संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|श्रीपादुकासहस्रम्| इन्द्रनीलपद्धतिः श्रीपादुकासहस्रम् विषय सूची प्रस्ताव पद्धतिः समाख्या पद्धतिः प्रभाव पद्धतिः समर्पणपद्धतिः प्रतिप्रस्थानपद्धतिः अधिकारपरिग्रहपद्धतिः अभिषेकपद्धतिः निर्यातनापद्धतिः वैतालिकपद्धतिः श्रृङ्गारपद्धतिः सञ्चारपद्धतिः पुष्पपद्धतिः परागपद्धतिः नादपद्धतिः रत्नसामान्यपद्धतिः बहुरत्नपद्धतिः पद्मरागपद्धतिः मुक्तापद्धतिः मरतकपद्धतिः इन्द्रनीलपद्धतिः बिम्बप्रतिबिम्बपद्धतिः काञ्चनपद्धतिः शेषपद्धतिः द्वन्द्वपद्धतिः सन्निवेशपद्धतिः यन्त्रिकापद्धतिः रेखापद्धतिः सुभाषितपद्धतिः प्रकीर्णकपद्धतिः चित्र पद्धतिः निर्वेदपद्धतिः फलपद्धतिः श्रीपादुकासहस्रम् - इन्द्रनीलपद्धतिः श्रीमद्वेदान्तदेशिक विरचितम् Tags : padukasanksritपादुकासंस्कृत इन्द्रनीलपद्धतिः Translation - भाषांतर हरिणा हरिनीलैश्च प्रतियत्नवतीं सदा ।अयत्नलभ्यनिर्वाणामाश्रये मणिपादुकाम् ॥६८१॥हरिरत्नमरीचयस्तवैते नवनीलीरसनिर्विशेषवर्णाः ।श्रुतिमूर्धनि शौरिपादरक्षे पलितानुद्भवभेषजं भवन्ति ॥६८२॥अलकैरिव बिम्बितैः श्रुतीनां हरिनीलैः सृजसि त्वमुन्मयूखैः ।कमलादयितस्य पादरक्षे करुणोदन्वति शैवलप्ररोहान् ॥६८३॥अनघैर्हरिनीलपद्धतीनां प्रथमानैर्मणिपादुके मयूखैः ।अधरीकुरुषे रथाङ्गपाणेरमितामूर्ध्वमवस्थितस्य कान्तिम् ॥६८४॥चरणावनि भाति सह्यकन्या हरिनीलद्युतिभिस्तवानुविद्धा ।वसुदेवसुतस्य रङ्गवृत्तेर्यमुनेव स्वयमागता समीपम् ॥६८५॥अवधीरितदेवतान्तराणामनघैस्त्वं मणिपादुके मयूखैः ।हरिनीलसमुद्भवैर्विधत्से हरिसारूप्यमयत्नतो जनानाम् ॥६८६॥नेत्रेषु पुंसां तव पादरक्षे नीलाश्मभासा निहिताञ्जनेषु ।श्रिया समं संश्रितरङ्गकोशो निधिः स्वयं व्यक्तिमुपैति नित्यम् ॥६८७॥अभङ्गुरामच्युतपादरक्षे मान्यां महानीलरुचिं त्वदीयाम् ।निश्शेयसद्वारकवाटिकायाः शङ्के समुद्धानकुञ्चिकां नः ॥६८८॥जीवयत्यमृतवर्षिणी प्रजास्तावकी दनुजवैरिपादुके ।घोरसंसरणघर्मनाशिनी कालिकेव हरिनीलपद्धतिः ॥६८९॥शतमखोपलभङ्गमनोहरा विहरसे मुरमर्दनपादुके ।मणिकिरीटगणेषु दिवौकसां मधुकरीव मनोहरपङ्क्तिषु ॥६९०॥अन्विच्छतां किमपि तत्त्वमनन्यदृश्यंसम्यक्प्रकाशजननी धृतकृष्णरूपा । पादावनि स्फुरसि वासवरत्नरम्या मध्ये समाधिनयनस्य कनीनिकेव ॥६९१॥मातः सलीलमधिगम्य विहारवेलांकान्तिं समुद्वहसि काञ्चनपादुके त्वम् ।लक्ष्मीकटाक्षरुचिरैर्हरिनीलरत्नै - र्लावण्यसिन्धुपृषतैरिव रङ्गधाम्नः ॥६९२॥क्लृप्तावकुण्ठनविधिर्मणिपादरक्षे नीलांशुकैर्वलभिदश्मसमुद्भवैस्ते ।सङ्गच्छते मुनिजनस्य मतिः समाधौ रात्रौ समस्तजगतां रमणेन लक्ष्म्याः ॥६९३॥द्रष्टुं कदाच पदावनि नैव जन्तुःशक्रोति शाश्वतनिधिं निहितं गुहायाम् ।कृष्णानुरूपहरिनीलविशेषदृश्या सिद्धाञ्जनं त्वमसि यस्य न देवि दृष्टेः ॥६९४॥प्रत्येमि रङ्गनृपतेर्मणिपादुके त्वां कृष्णान्तरङ्गरुचिर्भिर्हरिनीलरत्नैः ।विश्वापराधसहनाय पदं तदीयं विश्वम्भरां भगवतीं समये भजन्तीम् ॥६९५॥मत्वा मषीं परिमितां भवती तदन्यां वैकुण्ठपादरसिके मणिपादुके स्वान् ।अङ्क्ते स्वयं किरणलेपिभिरिन्द्रनीलै - राशातटेषु ललितानपदानवर्णान् ॥६९६॥वलमथनमणीनां धामभिस्तावकानां मधुरिपुपदरक्षे वासरैरव्यपेता ।अभिसरणपराणां वल्लवीनां तदाऽऽसी - च्छमितगुरुभयार्तिः शर्वरी काचिदन्या ॥६९७॥शतमखमणिभङ्गैरुन्मयूखैर्दिशन्ती शरनमुपगतानां रङ्गनाथेन साम्यम् ।प्रथयसि जगति त्वं पादुके हैतुकाना - मुपनिषदुपगीतां तत्क्रतुन्यायवार्ताम् ॥६९८॥परिचरति विधौ त्वां पादुके रङ्गभर्तुः पदसरसिजभृङ्गैर्भासुरैरिन्द्रनीलैः ।प्रकटितयमुनौघा भक्तिनम्रस्य शम्भोः परिणमयसि चूडाविष्णुपद्याःप्रयागम् ॥६९९॥पदकिसलयसङ्गात् पादुके पत्रलश्री - र्नखमणिभिरुदारैर्नित्यनिष्पन्नपुष्पा ।शतमखमणिनीला शौरिलावण्यसिन्धो - र्निबिडतमतमाला काऽपि वेलावनी त्वम् ॥७००॥त्वयि विनिहितमेतत् केऽपि पश्यन्ति मन्दाः शतमखमणिजालं शार्ङ्गिणः पादरक्षे ।वयमिदमिह विद्मः प्राणिनां भावुकानां हृदयगृहगुहाभ्यः पीतमन्धं तमिस्रम् ॥७०१॥क्लृप्तश्यामा मणिभिरसितैः कृष्णपक्षेण जुष्टा श्रेयः पुंसां जनयसि गतिं दक्षिणामुद्वहन्ती ।तेनास्माकं प्रथयसि परं पादुके तत्त्वविद्भि - र्मौलौ दृष्टां निगमवचसां मुक्तिकालाव्यवस्थाम् ॥७०२॥सद्भिर्जुष्टा समुदितविधुर्जैत्रयात्राविनोदे - ष्वातन्वाना रजनिमनघामिन्द्रनीलांशुजालैः ।चित्रं ख्याता कुमुदवनतः पाद्के पुष्यसि त्वंव्याकोचत्वंविबुधवनितावक्त्रपङ्केरुहाणाम् ॥७०३॥नित्यं लक्ष्मीनयनरुचिभिः शोभिता शक्रनीलैः सालग्रामक्षितिरिव शुभैः शार्ङ्गिणो रूपभेदैः ।साकेतादेः समधिकगुणां सम्पदं दर्शयन्ती मुक्तिक्षेत्रं मुनिभिरखिलैः पादुके गीयसे त्वम् ॥७०४॥पादन्यासप्रियसहचरीं पादुके वासगेहात् त्वामारुह्य त्रिचतुरपदं निर्गते रङ्गनाथे । अन्तःस्निग्धैरसुरमहिलावेणिविक्षेपमित्रैः श्यामच्छायं भवति भवनं शक्रनीलांशुभिस्ते ॥७०५॥या ते बाह्याङ्गणमभियतः पादुके रङ्गभर्तुः सञ्चारेषु स्फुरति विततिः शक्रनीलप्रभायाः ।विष्वक्सेनप्रभृतिभिरसौ गृह्यते वेत्रहस्तै - र्भ्रूविक्शेपस्तव दिविषदां - नूनमाह्वानहेतुः ॥७०६॥अक्ष्णोरञ्जनकल्पना यवनिका लास्यप्रसूतेर्गते - श्चिद्गङ्गायमुना मुकुन्दजलधेर्वेलातमालाटवी ।कान्ताकुन्तलसन्ततिः श्रुतिवधूकस्तूरिकालङ्क्रिया नित्यं रत्नपदावनि स्फुरति ते नीला मणिश्रेणिक्रा ॥७०७॥निरन्तरपुरन्दरोपलभुवं द्युतिं तावकी - मवैमि मणिपादुके सरणिसङ्गिनीं रङ्गिणः ।तदीयनवयौवनद्विरदमल्लगण्डस्थली - गलन्मदझलञ्झलाबहुलकज्जलश्यामिकाम् ॥७०८॥प्रतीमस्त्वं पादावनि भगवतो रङ्गवसते - र्घनीभूतामित्थं पदकमलमाध्वीपरिणतिम् ।स्फुरन्तः पर्यन्ते मदगरिमनिस्पन्दमधुप -प्रसक्तिं यत्रैते विदधति महानीलमणयः ॥७०९॥नमतां निजेन्द्रनील - प्रभवेन मुकुन्दपादुके भवती ।तमसा निरस्यति तमः कण्टकमिव कण्टकेनैव ॥७१०॥इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वङ्केटनाथस्य वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुकासहस्रे ॥ इन्द्रनीलपद्धतिर्विंशी ॥ N/A References : N/A Last Updated : September 03, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP