संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|श्रीपादुकासहस्रम्| अधिकारपरिग्रहपद्धतिः श्रीपादुकासहस्रम् विषय सूची प्रस्ताव पद्धतिः समाख्या पद्धतिः प्रभाव पद्धतिः समर्पणपद्धतिः प्रतिप्रस्थानपद्धतिः अधिकारपरिग्रहपद्धतिः अभिषेकपद्धतिः निर्यातनापद्धतिः वैतालिकपद्धतिः श्रृङ्गारपद्धतिः सञ्चारपद्धतिः पुष्पपद्धतिः परागपद्धतिः नादपद्धतिः रत्नसामान्यपद्धतिः बहुरत्नपद्धतिः पद्मरागपद्धतिः मुक्तापद्धतिः मरतकपद्धतिः इन्द्रनीलपद्धतिः बिम्बप्रतिबिम्बपद्धतिः काञ्चनपद्धतिः शेषपद्धतिः द्वन्द्वपद्धतिः सन्निवेशपद्धतिः यन्त्रिकापद्धतिः रेखापद्धतिः सुभाषितपद्धतिः प्रकीर्णकपद्धतिः चित्र पद्धतिः निर्वेदपद्धतिः फलपद्धतिः श्रीपादुकासहस्रम् - अधिकारपरिग्रहपद्धतिः श्रीमद्वेदान्तदेशिक विरचितम् Tags : padukasanksritपादुकासंस्कृत अधिकारपरिग्रहपद्धतिः Translation - भाषांतर अधीष्टे पादुका सा मे यस्याः साकेतवासिभिः ।अन्वयव्यतिरेकाभ्यामन्वमीयत वैभवम् ॥१४१॥मोचितस्थिरचरानयत्नतः कोसलान् जनपदानुपास्महे ।येषु कांश्चन बभूव वत्सरान् दैवतं दनुजवैरिपादुका ॥१४२॥साम्राज्यसम्पदिव दासजनोचिता त्वं रामेण सत्यवचसा भरताय दत्ता ।स त्वां निवेश्य चरणावनि भद्रपीठे पृथ्वीं बुभोज बुभुजे च शोविभूतिम् ॥१४३॥भोगाननन्यमनसां मणिपादुके त्वं पुष्णासि हन्त भजनामनुषङ्गसिद्धान् ।तेनैव नूनमभवद्भरतस्य साधो - रप्रार्थितं तदिह राज्यमवर्जनीयम् ॥१४४॥रामप्रयाणजनितं व्यपनीय शोकंरत्नासने स्थितवती मणिपादरक्षे ।पृथ्वीं निजेन यशसा विहितोत्तरीया - मेकातपत्रतिलकां भवती वितेने ॥१४५॥रामाज्ञया परवती परिगृह्य राज्यं रत्नासनं रघुकुलोचितमाश्रयन्ती ।शुद्धां पदावनि पुनर्भवती वितेनेस्वातन्त्र्त्यलेशकलुषां भरतस्य कीर्तिम् ॥१५६॥पौलस्त्यवीरवदनस्तबकावसानात् पुष्पाणि दण्डकवनेष्वपचेतुमिच्छोः ।रक्षाधुरं धृतवती मणिपादुके त्वंरामस्य मैथिलसुतासहिते प्रचारे ॥१४७॥पादावनि प्रचलचामरबृन्दमध्येभद्रासनास्तरगता भवती विरेजे ।आकीर्णदिव्यसलिले कटके सुमेरो - रम्भोजिनीव कलहायितहंसयूथा ॥१४८॥मान्ये रघूद्वहपदे मणिपादुके त्वां विन्यस्य विग्रहवतीमिव राज्यलक्ष्मीम् ।आलोलमक्षवलयी भरतो जटावा - नालम्ब्य चामरमनन्यमनाः सिषेवे ॥१४९॥प्राप्ते दिवं दशरथे भरते विलक्षेपर्याकुलेषु परमुत्तरकोसलेषु ।त्वं चेदुपेक्षितवती क इवाभविष्यत् गोपायिता गुह्यसख्यस्य विभोः पदं तत् ॥१५०॥भ्रातुर्यदम्ब विरहाद्भरते विषण्णेदाक्षिण्यमाश्रितवती मणिपादुके त्वम् ।आसीदशेषजगतां श्रवणामृतं तत् वाचालकाहलसहं बिरुदं तदा ते ॥१५१॥राज्यं तदा दशरथादनु रामतः प्राक् बिभ्राणया चरणरक्षिणि वीतखेदम् ।तुल्याधिकारभजनेन बभूव धन्योवंशस्त्वयाऽम्ब मनुवंशमहीपतीनाम् ॥१५२॥वर्षाणि तानि वृषलो न तपांसि तेपे बालो न कश्चिदपि मृत्युवशं जगाम ।राज्ये तवाम्ब रघुपुङ्गवपादरक्षे नैवापरं प्रतिविधेयमभूत् प्रसक्तम् ॥१५३॥विश्वं त्वदाश्रितपदाम्बुजसम्भवायां यस्यां प्रतिष्ठितमिदं मणिपादरक्षे ।आसीदनन्यशरणा समये यथावत् साऽपि त्वया वसुमती विहितप्रतिष्ठा ॥१५४॥प्रायेण रामविरहाव्द्यथिता तदानी - मुत्सङ्गमाश्रितवती तव राज्यलक्ष्मीः ।तामेव देवि ननु जीवयितुं जलार्द्रा - मङ्गीचकार भवती भरतोपनीताम् ॥१५५॥वीरव्रतप्रणयिनि प्रथमे रघूणां प्राप्ते चिराय भरते व्रतमासिधारम् ।त्यक्त्वा पदावनि तदा विविधान् विहारा - नेकासिकाव्रतमपूर्वमवर्तयस्त्वम् ॥१५६॥काकुत्स्थपादविरहप्रतिपन्नमौनां निष्पन्दतामुपगतां मणिपादरक्षे ।आश्वासयन्निव मुहुर्भरतस्तदानींशीतैरवीजयत चामरमारुतैस्त्वाम् ॥१५७॥यत्र क्कचिद्विहरतोऽपि पदारविन्दं रक्ष्यं मया रघुपतेरिति भावयन्त्या ।निश्शेशमेव सहसा मणिपादरक्षे निष्कण्टकं जगदिदं विदधे भवत्या ॥१५८॥रामं त्वया विरहितं भरतं च तेन त्रातुं पदावनि तदा यदभूत् प्रतीतम् ।रामानुजस्य तव चाम्ब जगत्समस्तंजागर्ति तेन खलु जागरनव्रतेन ॥१५९॥अन्तःपुरे परिजनैः समयोपयातै रभ्यर्चिता भवसि या विनयोपपन्नैः ।सा कोसलेश्वरपदावनि भूपतीनांसङ्घट्टनं मकुटपङ्क्तिभिरन्वभूस्त्वम् ॥१६०॥प्राप्याधिकारमुचितं भुवनस्य गुप्त्यैभद्रासनं भरतवन्दितमाश्रयन्त्या । मध्येऽवतीर्णमिव माधवपादरक्षे मातस्त्वयाऽपि मनुवंशमहीपतीनाम् ॥१६१॥राजासस्ने रघुकुलोद्वहपादरक्षे नीराजनं समभवत् समयोचितं ते ।श्लाघावशेन बहुशः परिघूर्णिताभिः सामन्तमौलिमणिमङ्गलदीपिकाभिः ॥१६२॥पृथ्वीपतीनां युगपत् किरीटाः प्रत्यर्थिनां प्राणितुमर्थिनां च ।प्रापुस्तदा राघवपादरक्षेत्वदीयमास्थानिकपादपीठम् ॥१६३॥प्रणम्य रङ्गेश्वरपादरक्षे दूरोपनीतैरुपदाविशेषैः ।सभाजयन्ति स्म तदा सबाया - मुच्चैस्तरामुत्तरकोसलास्त्वाम् ॥१६४॥अपावृतद्वारमयन्त्रिताश्वंरङ्गेशपादावनि पूर्वमासीत् ।त्वया यदृच्छासुखसुप्तपान्थंरामे वनस्थेऽपि पदं रघूणाम् ॥१६५॥अनन्यभक्तिर्मणिपादुके त्वामभ्यर्चयन् दाशरथिर्द्वितीयः ।विकल्प्यमानःप्रथमेन कीर्या वन्द्यः स्वयं व्योमसदां बभूव ॥१६६॥अरण्ययोग्यं पदमस्पृशन्ती रामस्य राजार्हपदे निविष्टा ।आस्थाननित्यासिकया निरास्थःस्वर्गौकसां स्वैरगतेर्विघातम् ॥१६७॥राजासने चेद्भवती निषण्णा रङ्गेशपादावनि तन्न चित्रम् ।यत्राधिरूढाः क्रमशः पुरा त्वामुत्तंसयन्ते रघुसार्वभौमाः ॥१६८॥भद्रासनं चेत् परिवृत्तमासीत् देवि क्षणं दक्षिणतोमुखं ते ।कथं भवेत् काञ्चनपादरक्षे रामस्य रक्षोमृगयाविहारः ॥१६९॥यावत्त्वया राघवपादरक्षे जिगीषिता राक्षसराजधानी ।मालेव तावल्लुलिता मदान्धैरुद्यानशाखामृगयूथपैस्ते ॥१७०॥महीक्षितां राघवपादरक्षे भद्रासनस्थां भवतीं स्पृशन्तः ।पूर्वं तथात्वे नियतेऽपि भूयः कल्याणतामूनिशिरे किरीटाः ॥१७१॥अनिच्छतः पाण्डरमातपत्रं पित्रा वितीर्णं मणिपादरक्षे ।आसीत् त्वदर्थं विधृतेन तेन च्छाया समग्रा भरतस्य मौलौ ॥१७२॥पादुके रघुपतौ यदृच्छया प्रस्थिते वनविहारकौतुकात् ।आधिराज्यमधिगम्य ते युवामक्षतं वसुमतीमरक्षतम् ॥१७३॥रघुवीरपदानुषङ्गमात्रात् परिबर्हेषु निवेशिता यदि त्वम् ।अधिकारदिने कथं पुनस्ते परिवारास्तव पादुके बभूवुः ॥१७४॥पुरुषार्थचतुष्टयार्थिनीनां परिषत् ते महिता वसिष्ठमुख्यैः ।क्रयविक्रयपट्टणं प्रजानामभवत् काञ्चनपादुके तदानीम् ॥१७५॥मनुजत्वतिरोहितेन शक्ये वपुषैकेन विरोधिनां निरासे ।अभजद्भरतादिभेदमीशः स्वयमाराधयितुं पदावनि त्वाम् ॥१७६॥मगधाङ्गकलिङ्गवङ्गमुख्यान् विमतान् रन्ध्रगवेषिणः ससैन्यान् ।रघुपुङ्गवपादुके विजिग्ये भरतः शासनमुद्वहन् भवत्याः ॥१७७॥अनितरवहनीयं मन्त्रिमुख्यैर्यदा तत् त्वयि विनिहितमासीत् सूर्यवंशाधिराज्यम् ।रघुपतिपदरक्षे रत्नपीठे तदानीं श्रियमिव ददृशुस्त्वां सादरं लोकपालाः ॥१७८॥परिहृतदण्डकाध्वगमनं पदरक्षिणि तत् परिणतविश्वसम्पदुदयं युवयोर्द्वितयम् ।रघुपतिरत्नपीठमधिरुह्य तदा विदधेव्यपगतवैरिभूपनिलयं वसुधावलयम् ॥१७९॥प्राप्तोदया तदानीं किमपि तमस्तन्निराकरोद्भवती ।तनुरिव मनुकुलजनुषां प्रसवित्री रत्नपादुके सवितुः ॥१८०॥इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुकासहस्रे ॥ अधिकारपरिग्रहपद्धतिः षष्ठी ॥ N/A References : N/A Last Updated : August 30, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP