संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|श्रीपादुकासहस्रम्|
प्रकीर्णकपद्धतिः

श्रीपादुकासहस्रम् - प्रकीर्णकपद्धतिः

श्रीमद्वेदान्तदेशिक विरचितम्


विधौ प्रवृत्ते यद्द्रव्यं गुणसंस्कारनामभिः ।
श्रेयःसाधनमाम्नातं तत्पदत्रं तथाऽस्तु मे ॥८३१॥
मधुरस्मितरम्यमौक्तिकश्रीर्विशसि व्यञ्जितमञ्जुलप्रणादा ।
सह रङ्गनृपेण वासगेहं तनुमध्या मणिपादुके त्वमेका ॥८३२॥
शुभशब्दविशेषसंश्रिताभि -
र्भवती शौरिपदावनि क्रियाभिः ।
अनुतिष्ठति नूनमाश्रिताना -
मखिलोपद्रवशान्तिकं नवीनम् ॥८३३॥
मणिभिर्मधुवैरिपादरक्षे
भवती विक्रमणे प्रवर्धमाना ।
युगपद्भवतां युगान्तकाले
दिवि लक्ष्मीं विदधे दिवाकराणाम् ॥८३४॥
मञ्जुस्वनां मणिमयूखकलापिनीं त्वां
दृष्ट्वा कपर्दसविधे विनिवेश्यमानाम् ।
गूढीभवन्ति गरुदध्वजपादरक्षे
फूत्कारवन्ति पुरवैरिविभूषणानि ॥८३५॥
मध्ये परिस्फुरितनिर्मल चन्द्रतारा
प्रान्तेषु रत्ननिकरेण विचित्रवर्णा ।
पुष्णासि रङ्गनृपतेर्मणिपादुके त्वं
चक्षुर्वशीकरणयन्त्रविशेषशङ्काम् ॥८३६॥
पादेन रङ्गनृपतेः परिभुज्यमाना
मुक्ताफलप्रकटितश्रमवारिबिन्दुः ।
उत्कण्टका मणिमयूखशतैरुदग्रैः
सीत्कारिणीव चरणावनि शिञ्जितैस्त्वम् ॥८३७॥
दूरप्रसारितकरा निनदैर्मणीना -
मायाति दैत्यरिपुरित्यसकृद्ब्रुवाणा ।
दैत्येश्वरानभिमुखान् जनितानुकम्पा
मन्ये निवारयसि माधवपादुके त्वम् ॥८३८॥
अच्छेद्यरश्मिनियतक्रमरत्नधुर्या
निष्कम्पकूबरनिभं दधती प्रतीकम् ।
क्रीडागतेषु मधुजित्पदपद्मलक्ष्म्याः
कर्णीरथस्त्वमसि काञ्चनपादरक्षे ॥८३९॥
मञ्जुस्वना मरतकोपलमेचकाङ्गी
शोणाश्मतुण्डरुचिरा मणिपादुके त्वम् ।
पद्माविहाररसिकस्य परस्य यूनः
पर्यायतां भजसि पञ्जरशारिकाणाम् ॥८४०॥
शोणोपलैश्चरणरक्षिणि संश्रितेषु
च्छायात्मना मरतकेषु तवावगाढः ।
अन्वेति शौरिरभितः फलपङ्क्तिशोभि -
न्यात्मानमेव शयितं वटपत्रमध्ये ॥८४१॥
स्फीतं पदावनि तव स्नपनार्द्रमूर्ते -
रासागरं ततमभून्मणिरश्मिजालम् ।
लीलोचितं रघुसुतस्य शरव्यमासन्
यातूनि यस्य वलयेन विवेष्टितानि ॥८४२॥
रत्नांशुभिस्तव तदा मणिपादरक्षे
संरज्यमानवपुषां रजनेमुखेषु ।
आकस्मिकागतमदर्शिं महौषधित्वं
साकेतपत्तनसमीपरुहां द्रुमाणाम् ॥८४३॥
रामे वनं दशरथे च दिवं प्रयाते
निर्धूतविश्वतिमिरा सहसा बभूव ।
भूयिष्ठरत्नकिरणा भवती रघूणां
भूयः प्रतापतपनोदयपूर्वसन्ध्या ॥८४४॥
प्रीतेन देवि विभुना प्रतिपादनीयां
पादावनि प्रतिपदोदितमञ्जुनादाम् ।
विद्यां विदुर्भगवतः प्रतिपादनार्हाः
पारायणागमपयोनिधिपारगास्त्वाम् ॥८४५॥
मुक्तांशुकेसरवती स्थिरवज्रदंष्ट्रा
प्रह्लादसम्पदनुरूपहिरण्यभेदा ।
मूर्तिः श्रियो भवसि माधवपादरक्षे
नाथस्य नूनमुचिता नरसिंहमूर्तेः ॥८४६॥
सम्भावयन्ति कवयश्चतुरप्रचारां
मञ्जुस्वनां महितमौक्तिकपत्रलाङ्गीम् ।
स्वाधीनसर्वभुवनां मणिपादुके त्वां
रङ्गाधिराजपदपङ्कजराजहंसीम् ॥८४७॥
मुक्तामयूखरुचिरां मणिपादरक्षे
मञ्जुस्वनां मणिभिराहितवर्णवर्गाम् ।
मन्ये मुकुन्दपदपद्ममधुव्रतीना -
मन्यामकृत्रिमगिरामधिदेवतां त्वाम् ॥८४८॥
आसाद्य केकयसुतावरदानमूलं
कालं प्रदोषमनिरीक्ष्यरमासहायम् ।
मञ्जुप्रणादरहिता मणिपादरक्षे
मौनव्रतं किमपि नूनमवर्तयस्त्वम् ॥८४९॥
वैडूर्यरम्यसलिला महिता मरुद्भि -
श्छायावती मरकतोपलरश्मिजालैः ।
अश्रान्तमोहपदवीपथिकस्य जन्तो -
र्विश्रान्तिभूमिरिव शौरिपदावनि त्वम् ॥८५०॥
आद्यो रघुक्षितिभुजामभिषेकदीप्तै -
राप्यायितस्तव पदावनि रश्मिजालैः ।
मन्दीचकार तपनो व्यपनीतभीति -
र्मन्दोदरीवदनचन्द्रमसो मयूखान् ॥८५१॥
मान्या समस्तजगतां मणिभङ्गनीला
पादे निसर्गघटिता मणिपादुके त्वम् ।
अन्तःपुरेषु ललितानि गतागतानि
च्छायेव रङ्गनृपतेरनुवर्तसे त्वम् ॥८५२॥
रङ्गाधिराजपदपङ्कजमाश्रयन्ती
हैमी स्वयं परिगता हरिनीलरत्नैः ।
सम्भाव्यसे सुकृतिभिर्मणिपादुके त्वं
सामान्यमूर्तिरिव सिन्धुसुताधरण्योः ॥८५३॥
अभ्यर्चिता सुमनसां निवहैरजस्रं
मुक्तारुणोपलनस्वाङ्गुलिपल्लवश्रीः ।
श्रेयस्करीं मुरभिदश्चरणद्धयीव
कान्ति समाश्रयसि काञ्चनपादुके त्वम् ॥८५४॥
निर्मृष्टगात्ररुचिरा मणिपादुके त्वं
स्नातानुलेपसुअभिर्नवमाल्यचित्रा ।
प्राप्ते विहारसमये भजसे मुरारेः
पादारविन्दारिभोगमधन्यलभ्यम् ॥८५५॥
नादे पदावनि तथा तव सन्निवेशे
निर्वेशनक्रममसह्यमपाचिकीर्षुः ।
यैरेव लोचनशतैरभिवीक्षते त्वां
तैरेव पन्नगपतिः श्रुतिमान् बभूव ॥८५६॥
पादावनि स्फुटमयूखसहस्रदृश्या
विष्णोः पदेन भवती विहितप्रचारा ।
त्वद्भक्तियन्त्रितजनप्रथमस्य शम्भो -
र्वैकर्तनीमनुकरोति विहारमूर्तिम् ॥८५७॥
राज्ये वनेपि रघुवीरपदोचितायाः
संस्मृत्य गौतमवधूपरिरक्षणं ते ।
मन्ये समाहितधियो मणिपादुके त्वां
मूर्ध्ना भजन्त्यनुदिनं मुनिधर्मदाराः ॥८५८॥
त्वामाश्रितो मणियमूखसहस्रदृश्यां
त्वच्छिञ्जितेन सह रङ्गपतिः समुद्यन् ।
आशङ्क्यते सुमतिभिर्मणिपादरक्षे
विद्यासखः सवितृमण्डलमध्यवर्ती ॥८५९॥
रत्नाश्रितैर्हरिपदं मणिपादुके त्वं
स्पृष्ट्वा करैः श्रुतिरसायनमञ्जुनादा ।
तत्त्वं तदेतदिति बोधयसीव सम्य -
ग्वेदान् प्रतारितवतो विविधान् कुदृष्टीन् ॥८६०॥
आनन्दसूः प्रणयिनामनघप्रसादा
रङ्गाधिराजपदरक्षिणि रत्नभासा ।
न्यस्ते मुहुर्निजभरे स्थिरतां भजन्त्या
वर्णांशुकं वितरसीव वसुन्धरायाः ॥८६१॥
त्वं चित्रभानुरसि रत्नविशेषयोगाद्
भूम्ना निजेन परिपुष्यसि पावकत्वम् ।
स्वेनैव शौरिचरणावनि चन्द्ररूपा
तेजस्त्रयेव मिलिताऽसि तमोपहा नः ॥८६२॥
प्रौढप्रवालरुचिरा भुवनैकवन्द्या
रङ्गाधिराजचरणावनि रम्यचन्द्रा ।
सम्भिन्नमौक्तिकरुचिः सतत प्रजानां
तापात्ययं दिशसि तारकितेव सन्ध्या ॥८६३॥
रङ्गेश्वरस्य पुरतो मणिपादुके त्वं
रत्नांशुभिर्विकिरसि स्फुटभक्तिबन्धा ।
पादौ विहारयितुमद्भुतसौकुमार्यौ
प्रायः सरोजकुमुदोत्पलपत्रपङ्क्तिम् ॥८६४॥
आसन्नवृत्तिरवरोधगृहेषु शौरे -
रापादयस्यनुपदं वरवर्णिनीनाम् ।
आलग्नरत्नकिरणा मणिपादुके त्वं
मञ्जुस्वना मदनबाणनिघर्षशङ्काम् ॥८६५॥
पर्याप्तमौक्तिकनखा स्फुटपद्मरागा
रेखाविशेषरुचिरा ललितप्रचारा ।
रङाधिराजपदयोर्मणिपादुके त्वं
सायुज्यमाश्रितवतीव समस्तवन्द्या ॥८६६॥
प्राप्ताभिषेका मणिपादुके
त्वं प्रदीप्तरत्ना रघुराजधान्याः ।
प्रदक्षिणप्रकमणादकार्षीः
प्राकारमाग्नेयमिव प्रभाभिः ॥८६७॥
रत्नासने राघवपादरक्षे
प्रदीप्यमानास्तव पद्मरागाः ।
प्रायो नरेन्द्रान् भरतस्य जेतुः
प्रतापवह्नेरभवन् प्ररोहाः ॥८६८॥
शुभप्रणादा भवती श्रुतीनां
कण्ठेशुवैकुण्ठपतिंवराणाम् ।
बध्नासि नूनं मणिपादरक्षे
मङ्गल्यसूत्रं मणिरश्मिजालैः ॥८६९॥
विचित्रवर्णा श्रुतिरम्यशब्दा
निषेव्यसे नाकसदां शिरोभिः ।
मधुद्विषस्त्वं मणिपादरक्षे
श्रेयस्करीशासनपत्रिकेय ॥८७०॥
स्थिरा स्वभावान्मणिपादुके त्वं
सर्वंयहा स्वादुफलप्रसूतिः ।
पृथ्वीव पद्भां परमस्य पुंसः
संसृज्यसे देवि विभज्यसे च ॥८७१॥
पश्यन्ति रङ्गेश्वरपादरक्षे
पूजासु ते संहितपुष्पजालाम् ।
मृगीदृशो वासवरत्नरेखां
सचित्रपुङ्खामिव मन्मथज्याम् ॥८७२॥
करैरुदग्रैः स्फुरतां मणीनां
मञ्जुस्वना माधवपादुके त्वम् ।
अनूपदेशे कनकापगायाः
कलेः प्रवेशं प्रतिषेधसीव ॥८७३॥
आक्रान्तवेदिर्भवती तदानी -
मदर्शि मुक्तान्वितशोणरत्ना ।
करग्रहार्थं भरतेन भूम्या
लाजोत्करैर्वह्निशिखेव कीर्णा ॥८७४॥
पत्रला मणिगणैर्हिरण्मयी
भासि रङ्गपतिरत्नपादुके ।
केलिमण्टपगतागतोचिता
भूमिकेव गरुडेव कल्पिता ॥८७५॥
उन्नतं बलिविरोधिनस्तदा
पादुके पदसरोजमाश्रिता ।
मौक्तिकस्तबकमध्यसम्मितं
व्योम षट्पदतुलामलम्भयः ॥८७६॥
कोमलाङ्गुलिनिवेशयन्त्रिका -
न्यस्तमौक्तिकमयूखदन्तुरा ।
मङ्गलानि वमसीव देहिनां
रङ्गराजमणिपादुके स्वयम् ॥८७७॥
पङ्कजासहचरस्य रङ्गिणः
पादुके निजपदादनन्तरम् ।
न्यस्यतस्त्वयि जगन्ति जायते
नागभोगशयनं निरङ्कुशम् ॥८७८॥
साधयन्ति मधुवैरिपादुके
साधवः स्थिरमुपायमुत्तमम् ।
त्वत्प्रवृत्तिविनितवर्तनोचित -
स्वप्रवृत्तिविनिवर्तनान्वितम् ॥८७९॥
नन्दसूनुपदपद्ममिन्दिरापाणिपल्लवनिपीडनासहम् ।
पादुके तव बलेन पर्यभृदूष्मलामुरगमौलिशर्कराम् ॥८८०॥
मणिनिकरसमुत्थैः सर्ववर्णा मयूखैः
प्रकटितशुभनादा पादुके रङ्गभर्तुः ।
निखिलनिगमसूतेर्ब्रह्मणस्तत्सनाथा -
मवगमयसि हृद्यामर्धमात्रां चतुर्थीम् ॥८८१॥
श्रुतिविषयगुणा त्वं पादुके दैत्यहन्तुः
सततगतिमनोज्ञा स्वेन धाम्ना ज्वलन्ती ।
जनितभुवनवृद्धिर्दृश्यसे स्थैर्ययुक्ता
विधृतनिखिलभूता वैजयन्तीव माला ॥८८२॥
रघुपतिपदसङाद्राज्यखेदं त्यजन्ती
पुनरपि भवती स्वान् दर्शयन्ती विहारान् ।
अभिसमधित वृद्धिं हर्षकोलाहलानां
जनपदजनितानां ज्यायसा शिञ्जितेन ॥८८३॥
हरिचरणमुपघ्नं पादुके संश्रिताया -
मधिगतबहुशाखंवैभवं दर्शयन्त्याम् ।
अभजत विधिहस्तन्यस्तधर्मद्रवायां
त्वयि मुकुलसमृद्धिं मौक्तिकश्रीस्तदानीम् ॥८८४॥
कनकरुचिरकान्तिः कल्पिताशोकभारा
कृतपदकमलश्रीः क्रीडता माधवेन ।
दिशिदिशि सुमनोभिर्दर्शनीयानुभावा
सुरभिसमयलक्ष्मीं पादुके पुष्यसि त्वम् ॥८८५॥
प्रणिहितपदपद्मा पादुके रङ्गभर्तुः
शुभतरगतिहेतुश्चारुमुक्ताप्रवाला ।
स्थिरपरिणतरागां शुद्धबोधानुबद्धां
स्वजनयसि मुनीनां त्वन्मयीं चित्तवृत्तिम् ॥८८६॥
विरचितनवभागा रत्नभेदैर्विचित्रै -
र्विविधविततरेखाव्यक्तसीमाविभागा ।
हरिचरणसरोजं प्रेप्सतामर्चनीयं
प्रथयसि नवनाभं मण्डलं पादुके त्वम् ॥८८७॥
परिणतगुणजाला पङ्क्तिभिर्मौक्तिकानां
बहुविधमणिरश्मिग्रन्थिबन्धाभिरामा ।
रघुपतिपदरक्षे राजवाह्यस्य कुम्भे
कलितरुचिरभूस्त्वं काऽपि नक्षत्रमाला ॥८८८॥
चरितनिखिलवृत्तिश्चारुपद्मासनस्था
गुणनिबिडितमुक्तापङ्क्तिबद्धाक्षमाला ।
सविधमधिवसन्ती पादुके रङ्गभर्तु -
श्चरणकमलमन्तर्बिम्बितं ध्यायसीव ॥८८९॥
अनुपधि परिरक्षन्नेकपुत्राभिमानाद् -
भुवनमिदमशेषं पादुके रङ्गनाथः ।
निजपदनिहितायां देवि तिष्ठन् व्रजन् वा
त्वयि निहितभरोऽभृत् किं पुनः स्वापमृच्छन् ॥८९०॥
त्वरितमुपगतानां श्रीमतो रङ्गभर्तु -
स्त्वदुपहितपदस्य स्वैरयात्रोत्सवेषु ।
मुखरयति दिगन्तान्मुह्यतां त्वत्प्रशस्तौ
विहितकुसुमवृष्टिर्व्यावघोषी सुराणाम् ॥८९१॥
मनसि नियमयुक्ते वर्तमाना मुनीनां
प्रतिपदमुपयान्ती भावनीयक्रमत्वम् ।
श्रुतिरिव निजशब्दैः पादुके रङ्गभर्तुः
पदमनितरगम्यं व्यङ्कुमर्हा त्वमेव ॥८९२॥
अविकलनिजचन्द्रालोकसन्दर्शनीया
प्रतिकलमुपभोग्या पादुके रङ्गभर्तुः ।
मुकुलयितुमशेषं मौक्तिकज्योत्स्रया नः
प्रभवसि तिमिरौघं पौर्णमासी निशेव ॥८९३॥
हंसश्रेणीपरिचितगतिर्हारिणी कल्मषाणां
मौलौ शम्भोः स्थित्मधिगता मुग्धचन्द्रानुबद्धा ।
राज्ञामेका रघुकुलभुवां सम्यगुत्तारिका त्वं
काले तस्मिन् क्षितिमधिगता पादुके जाह्नवीव ॥८९४॥
स्वच्छाकारां श्रुतिसुरभितां स्वादुभावोपपन्नां
मार्गेमार्गे महितविभवां पादुके तीर्थभेदैः ।
शीतस्पर्शां श्रमविनयिनीं गाहते मन्दमन्दं
क्रीडालोलः कमलनिलयादत्तहस्तो युवा त्वाम् ॥८९५॥
अभ्यस्यन्त्योः क्रममनुपमं रङ्गभर्तुर्विहारे
स्थानेस्थाने स्वरपरिणतिं लम्भितस्तत्तदर्हाम् ।
पर्यायेण प्रहितपदयोः पादुके श्रुत्युदारः
शिञ्जानादः स्फुरति युवयोः श्रृङ्खलाबन्धरम्यः ॥८९६॥
आसन्नानां दिवसमपुनर्नक्तमापादयन्ती
स्फीतालोका मनिभिरभितः प्राणिनामस्तदोषा ।
प्रह्वैर्जुष्टा विबुधनिवहैः पादुके रङ्गभर्तुः
पादाम्भोजे दिशति भवति पूर्वसन्ध्येव कान्तिम् ॥८९७॥
रम्यालोका ललितगमना पद्मरागाधरोष्ठी
मध्ये क्षामा मणिवलयिनी मौक्तिकव्यक्तहासा ।
श्यामा नित्यं हरितमणिभिः शार्ङ्गिणः पादरक्षे
मन्ये धातुर्भवसि महिलानिर्मितौ मातृका त्वम् ॥८९८॥
स्थित्वा पूर्वं क्कचनभवती भद्रपीठस्य मध्ये
रत्नोदञ्चत्किरणनिकरा रङ्गिणः पादरक्षे ।
व्याकीर्णानां नृपतिविरहाद्देवि वर्णाश्रमाणां
नूनं सीमाविभजनसहं निर्ममे सूत्रपातम् ॥८९९॥
मातर्मञ्जुस्वनपरिणतपार्थनावाक्यपूर्वं
निक्षिप्तायां त्वयि चरणयोः पादुके रङ्गभर्तुः ।
त्वय्यायत्तं किमपि कुशलं जानतीनां प्रजानां
पर्याप्तं तन्न खलु न भवत्यात्मनिक्षेपकृत्यम् ॥९००॥
नित्यं रङ्गक्षितिपतिपदन्यासधन्यात्मनस्ते
शिञ्जानादं श्रवणमधुरं पादुके द्राघयन्तः ।
काले तस्मिन् करणविगमक्लेशजातं विहन्युः
सन्तापं नस्तरुणतुलसीगन्धिनो गन्धवाहाः ॥९०१॥
संसाराध्वश्रमपरिणतं संश्रितानां जनानां
तापं सद्यः शमयितुमलं शार्ङ्गिणः पादुके त्वम् ।
चन्द्रापीडे प्रणमति नवां चन्द्रिकामापिबद्भि -
र्धारानिर्यत्सलिलकणिकाशीकरैश्चन्द्रकान्तैः ॥९०२॥
वज्रोपेतां वलभिदुपलश्यामलां मञ्जुघोषां
मुक्तासारां मधुरचपलां वीक्ष्य विष्णोः पदे त्वाम् ।
हर्षोत्कर्षादुपरि चलयन् पादुके चन्द्रकान्तं
धत्ते नित्यं धृतघनरुचिस्ताण्डवं नीलकण्ठः ॥९०३॥
श्रीरङ्गेन्दोश्चरणकमलं तादृशं धारयन्ती
कालेकाले सह कमलया क्लृप्तयात्रोत्सवश्रीः ।
गत्वागत्वा स्वयमनुगृहद्वारमुन्निद्रनादा
पौरान्नित्यं किमपि कुशलं पादुके पृच्छसीव ॥९०४॥
चतुरविहारिणीं रुचिरपक्षरुचिं भवतीं
मनसिजसायकासनगुणोचितमञ्जुरवाम् ।
अनुपदमाद्रियेमहि महेन्द्रशिलामहितां
हरिचरणाविन्दमकरन्दमधुव्रतिकाम् ॥९०५॥
कनकरुचा जटामुरगमौलिमणीन्मणिभि -
स्त्रिदिवतरङ्गिणीं तरलमौक्तिकदीधितिभिः ।
कुटिलतया क्कचिछशिकलामधरीकुरुषे
मुररिपुपादुके पुरभिदः शिरसा विधृता ॥९०६॥
काले तल्पभुजङ्गमस्य भजतः काष्ठां गतां शेषतां
मूर्ति कामपि वेद्मि रङ्गनृपतेश्चित्रां पदत्रद्वयीम् ।
सेवानम्रसुरासुरेन्द्रमकुटीशेषापटीसङ्गमे
मुक्ताचन्द्रिकयेव या प्रथयते निर्मोकयोगं पुनः ॥९०७॥
चन्द्रापीडशिखण्डचन्द्रशिखरच्योतत्सुधानिर्झर -
स्तोकाश्लिष्टसुरेन्द्रशेखररजःस्त्याने स्तुमः पादुके ।
ब्रह्मस्तम्बविभक्तसीमविविधक्षेत्रज्ञसर्गस्थिति -
ध्वंसानुग्रहनिग्रहप्रणयिनी या सा क्रिया रङ्गिणः ॥९०८॥
लक्ष्मीनूपुरशिञ्जितेन गुणितं नादं तवाकर्णय -
न्नाजिघ्रन्निगमान्तगन्धतुलसीदामोत्थितं सौरभम् ।
काले कुत्रचिदागतं करुणया सार्धं त्वया चाग्रतः
पश्येयं मणिपादुके परतरं पद्मेक्षणं दैवतम् ॥९०९॥
वहति क्षितिव्यवहितां सोऽपि त्वां गतिषु पादुके रङ्गी ।
कमठपतिभुजगपरिबृढकरिवर कुशलिखरिभूमिकाभेदैः ॥९१०॥

N/A

References : N/A
Last Updated : September 03, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP