुवेण सह संग्रामे येन विष्णुः पराजितः ॥
सनिर्जरोऽथ संशप्तो महेश्वरसहायिना ॥३॥
तस्य पत्नी महाभागा सुवर्चा नामनामतः ॥
महापतिव्रता साध्वी यया शप्ता दिवौकसः ॥४॥
तस्मात्तस्यां महादेवो नानालीलाविशारदः ॥
प्रादुर्बभूव तेजस्वी पिप्पलादेति नामतः ॥५॥
सूत उवाच ॥
इत्याकर्ण्य मुनिश्रेष्ठो नन्दीश्वरवचोऽद्भुतम् ॥
सनत्कुमारः प्रोवाच नतस्कन्धः कृताञ्जलिः ॥६॥
सनत्कुमार उवाच ॥
नन्दीश्वर महाप्राज्ञ साक्षाद्रुद्रस्वरूपधृक् ॥
धन्यस्त्वं सद्गुरुस्तात श्रावितेयं कथाद्भुता ॥७॥
क्षुवेण सह संग्रामे श्रुतो विष्णुपुरा जयः ॥
ब्रह्मणा मे पुरा तात तच्छापश्च शिलादज ॥८॥
अधुना श्रोतुमिच्छामि देवशापं सुवर्चया ॥
दत्तं पश्चात्पिप्पलादचरितं मङ्गलायनम् ॥९॥
सूत उवाच ॥
इति श्रुत्वाथ शैलादिर्विधिपुत्रवचश्शुभम् ॥
प्रत्युवाच प्रसन्नात्मा स्मृत्वा शिवपदाम्बुजम् ॥१०॥
नन्दीश्वर उवाच ॥
एकदा निर्जरास्सर्वे वासवाद्या मुनीश्वर ॥
वृत्रासुरसहायैश्च दैत्यैरासन्पराजिताः ॥११॥
स्वानि स्वानि वरास्त्रा णि दधीचस्याश्रमेऽखिलाः ॥
निक्षिप्य सहसा सद्योऽभवन्देवाः पराजिताः ॥१२॥
तदा सर्वे सुरास्सेन्द्रा वध्यमानास्तथर्षयः ॥
ब्रह्मलोकगताश्शीघ्रं प्रोचुः स्वं व्यसनं च तत् ॥१३॥
तच्छ्रुत्वा देववचनं ब्रह्मा लोकपितामहः ॥
सर्वं शशंस तत्त्वेन त्वष्टुश्चैव चिकीर्षितम् ॥१४॥
भवद्वधार्थं जनितस्त्वष्ट्रायं तपसा सुराः ॥
वृत्रो नाम महातेजाः सर्वदैत्याधिपो महान् ॥१५॥
अथ प्रयत्नः क्रियतां भवेदस्य वधो यथा ॥
तत्रोपायं शृणु प्राज्ञ धर्महेतोर्वदामि ते ॥१६॥
महामुनिर्दधीचिर्यस्स तपस्वी जितेन्द्रियः ॥
लेभे शिवं समाराध्य वज्रास्थित्ववरम्पुरा ॥१७॥
तस्यास्थीन्येव याचध्वं स दास्यति न संशय ॥
निर्माय तैर्दण्डवज्रं वृत्रं जहि न संशयः ॥१८॥
नन्दीश्वर उवाच ॥
तच्छ्रुत्वा ब्रह्मवचनं शक्रो गुरुसमन्वितः ॥
आगच्छत्सामरः सद्यो दधीच्याश्रममुत्तमम् ॥१९॥
दृष्ट्वा तत्र मुनिं शक्रः सुवर्चान्वितमादरात् ॥
ननाम साञ्जलिर्नम्रः सगुरुः सामरश्च तम् ॥२०॥
तदभिप्रायमाज्ञाय स मुनिर्बुधसत्तमः ॥
स्वपत्नीं प्रेषयामास सुवर्चां स्वाश्रमान्तरम् ॥२१॥
ततस्स देवराजश्च सामरः स्वार्थसाधकः ॥
अर्थशास्त्रपरो भूत्वा मुनीशं वाक्यमब्रवीत् ॥२२॥
शक्र उवाच ॥
त्वष्ट्रा विप्रकृताः सर्वे वयन्देवास्तथर्षयः ॥
शरण्यं त्वां महाशैवं दातारं शरणं गताः ॥२३॥
स्वास्थीनि देहि नो विप्र महावज्रमयानि हि ॥
अस्थ्ना ते स्वपविं कृत्वा हनिष्यामि सुरद्रुहम् ॥२४॥
इत्युक्तस्तेन स मुनिः परोपकरणे रतः ॥
ध्यात्वा शिवं स्वनाथं हि विससर्ज कलेवरम् ॥२५॥
ब्रह्मलोकं गतस्सद्यस्स मुनिर्ध्वस्तबन्धनः ॥
पुष्पवृष्टिरभूत्तत्र सर्वे विस्मयमागताः ॥२६॥
अथ गां सुरभिं शक्र आहूयाशु ह्यलेहयत् ॥
अस्त्रनिर्मितये त्वाष्ट्रं निदि देश तदस्थिभिः ॥२७॥
विश्वकर्मा तदाज्ञप्तश्चक्लृपेऽस्त्राणि कृत्स्नशः ॥
तदस्थिभिर्वज्रमयस्सुदृढैश्शिववर्चसा ॥२८॥
वंशोद्भवं वज्रं शरो ब्रह्मशिरस्तथा ॥
अन्यास्थिभिर्बहूनि स्वपराण्यस्त्राणि निर्ममे ॥२९॥
तमिन्द्रो वज्रमुद्यम्य वर्द्धितः शिववर्चसा ॥
वृत्रमभ्यद्रवत्क्रुद्धो मुने रुद्र इवान्तकम् ॥३०॥
ततः शक्रस्सुसन्नद्धस्तेन वज्रेण स द्रुतम् ॥
उच्चकर्त शिरो वार्त्रं गिरिशृंगमिवौजसा ॥३१॥
तदा समुत्सवस्तात बभूव त्रिदिवौकसाम् ॥
तुष्टुवुर्निर्जराश्शक्रम्पेतुः कुसुमवृष्टयः ॥३२॥
इति ते कथितन्तात प्रसंगाच्चरि तन्त्विदम् ॥
पिप्पलादावतारम्भे शृणु शम्भोर्महादरात् ॥३३॥
सुवर्चा सा मुनेः पत्नी दधीचस्य महात्मनः ॥
ययौ स्वमाश्रमाभ्यन्तस्तदाज्ञप्ता पतिव्रता ॥३४॥
आगत्य तत्र सा दृष्ट्वा न पतिं स्वन्तपस्विनी ॥
गृहकार्यं च सा कृत्वाखिलम्पतिनिदेशतः ॥३५॥
आजगाम पुनस्तत्र पश्यन्ती बह्वशोभनम् ॥
देवांश्च तान्मुनिश्रेष्ठ सुवर्चा विस्मिताभवत् ॥३६॥
ज्ञात्वा च तत्सर्वमिदं सुराणां कृत्यं तदानीञ्च चुकोप साध्वी ॥
ददौ तदा शापमतीव रुष्टा तेषां सुवर्चा ऋषिवर्यभार्या ॥३७॥
सुवर्चोवाच ॥
अहो सुरा द्रुष्टतराश्च सर्वे स्वकार्यदक्षा ह्यबुधाश्च लुब्धाः ॥
तस्माच्च सर्वे पशवो भवन्तु सेन्द्राश्च मेऽद्यप्रभृतीत्युवाच ॥३८॥
एवं शापन्ददौ तेषां सुराणां सः तपस्विनी ॥
सशक्राणां च सर्वेषां सुवर्चा मुनिकामिनी ॥३९॥
अनुगन्तुम्पतेर्लोकमथेच्छत्सा पतिव्रता ॥
चितां चक्र समेधोभिः सुपवित्रैर्मनस्विनी ॥४०॥
ततो नभोगिरा प्राह सुवर्चान्ताम्मुनिप्रियाम् ॥
आश्वासयन्ती गिरिशप्रेरिता सुखदायिनी ॥४१॥
आकाशवाण्युवाच ॥
साहसं न कुरु प्राज्ञे शृणु मे परमं वचः ॥
मुनितेजस्त्वदुदरे तदुत्पादय यत्नतः ॥४२॥
ततः स्वाभीष्टचरणन्देवि कर्तुन्त्वमर्हसि ॥
सगर्भा न दहेद्गात्रमिति ब्रह्मनिदेशनम् ॥४३॥
नन्दीश्वर उवाच ॥
इत्युक्त्वा सा नभोवाणी विरराम मुनीश्वर ॥
तां श्रुत्वा सा मुनेः पत्नी विस्मिताभूत्क्षणं च सा ॥४४॥
सुवर्चा सा महासाध्वी पतिलोकमभीप्सती ॥
उपविश्याश्मना भूयः सोदरं विददार ह ॥४५॥
निर्गतो जठरात्तस्या गर्भो मुनिवरस्य सः ॥
महादिव्यतनुर्दीप्तो भासयंश्च दिशोदश ॥४६॥
साक्षाद्रुद्रावतारोऽसौ दधीच वरतेजसः ॥
प्रादुर्भूतस्स्वयन्तात स्वलीलाकरणे क्षमः ॥४७॥
तन्दृष्ट्वा स्वसुतन्दिव्यं स्वरूपम्मुनिकामिनी ॥
सुवर्चाज्ञाय मनसा साक्षाद्रुद्रावतारकम् ॥४८॥
प्रहृष्टाभून्महासाध्वी प्रणम्याशु नुनाव सा ॥
स्वहृदि स्थापयामास तत्स्वरूपम्मुनीश्वर ॥४९॥
सुवर्चा तनयं तं च प्रहस्य विमलेक्षणा ॥
जननी प्राह सुप्रीत्या पतिलोकमभीप्सती ॥५०॥
सुवर्चोवाच ॥
हे तात परमेशान चिरन्तिष्ठास्य सन्निधौ ॥
अश्वत्थस्य महाभाग सर्वेषां सुखदो भवेः ॥५१॥
मामाज्ञापय सुप्रीत्या पतिलोकाय चाधुना ॥
तत्रस्थाहं च पतिना त्वां ध्याये रुद्ररूपिणम् ॥५२॥
नन्दीश्वर उवाच ॥
इत्येवं सा बभाषेऽथ सुवर्चा तनयम्प्रति ॥
पतिमन्वगमत्साध्वी परमेण समाधिना ॥९३॥
एवन्दधीचपत्नी सा पतिना संगता मुने ॥
शिवलोकं समासाद्य सिषेवे शङ्करम्मुदा ॥५४॥
एतस्मिन्नन्तरे देवास्सेन्द्राश्च मुनिभिस्सह ॥
तत्राजग्मुस्त्वरा तात आहूता इव हर्षिताः ॥५५॥
हरिर्ब्रह्मा च सुप्रीत्यावतीर्णं शंकरं भुवि ॥
सुवर्चायां दधीचाद्वा ययतुस्स्वगणैस्सह ॥५६॥
तत्र दृष्ट्वावतीर्णन्तं मुनिपुत्रत्वमागतम् ॥
रुद्रं सर्वे प्रणेमुश्च तुष्टुवुर्बद्धपाणयः ॥५७॥
तदोत्सवो महानासीद्देवानां मुनिसत्तम ॥
नेदुर्दुन्दुभयस्तत्र नर्तक्यो ननृतुर्मुदा ॥५८॥
जगुर्गन्धर्वपुत्राश्च किन्नरा वाद्यवादकाः ॥
वादयामासुरमराः पुष्प वृष्टिं च चक्रिरे ॥५९॥
पिप्पलस्य शर्वपितुर्विलसन्तं सुतं च तम् ॥
संस्कृत्य विधिवत्सर्वे विष्ण्वाद्यास्तुष्टुवुः पुनः ॥६०॥
पिप्पलादेति तन्नाम चक्रे ब्रह्मा प्रसन्नधीः ॥
प्रसन्नो भव देवेश इत्यूचे हरिणा सुरैः ॥६१॥
इत्युक्त्वा तमनुज्ञाय ब्रह्मा विष्णुस्सुरास्तथा ॥
स्वंस्वं धाम ययुस्सर्वे विधाय च महोत्सवम् ॥६२॥
अथ रुद्रः पिप्पलादोऽश्वत्थमूले महाप्रभुः ॥
तताप सुचिरं कालं लोकानां हितकाम्यया ॥६३॥
इत्थं सुतपतस्तस्य पिप्पलादस्य सम्मुखे ॥
महाकालो व्यतीयाय लोकचर्यानुसारिणः ॥६४॥
इति श्रीशिवमहापुराणे तृतीयायां शतरुद्रसंहितायां पिप्पलादावतारवर्णनं नाम चतुर्विशोऽध्यायः ॥२४॥

N/A

References : N/A
Last Updated : October 11, 2020

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP