मराठी मुख्य सूची|स्तोत्रे|शिव स्तोत्रे| गलद्दानगण्डं मिलद्भृङ्गषण... शिव स्तोत्रे चमकाध्यायः श्री रुद्राध्याय ॐ नागेन्द्रहाराय त्रिलोचन... शिवकवच श्री शंभो मयि करुणाशिशिरा... क्षीराम्भोनिधिमन्थनोद्भवव... ॥श्रीगुरुभ्यो नमः॥ विश्वे... नमस्ते रूद्र मन्यव उतोत इ... साम्बो नः कुलदैवतं पशुपते... दक्षिणामूर्तिस्तोत्र सूतसंहिता सदञ्चित मुदञ्चित निकुञ्चि... प्रपन्नजनसन्दोह-प्रत्यह-ध... ॥ध्यानम् ॥ वामे भूधरजा पु... श्री सदाशिवब्रह्मेन्द्रवि... वस्तां पिशङ्गं वसनं दिशो ... नागेन्द्रहाराय त्रिलोचनाय... सदा सद्योजातस्मितमधुरसास्... श्री गणेशाय नमः । जय देव ... स्कन्दः - हृष्टां देवीं त... मार्कण्डेयप्रोक्तं नरसिंह... नरसिंहपुरने मार्कण्डेय उ... विश्वं दर्पणदृश्यमाननगरीत... ॥श्रीमद् अप्पय्यदीक्षितेन... गणेशं शारदां शंभुं देवीं ... कृष्णार्जुनावूचतुः । नमो ... हरिः ॐ नमोऽत्वनन्ताय सहस्... अतिभीषणकटुभाषणयमकिङ्किरपट... शिवसूत्र शाम्भवोपाय चैतन... ॐ नमः शिवाय शर्वाय देवदेव... ॐ नमः शिवाय । निखिलभुवनजन... गौरीनाथं विश्वनाथं शरण्यं... जय शङ्कर पार्वतीपते मृड श... गले कलितकालिमः प्रकटितेन्... अथर्वशिरोपनिषत् नमः शिवाय भर्गाय लीलाशबरर... शिव हरे शिव राम सखे प्रभो... जय शंकर पार्वतीपते मृडशम्... देयासुर्मूर्ध्नि राजत्सरस... कल्याणं नो विधत्तां कटकतट... नमः शिवाभ्यां नवयौवनाभ्या... पशूनांपतिं पापनाशं परेशं ... जगत्गुरो नमस्तुभ्यं शिवाय... विश्वेश्वराय नरकार्णवतारण... अतिभीषणकटुभाषणयमकिंकरपटली... कृपासमुद्रं सुमुखं त्रिने... स्फटिकप्रतिभटकान्त विरचित... अद्य मे सफलं जन्म चाद्य म... स्वप्रकाशशिवरूपसद्गुरुं न... नमः शिवाय भर्गाय लीलाशबरर... निधनपतये नमः । निधनपतान्त... अस्य श्री किरातवराही स्तो... गौरीपते जय गौरीपते जय । ग... प्रालेयाचलमिदुकुन्दधवलं ग... वेदशास्त्रपुराणेतिहासकाव्... श्रीमदात्मने गुणैकसिन्धवे... १ श्रीनन्दिकेश्वर प्रार्थ... शंभो शंकर साम्ब शंकर हर ह... जय शंकर पार्वतीपते मृडशम्... कनकसभागत काञ्चनविग्रह काम... देयासुर्मूर्ध्नि राजत्सरस... कल्याणं नो विधत्तां कटकतट... महिम्नः पारं ते परमविदुषो... नमः शिवाभ्यां नवयौवनाभ्या... पशूनांपतिं पापनाशं परेशं ... सदञ्चितमुदञ्चित निकुञ्चित... गलद्दानगण्डं मिलद्भृङ्गषण... जगत्गुरो नमस्तुभ्यं शिवाय... गौरीनाथं विश्वनाथं शरण्यं... विश्वेश्वराय नरकार्णवतारण... ओङ्कारं बिन्दुसंयुक्तं नि... आदौ कर्मप्रसन्ङ्गात् कलयत... अतिभीषणकटुभाषणयमकिंकरपटली... सप्तार्णवपरिक्षिप्तां द्व... अद्य मे सफलं जन्म चाद्य म... चरितं देवदेवस्य महादेवस्य... स्फटिकप्रतिभटकान्त विरचित... ध्यायेन्निरामयं वस्तु सर्... निखिलभुवनजन्मस्थेमभङ्गप्र... रत्नैः कल्पितमासनं हिमजलै... शिव स्तोत्रे महिमा अथ शिवस्तोत्राणि शिवकवचम् शिवमानसपूजा शिवमहिम्न: स्तोत्रम् शिवभुजंगप्रयातस्तोत्रम् शिवषडाक्षरस्तोत्रम् शिवापराधक्षमापनस्तोत्रम् रावणकृतशिवतांडवस्तोत्रम् द्वादशज्योतिर्लिंङ्गस्तोत्रम् शिवस्तुति: पशुपत्यष्टकम् लिंगाष्टकम् वेदसारशिवस्तव: विश्वनाथाष्टकम् शिवनामावल्यष्टकम् प्रदोषस्तोत्राष्टकम् निर्वाणदशकम् चन्द्रशेखराष्टकम् कालभैरवाष्टकम् असितकृतशिवस्तोत्रम् हिमालयकृतस्तोत्रम् शिवाष्टकम् उमामहेश्वरस्तोत्रम् दारिद्र्य दहन शिवस्तोत्रं वेदसारशिवस्तोत्रम् शम्भुस्तोत्रम् शिवपञ्चाक्षरनक्षत्रमालास्तोत्रम् शिवप्रातःस्मरणस्तोत्रम् शिवरक्षास्तोत्रं शिवमहिमस्तोत्रम् शिवाष्टोत्तरशतनामस्तोत्रम् । तत्त्वार्यास्तवः दक्षिणामूर्ति स्तोत्रम् श्री दक्षिणामूर्ति स्तोत्रम् द्वादश ज्योतिर्लिङ्गानि नटराजस्तोत्र महामृत्युञ्जयस्तोत्रम् मार्गबंधु स्तोत्रं श्रीमृत्युञ्जयमानसिकपूजास्तोत्रम् मृतसञ्जीवन स्तोत्रम् श्री रुद्रप्रश्नः चमकप्रश्नः श्री रुद्रकवचम् सांब सदाशिव अक्षरमाला शिव कवचम् शिवमीडेस्तवरत्नम् शिवरक्षास्तोत्रं शिवषडक्षर स्तोत्रम् शिवसूत्र शिवानन्द लहरी ईश गिरीश नरेश परेश महेश ब... उत्तिष्ट भैरवस्वामिन् काश... हर हर महादेव शिवभुजङ्गम् - गलद्दानगण्डं मिलद्भृङ्गषण... शिव हि महान शक्ति असून त्रिमूर्तींपैकी एक आहेत. विश्वाची निर्मीती ब्रह्मदेवाने केली असून नाश करण्याचे कार्य शिवाचे आहे. शिवाचे वास्तव्य कैलास पर्वतावर आहे.Shiva is one of the gods of the Trinity. He is said to be the 'god of destruction'. Shiva is married to the Goddess Parvati (Uma). Parvati represents Prakriti. Lord Shiva sits in a meditative pose on Mount Kailash against, Himalayas. Tags : godshankarshivstotraदेवताशंकरशिवस्तोत्र शिवभुजङ्गम् (श्री शंकराचार्यकृतं) Translation - भाषांतर गलद्दानगण्डं मिलद्भृङ्गषण्डंचलच्चारुशुण्डं जगत्त्राणशौण्डम् ।कनद्दन्तकाण्डंविपद्भङ्गचण्डंशिवप्रेमपिण्डं भजे वक्रतुण्डम् ॥१॥अनाद्यन्तमाद्यं परं तत्वमर्थंचिदाकारमेकं तुरीयं त्वमेयं ।हरिब्रह्ममृग्यं परब्रह्मरूपंमनोवागतीतं महःशैवमीडे ॥२॥स्वशक्त्यादिशक्त्यन्तसिंहासनस्थंमनोहारिसर्वाङ्गरत्नोरुभूषं ।जटाहीन्दुगंगास्थिशम्याकमौलिंपराशक्तिमित्रं नुमः पञ्चवक्त्रम् ॥३॥शिवेशानतत्पूरुषाघोरवामादिभिःपञ्चभिर्हृन्मुखैः षड्भिरंगैः ।अनौपम्यषड्त्रिंशतं तत्वविद्यामतीतंपरं त्वां कथं वेत्ति को वा महेश ॥४॥प्रवालप्रवाहप्रभाशोणमर्धंमरुत्वन्मणिश्रीमहःश्याममर्धम् ।गुणस्यूतमेतद्वपुः शैवमन्तःस्मरामि स्मरापत्तिसंपत्तिहेतोः ॥५॥स्वसेवासमायात-देवासुरेन्द्रा-नमन्मौलि-मन्दारमालाभिषक्तं ।नमस्यामि शंभो पदांभोरुहं तेभवांभोधिपोतं भवानीविभाव्यम् ॥६॥जगन्नाथ मन्नाथ गौरीसनाथप्रपन्नानुकम्पिन्विपन्नार्तिहारिन् ।महःस्तोममूर्ते समस्तैकबन्धोनमस्ते नमस्ते पुनस्ते नमोस्तु ॥७॥विरूपाक्ष विश्वेश विश्वादिदेवत्रयीमूल शंभो शिव त्रयंबक त्वं ।प्रसीद स्मर त्राहि पश्यावमुक्त्यैक्षमां प्राप्नुहि त्र्यक्ष मां रक्ष मोदात् ॥८॥महादेव देवेश देवादिदेवस्मरारे पुरारे यमारे हरेति ।ब्रुवाणः स्मरिष्यामि भक्त्या भवन्तंततो मे दयाशील देव प्रसीद ॥९॥त्वदन्यः शरण्यः प्रपन्नस्य नेतिप्रसीद स्मरन्नेव हन्यास्तु दैन्यं ।न चेत्ते भवद्भक्तवात्सल्यहानि-स्ततो मे दयालो सदा सन्निधेहि ॥१०॥अयं दानकालस्त्वहं दानपात्रंभवानेव दाता त्वदन्यं न याचे ।भवद्भक्तिमेव स्थिरां देहि मह्यंकृपाशील शंभॊ कृतार्थॊऽस्मि तस्मात् ॥११॥पशुं वेत्सि चेन्मां तमेवाधिरूढःकलंकीति वा मूर्ध्नि धत्से तमेव ।द्विजिह्वः पुनः सोऽपि ते कण्ठभूषात्वदङ्गीकृताः शर्व सर्वेऽपि धन्याः ॥१२॥न शक्नोमि कर्तुं परद्रोहलेशंकथं प्रीयसे त्वं न जाने गिरीश ।तथा हि प्रसन्नोऽसि कस्यापि कान्ता-सुतद्रोहिणो वा पितृद्रोहिणो वा ॥१३॥स्तुतिं ध्यानमर्चां यथावद्विधातुंभजन्नप्यजानन्महेशावलंबे ।त्रसन्तं सुतं त्रातुमग्रे मृकण्डो-र्यमप्राणनिर्वापणं त्वत्पदाब्जम् ॥१४॥शिरोदृष्टिहृद्रोगशूलप्रमेह-ज्वरार्शोजरायक्ष्महिक्काविषार्तान् ।त्वमाद्यो भिषग्भेषजं भस्म शंभोत्वमुल्लाघयास्मान्वपुर्लाघवाय ॥१५॥दरिद्रोऽस्म्यभद्रोऽस्मि भग्नोऽस्मि दूयेविषण्णोऽस्मि सन्नोऽस्मि खिन्नोऽस्मि चाहं ।भवान्प्राणिनामन्तरात्माऽसि शंभो ममाधिं न वेत्सि प्रभो रक्ष मां त्वं ॥१६॥त्वदक्ष्णोः कटाक्षः पतेत् त्र्यक्ष यत्रक्षणं क्ष्मा च लक्ष्मीः स्वयं तं वृणाते ।किरीटस्फुरच्चामरच्छत्रमालाकलापीगजक्षौमभूषाविशेषैः ॥१७॥भवान्यै भवायापि मात्रे च पित्रेमृडान्यै मृडायाप्यघघ्न्यै मखघ्ने ।शिवाङ्ग्यै शिवाङ्गाय कुर्मः शिवायैशिवायांबिकायै नमस्त्र्यंबकाय ॥१८॥भवद्गौरवं मल्लघुत्वं विदित्वाप्रभो रक्ष कारुण्यदृष्ट्यानुगं माम् ।शिवात्मानुभावस्तुतावक्षमोऽहंस्वशक्त्या कृतं मेऽपराधं क्षमस्व ॥१९॥यदा कर्णरन्ध्रं व्रजेत्कालवाह-द्विषत्कण्ठघण्टाघणत्कारनादः ।वृषाधीशमारुह्य देवौपवाह्यंतदा वत्स मा भीरिति प्रीणय त्वं ॥२०॥यदा दारुणाभाषणा भीषणा मेभविष्यन्त्युपान्ते कृतान्तस्य दूताः ।तदा मन्मनस्त्वत्पदांभोरुहस्थंकथं निश्चलं स्यान्नमस्तेऽस्तु शंभो ॥२१॥यदा दुर्निवारव्यथोऽहं शयानोलुठन्निःश्वसन्निःसृताव्यक्तवाणिः ।तदा जह्नुकन्याजलालंकृतं तेजटामण्डलं मन्मनोमन्दिरं स्यात् ॥२२॥यदा पुत्रमित्रादयो मत्सकाशेरुदन्त्यस्य हा कीदृशीयं दशेति ।तदा देवदेवेश गौरीश शंभोनमस्ते शिवायेत्यजस्रं ब्रवाणि ॥२३॥यदा पश्यतां मामसौ वेत्ति नास्मा-नयं श्वास एवेति वाचो भवेयुः ।तदा भूतिभूषं भुजङ्गावनद्धंपुरारे भवन्तं स्फुटं भावयेयम् ॥२४॥यदा यातनादेहसंदेहवाहीभवेदात्मदेहे न मोहो महान् मे ।तदाऽऽकाशशीतांशुसंकाशमीशस्मरारे वपुस्ते नमस्ते स्मराणि ॥२५॥यदापारमच्छायमस्थानमद्भि-र्जनैर्वा विहीनं गमिष्यामि मार्गं ।तदा तं निरुन्धन् कृतान्तस्य मार्गंमहादेव मह्यं मनोज्ञं प्रयच्छ ॥२६॥यदा रौरवादि स्मरन्नेव भीत्याव्रजाम्यत्र मोहं महादेव घोरं ।तदा मामहो नाथ कस्तारयिष्य-त्यनाथं पराधीनमर्धेन्दुमौले ॥२७॥यदा श्वेतपत्रायतालङ्घ्यशक्तेःकृतान्ताद्भयं भक्तवात्सल्यभावात् ।तदा पाहि मां पार्वतीवल्लभान्यंन पश्यामि पातारमेतादृशं मे ॥२८॥इदानीमिदानीं मृतिर्मे भवित्री-त्यहो संततं चिन्तया पीडितोऽस्मि ।कथं नाम माभून्मृतौ भीतिरेषानमस्ते गतीनां गते नीलकण्ठ ॥२९॥अमर्यादमेवाहमाबालवृद्धंहरन्तं कृतान्तं समीक्ष्यास्मि भीतः ।मृतौ तावकाङ्घ्र्यब्ज-दिव्यप्रसादाद्-भवानीपते निर्भयोऽहं भवानि ॥३०॥जराजन्मगर्भाधिवासादि दुःखा-न्यसह्यानि जह्यां जगन्नाथ देव ।भवन्तं विना मे गतिर्नैव शंभोदयालो न जागर्ति किं वा दया ते ॥३१॥शिवायेति शब्दो नमः पूर्व एषस्मरन्मुक्तिकृन्मृत्युहा तत्ववाची ।महेशान मा गान्मनस्तो वचस्तःसदा मह्यमेतत् प्रदानं प्रयच्छ ॥३२॥त्वमप्यंब मां पश्य शीतांशुमौलि-प्रियेभेषजं त्वं भवव्याधिशान्तौ ।बहुक्लेशभाजं पदांभोजपोतेभवाब्धौ निमग्नं नयस्वाद्य पारं ॥३३॥अनुद्यल्ललाटाक्षि-वह्निप्ररोहै-रवामस्फुरच्चारु-वामोरुशोभैः ।अनंगभ्रमद्भोगिभूषाविशेषै-रचन्द्रार्धचूडैरलं दैवतैर्नः ॥३४॥अकण्ठेकलङ्कादनङ्गे भुजङ्गा-दपाणौ कपालादफालेनलाक्षात् ।अमौलौशशाङ्कादवामेकलत्रा-दहं देवमन्यं न मन्ये न मन्ये ॥३५॥महादेव शंभो गिरीश त्रिशूलिं-स्त्वयीदं समस्तं विभातीति यस्मात् ।शिवादन्यथा दैवतं नाभिजानेशिवोऽहं शिवोऽहं शिवोऽहं शिवोऽहम् ॥३६॥यतोऽजायतेदं प्रपञ्चं विचित्रंस्थितिं याति यस्मिन् यदेकान्तमन्ते ।स कर्मादिहीनः स्वयंज्योतिरात्माशिवोऽहं शिवोऽहं शिवोऽहं शिवोऽहम् ॥३७॥किरीटेनिशेशो ललाटे हुताशोभुजे भोगिराजो गले कालिमा च ।तनौ कामिनी यस्य तत्तुल्यदेवंन जाने न जाने न जाने न जाने ॥३८॥अनेन स्तवेनादरादंबिकेशंपरां भक्तिमासाद्य यं ये नमन्ति ।मृतौ निर्भयास्ते जनास्तं भजन्तेहृदंभोजमध्ये सदासीनमीशम् ॥३९॥भुजङ्गप्रियाकल्प शंभो मयैवंभुजङ्गप्रयातेन वृत्तेन क्लिप्तं ।नरः स्तोत्रमेतत् पठित्वोरुभक्त्यासुपुत्रायुरारोग्यमैश्वर्यमेति ॥४०॥ N/A References : N/A Last Updated : January 01, 2019 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP