संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुस्तकं|श्रीपादुकासहस्रम्| बहुरत्नपद्धतिः श्रीपादुकासहस्रम् विषय सूची प्रस्ताव पद्धतिः समाख्या पद्धतिः प्रभाव पद्धतिः समर्पणपद्धतिः प्रतिप्रस्थानपद्धतिः अधिकारपरिग्रहपद्धतिः अभिषेकपद्धतिः निर्यातनापद्धतिः वैतालिकपद्धतिः श्रृङ्गारपद्धतिः सञ्चारपद्धतिः पुष्पपद्धतिः परागपद्धतिः नादपद्धतिः रत्नसामान्यपद्धतिः बहुरत्नपद्धतिः पद्मरागपद्धतिः मुक्तापद्धतिः मरतकपद्धतिः इन्द्रनीलपद्धतिः बिम्बप्रतिबिम्बपद्धतिः काञ्चनपद्धतिः शेषपद्धतिः द्वन्द्वपद्धतिः सन्निवेशपद्धतिः यन्त्रिकापद्धतिः रेखापद्धतिः सुभाषितपद्धतिः प्रकीर्णकपद्धतिः चित्र पद्धतिः निर्वेदपद्धतिः फलपद्धतिः श्रीपादुकासहस्रम् - बहुरत्नपद्धतिः श्रीमद्वेदान्तदेशिक विरचितम् Tags : padukasanksritपादुकासंस्कृत बहुरत्नपद्धतिः Translation - भाषांतर मुखबाहूरुपादेभ्यो वर्णान् सृष्टवतः प्रभोः ।प्रपद्ये पादुकां रत्नैर्व्यक्तवर्णव्यवस्थितिम् ॥५३१॥मणिभिः सितरक्तपीतकृष्णैर्भवती काञ्चनपादुके विचित्रा ।युगभेदविकल्पितं मुरारेर्युगपद्दर्शयतीव वर्णभेदम् ॥५३२॥नवरत्नविचित्रिता मुरारेः पदयोस्त्वं मणिपादुके विभासि ।नवखण्डवती वसुन्धरेव प्रणयाज्जन्मपदं सयाश्रयन्ती ॥५३३॥सहसा विनिवेद्य सापराधा त्वदधीनस्वपदे मुकुन्दपादे । अरुणोपलसक्तमौक्तिकश्रीः स्मयमानेव विभासि पादुके त्वम् ॥५३४॥बहुरत्नसमुद्भवं मयूखं तव मन्ये मणिपादुके मुरारेः ।चरणोपगतं मयूरपिञ्छं मकुटारोहणसाहसं प्रमार्ष्टुम् ॥५३५॥प्रभया हरिनीलमौक्तिकानांविकसन्त्या दिशसीव पादुके त्वम् ।मधुभिच्चरणारविन्दलक्ष्म्याः स्रजमिन्दीवरपुण्डरीकबद्धाम् ॥५३६॥तव माधवपादुके मणीनां प्रभया देवि सितासितारुणानाम् ।वहते गिरिशस्य मौलिगङ्गा कुमुदेन्दीवरपद्मकाननानि ॥५३७॥पृथग्विधानां द्युतिभिर्मणीनां त्वां पाद्के लोहितशुक्लकृष्णाम् ।विहारहेतोरिह रङ्गभर्तुः पादानुषक्तां प्रकृतिं प्रतीमः ॥५३८॥तमालनीलद्युतिमिन्द्रनीलैर्मुक्तानुविद्धां मणिपादुके त्वाम् ।अवैमि रङ्गेश्वरकान्तिसिन्धोर्वेलामविश्रान्तगतागतार्हाम् ॥५३९॥अवैमि रङ्गेश्वरपादुकाभ्यामकालकाल्यं विभवं विधातुम् ।वज्रेन्द्रनीलव्यपदेशदृश्यं बन्दीकृतं नूनमहस्स्त्रियामम् ॥५४०॥पदस्य गोप्त्री भवती मुरारेर्मणिस्पृशा मौक्तिकरत्नभासा ।अन्तर्दृशं साञ्जनया मुनीनामनक्ति कर्पूरशलाकयेव ॥५४१॥मुक्तामयूखप्रकरैः सुभद्रा कृष्णा महेन्द्रोपलरश्मिजालैः ।मान्या मुरारेर्मणिपादुके त्वं विहारयुक्ता विजयं वृणोषि ॥५४२॥विचित्रवर्णां मणिपादुके त्वां छन्दोमयीं सामनिबद्धगीतिम् ।मुनीन्द्रजुष्टां द्विपदां मुरारेः प्रत्यायिकां काञ्चिदृचं प्रतीमः ॥५४३॥प्रसेदुषी गोत्रभिदः प्रणामैः पुष्णासि रङ्गेश्वरपादुके त्वम् ।मणिप्रभासंवलनापदेशात्प्रयस्तदर्हाणि शरासनानि ॥५४४॥शोणाश्मनां तव हरिन्मणिरश्मिभिन्नंबालातपं बलिविमर्दनपादरक्षे ।श्यामीकृतं शुकशकुन्तगणप्रवेशा - च्छङ्के सतां किमपि शालिवनं विपक्कम् ॥५४५॥सम्भिद्यमानमणिविद्रुममौक्तिकश्रीः ।सैरन्ध्रिकेव भवती मणिपादरक्षे ।प्रस्तौति रङ्गनृपतेश्चरणारविन्दे कस्तूरिकाघुसृणचन्दनपङ्कचर्चाम् ॥५४६॥आतन्वतीमसुरमर्दनपादरक्षे शुद्धान्तपक्ष्मलदृशां मदनेन्द्रजालम् ।वैहारिकीं विविधरत्नमयूखलक्षा - न्मन्ये समुद्वहसि मोहनपिञ्छिकां त्वम् ॥५४७॥रत्नैर्व्यवस्थितसितासितशोणवर्णै - रालोकवद्भिरजहच्छ्रुतिसन्निकर्षैः ।द्रष्टुं मुकुन्दचरणावनिमेषदृश्यौ सन्दृश्यसे जननि सम्भृतनेत्रपङ्क्तिः ॥५४८॥गारुत्मतान्तरितमौक्तिकपङ्क्तिलक्षाद् दूर्वामधूकरचितं दुरितोपशान्त्यै ।मातः स्वयं बहसि मुग्धधियां प्रजानां मङ्गल्यमाल्यमिव माधवपादुके त्वम् ॥५४९॥रङ्गाधिराजपदरक्षिणि राजते ते वज्रोपसङ्घतितमौक्तिकविद्रुमश्रीः ।सक्ता चिरं मनसि संयमिनां निवासात् सूर्येन्दुवह्निमयमण्डलवासनेव ॥५५०॥आसक्तवासवशिलाशकलास्त्वदीयाः पद्मासहायपदरक्षिणि पद्मरागाः ।प्रत्यक्षयन्ति कमपि भ्रमराभिलीनंपादारविन्दकमरन्दरसप्रवाहम् ॥५५१॥अन्तःपुराणि समयेष्वभिगन्तुमेका रङ्गेशितुर्ज्ञपयसीव पदावनि त्वम् ।मुक्तांशुजालमिलनाद्रुचिरैः प्रवालै - र्बिम्बाधरं स्मितविशेषयुतं प्रियाणाम् ॥५५२॥रङ्गेश्वरस्य मृगयोश्चरणावसक्तां रक्षःकपीन्द्रमकुटेषु निवेशयोग्याम् ।मन्ये पदावनि निबद्धविचित्ररत्नां मायामृगस्य रचितामिव चर्मणा त्वम् ॥५५३॥बध्नासि रङ्गपतिविभ्रमपादुके त्वंमायाकिरातमकुटे नवबर्हमालाम् ।आकृष्टवासवधनुश्शकलैर्मणीना - मन्योन्यसङ्घटितकर्बुरितैर्मयूखैः ॥५५४॥अन्योन्यबन्धुरहरिन्मणिपद्मरागा रङ्गेश्वरस्य चरणावनि राजसे त्वम् ।आत्मोपमानविभवाच्चरितार्थयन्ती शैलात्मजागिरिशयोरिव मूर्तिमेकाम् ॥५५५॥तापत्रयप्रशमनाय समाश्रितानां सन्दर्शितारुनसितासितरत्नपङ्क्तिः ।पुष्णासि रङ्गनृपतेर्मणिपादुके त्वं प्रायः सरोजकुमुदोत्पलकाननानि ॥५५६॥देहद्युतिं प्रकटयन्ति महेन्द्रनीलाः शौरेः पदाम्बुजरुचिं तव पद्मरागाह ।अन्योन्यलब्धपरभागतया त्वमीषा - माभाति कान्तिरपरा कणिपादरक्षे ॥५५७॥आकीर्णमौक्त्कहरिन्मणिपद्मरागा - मम्भोजलोचनपदावनि भावये त्वाम् ।तत्पादविश्रमजुषां श्रुतिसुन्दरीणां वर्णोपधानमिव मौलिनिवेशयोग्यम् ॥५५८॥आसनवासवशिलाशकलास्त्वदीयाः पद्मेक्षणस्य पदरक्षिणि पद्मरागाः । सम्भावयन्ति समये क्कचिदुष्णभानोः सद्यःप्रसूतयमुनासुभगामास्थाम् ॥५५९॥मुक्तेन्द्रनीलमणिभिर्विहिते भवत्याः पङ्क्ती दृढे परमपूरुषपादरक्षे ।मन्ये समाश्रितजनस्य तवानुभावा - दुन्मोचिते सुकृतदुष्कृतश्रृङ्खले द्वे ॥५६०॥उद्गीर्णगाढतमसो हरिनीलभङ्गा - स्ताराविशेषरुचिराणि च मौक्तिकानि । त्वत्सङ्गमात्सरसिजेक्षणपादरक्षे संयोजयन्ति निशया भवमौलिचन्द्रम् ॥५६१॥विष्णोः पदेन घटिता मणिपादुके त्वं व्यक्तेन्द्रनीलरुचिरुज्ज्वलमौक्तिकश्रीः ।कालेषु दीव्यसि मरुद्भिरुदीर्यमाणा कादम्बिनीव परितः स्फुटवारिबिन्दुः ॥५६२॥भासा स्वयं भगवतो मणिपादरक्षे मुक्तान्विता मरतकोपलपद्धतिस्ते ।नित्यावगाहनसहं सकलस्य जन्तो - र्गङ्गान्वितं जनयतीव समुद्रमन्यम् ॥५६३॥सूर्यात्मजा हरिशिलामणिपङ्क्तिलक्षात् त्वां नित्यमाश्रितवती मणिपादरक्षे ।आदौ जनार्दनपदे क्शणमात्रलग्ना - मासन्नमौक्तिकरुचा हसतीव गङ्गाम् ॥५६४॥पर्यन्तसङ्घिटितभासुरपद्मरागाः पद्मोदाभ्रमकान्तिमुशस्त्वदीयाः ।त्वत्संश्रयेण चरणावनि शक्रनीलाः पीताम्बरेण पुरुषेण तुलां लभन्ते ॥५६५॥शङ्के पदावनि सदा परिचिन्वती त्वं रङ्गेशितुश्चरणपङ्कजसौकुमार्यम् ।अग्रे महोभिररुणोपलमौक्तिकानां प्राज्यां विनिक्षिपसि पल्लवपुष्पपङ्क्तिम् ॥५६६॥निर्गच्छता चरणरक्षिणि नीयमाना रङ्गेश्वरेण भवती रणदीक्षितेन ।सूते सुरारिसुभटीनयनाम्बुजानां ज्यौत्स्नीं निशामिव सितासितरत्नभासा ॥५६७॥मरतकहरिताङ्गी मेदुरा पद्मरागै - रभिनवजलबिन्दुव्यक्तमुक्ताफलश्रीः ।कलयसि पदरक्षे कृष्णमेघप्रचारत् कनकसरिदनूपे शाद्वलं सेन्द्रगोपम् ॥५६८॥विरचितसुरसिन्धोविष्णुपादरविन्दात् समधिकमनुभावं पादुके दर्शयन्ती ।वलभिदुपलमुक्तापद्मरागप्रकाशैः परिणमयसि नूनं प्राप्तशोणं प्रयागम् ॥५६९॥विविधमणिमयूखैर्व्यक्तपक्षां विचित्रै - र्जलनिधिदुहितुस्त्वां वेद्मि लीलाचकोरीम् ।अनिशमविकलानां पादुके रङ्गभर्तु - श्चरणनखमणीनां चन्द्रिकामापिबन्तीम् ॥५७०॥चरणमकलसेवासङ्गिनां रङ्गभर्तु - र्विनयगरिमभाजां वर्जितैरातपत्रैः ।पुनरपि पदरक्षे पुष्यसि त्वं सुराणां बहुविधमणिकान्त्या बर्हिपिञ्छातपत्रम् ॥५७१॥मरतकरुचिपत्रा मौक्तिकस्मेरपुष्पा स्फुटकिसलयशोभाभासुरैः पद्मरागैः ।फलमखिलमुदारा रङ्गनाथस्य पादे कलयति भवती नः कल्पवल्लीव काचित् ॥५७२॥बहुमणिरुचिराङ्गीं रङ्गनाथस्य पादा - न्निजशिरसि गिरीशो निक्षिपन् पादुके त्वाम् ।स्मरति ललितमन्तर्लालनीयं भवान्या - स्तरलघनकलापं शण्मुखस्यौपवाह्यम् ॥५७३॥विविधमणिसमुत्थैर्व्यक्तमापादयन्तीं दिवसरजनिसन्ध्यायौगपद्ये मयूखैः ।उपनिशदुपगीतां पादुके रङ्गिणस्त्वा - मघटितघटनार्हां शक्तिमालोचयामः ॥५७४॥सकलमिदमवन्ध्ये शासने स्थापयन्ती मुरमथनपदस्था मौक्तिकादिप्रकारा । प्रकटयसि विशुद्धश्यामरक्तादिरूपान् फलपरिणतिभेदान् प्राणिनां पादुके त्वम् ॥५७५॥प्रदिशति मुदमक्ष्णोः पादुके देहभाजां शतमखमणिपङ्क्तिः शार्ङ्गिणस्तुल्यवर्णा ।परिसरनिहितैरते पद्मरागप्रदी पै - र्घनतरपरिणद्धा कज्जलश्यामिकेव ॥५७६॥कलयाऽपि हानिरहितेषु सदा तव मौक्तिकेषु परितः प्रथते ।उपरज्यमानहरिणाङ्कुतुला हरिपादुके हरिशिलामहसा ॥५७७॥मरतकपत्रला रुचिरविद्रुमपल्लविता पृथुतरमौक्तिकस्तबकिता निगमैः सुरभिः ।उपवनदेवतेव चरणावनि रङ्गपते - रभिलषतो विहारमभिगम्य पदं स्पृशसि ॥५७८॥सदोत्तुङ्गे रङ्गक्षितिरमणपादप्रणयिनि त्वदालोके तत्तन्मणिकिरणसम्भेदकलुषे ।प्रतिस्रोतोवृत्त्या प्रथितरुचिभेदं न सहते नवाम्भःस्वाच्छन्द्यं नमदमरकोटीरमकरः ॥५७९॥जनयसि पदावनि त्वं मुक्ताशोणमणिशक्रनीलरुचा । नखरुचिसन्ततिरुचिरां नन्दकनिस्त्रिंशसम्पदं शौरेः ॥५८०॥इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुकासहस्रे ॥ बहुरत्नपद्धतिःषोडशी ॥ N/A References : N/A Last Updated : September 03, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP