संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|श्रीपादुकासहस्रम्|
प्रभाव पद्धतिः

श्रीपादुकासहस्रम् - प्रभाव पद्धतिः

श्रीमद्वेदान्तदेशिक विरचितम्


वन्दे तद्रङ्गनाथस्य मान्यं पादुकयोर्युगम् ।
उन्नतानामवनतिर्नतानां यत्र चोन्नतिः ॥३१॥
निश्शेषमम्बरतलं यदि पत्रिका स्यात्
सप्तार्णवी यदि समेत्य मषी भवित्री ।
वक्ता सहस्रवदनः पुरुषः स्वयं चेत्
लिख्येत रङ्गपतिपादुकयोः प्रभावः ॥३२॥
वेदोपबृंहणकुतूहलिना निबद्धं
विश्वम्भरा श्रुतिभवेन महर्षिणा यत् ।
व्यासेन यच्च मधुसूदनपादरक्षे द्वे
चक्षुषी त्वदनुभावमूवेक्षितुं नः ॥३३॥
प्रत्यक्षयन्ति परिशुद्धधियो यथावद्
रामायणे रघुपुरन्दरपादरक्षे ।
शश्वत् प्रपञ्चितमिदम्परयैव वृत्त्या
सङ्क्षेपविस्तरदशासु तवानुभावम् ॥३४॥
अल्पश्रुतैरपि जनैरनुमेयसे त्वं
रङ्गेशपादु नियतं निगमोपगीता ।
सारं तदर्थमुपबृंहयितुं प्रणीतं रामायणं
तव महिम्नि यतः प्रमाणम् ॥३५॥
तिष्ठन्तु श्रुतयस्ततोऽपि महितं जागर्ति तत् पादुके
तत्तादृक्प्रथनाय तावकगुणग्रामाय रामायणम् ।
यस्यासीदरविन्दसम्भववधूमञ्जीरशिञ्जारव -
स्पर्धादुर्धरपादबद्धफणितिर्वल्मीकजन्मा कविः ॥३६॥
भक्तिप्रह्वपुरप्रभञ्जनजटावाटीसनीडस्फुर -
च्चूडारग्वधवासनापरिमलस्त्याने स्तुमः पादुके ।
रङ्गक्षोणिभृदङ्घ्रिपद्मयुगलीपूर्णप्रपत्तेः फलं
निश्चिन्वान्ति विपश्चितः शमधना नित्यं यदुत्तंसनम् ॥३७॥
मातर्माधवपादुके तव गुणान् कः स्तोतुमस्तोकधीः
कोटीरेषु यदर्पणप्रणयिनां सेवाक्षणे स्वर्गिणाम् ।
अन्योन्यं क्षिपतामहम्प्रथमिकासमर्दकोलाहलं
विष्वक्सेनविहारवेत्रलतिकाकम्पश्चिराल्लुम्पति ॥३८॥
योषिद्भूतदृषन्त्यपोढशकटस्थेमानि वैमानिक -
स्रोतस्विन्युपलम्भनानि भसितोदञ्चत्परीक्षिन्ति च ।
दूत्यादिष्वापि दुर्वचानि पदयोः कृत्यानि मत्वेव यद्
धत्ते तत्प्रणयं तदेव चरणत्राणं वृणे रङ्गिणः ॥३९॥
वन्दे तन्मधुकैटभारिपदयोर्मित्रं पदत्रद्वयं
यत्तद्भक्तिभरानतेन शिरसा यत्र क्कचित् बिभ्रति ।
द्वित्रब्रह्मविनाडिकावधिपदव्यत्यासशङ्काभर -
त्रासोत्कम्पदशाविसंस्थुलधृतिस्त्रौदिष्टपानां गणः ॥४०॥
पद्माकान्तपदान्तरङ्गविभवोद्रिक्तं पदत्रं भजे
यद्भक्त्या नमतां त्रिविष्टपसतां चूडापदेष्वर्पितम् ।
नित्यापीतनखेन्दुदीधितिसुधासन्दोहमुच्चैर्वम -
त्यन्तर्नूनममान्तमन्तिकलसच्छेषापटच्छद्मन ॥४१॥
तद्विष्णोः परमं पदत्रयुगलं त्रय्यन्तपर्यन्तगं
चिन्तातीतविभूतिकं वितरतु श्रेयांसि भूयांसि नः ।
यद् विक्रान्तिदशासमुत्थितपदप्रस्यन्दिपाथस्विनी -
सख्येनेव सदा नतस्य तनुते मौलौ स्थितिं शूलिनः ॥४२॥
अम्बुन्यम्बुनिधेरनन्यगतिभिर्मीनैः कियद् गम्यते
क्लेशेनापि कियद् व्यलङ्घि रभसोत्तुङ्गैः प्लवङ्गेश्वरैः ।
विज्ञाता कियती पुनः क्षितिभृता मन्थेन गम्भीरता
किं तैः केशवपादुकागुणमहाम्बोधेस्तटस्था वयम् ॥४३॥
पदकमलरजोभिर्वासिते रङ्गभर्तुः
परिचितनिगमान्ते पादुके धारयन्तः ।
अविदितपरिपाकं चन्द्रमुत्तंसयन्ते
परिणतभुवनं तत् पद्ममध्यासते वा ॥४४॥
सकृदपि किल मूर्ध्ना शार्ङ्गिणः पादुके त्वां
मनुजमनुवहन्तं देहबन्धव्यपाये ।
उपचरति यथार्हं देववर्गस्त्वदीयः
स तु नियमितभृत्यो जोषमास्ते कृतान्तः ॥४५॥
पदसरसिजमेतत् पादुके रङ्गभर्तुः
प्रतिनिधिपदवीं ते गाहते स्वेन भूम्ना ।
तदिदमपरधा चेत् तिष्ठतस्तस्य नित्यं
कथमिव विदितार्थास्त्वां भजन्ते महान्तः ॥४६॥
श्रुतिशिरसि निगूढं कर्मणां चोदितानां
त्वदवधि विनिवेशं नाधिगन्तुं क्षमाणाम् ।
परिहसति मुरारेः पादुके बालिशानां
पशुवधपरिशेषान् पण्डितो नामयज्ञान् ॥४७॥
जनयितुमलमर्घ्यं दैत्यजित्पादरक्षे
नमति महति देवे नाकसिन्धोर्विशीर्णाः ।
मुहुरहिपतिचूडामौलिरत्नाभिघातात्
परिणतलघिमानः पाथसामूर्मयस्ते ॥४८॥
पदसरसिजयोस्त्वं पादुके रङ्गभर्तु -
र्मनसि मुनिजनानां मौलिदेशे श्रुतीनाम् ।
वचसि च सुकवीनां वर्तसे नित्यमेका
तदिदमवगतं ते शाश्वतं वैश्वरूप्यम् ॥४९॥
परिसरविनतानां मूर्ध्नि दुर्वर्णपङ्क्तिं
परिणमयसि शौरेः पादुके त्वं सुवर्णम् ।
कुहकजनविदूरे सत्पथे लब्धवृत्तेः
क्क नु खलु विदितस्ते कोऽप्यसौ धातुवादः ॥५०॥
बलिमथनविहाराद्वर्धमानस्य विष्णो -
रखिलमतिपतद्भिर्विकमैरप्रमेयः ।
अवधिमनधिगच्छन् पापराशिर्मदीयः
समजनि पदरक्षे सावधिस्त्वन्महिम्ना ॥५१॥
तटभुवि यमुनायास्तस्थुषी यन्निवेशाद्
भजति निगमशाखावैभवं नीपशाखा ।
पदकमलमिंदं तत् पादुके रङ्गभर्तु -
स्त्वयि भजति विभूति पश्य शाखानुशाखाम् ॥५२॥
शिरसि विनिहितायां भक्तिनम्रे भवत्यां
सपदि तनुभृतस्तामुन्नतिं प्राप्नुवन्ति ।
मधुरिपुपदरक्षे यद्वशेनैव तेषा -
मनितरसुलभं तद्धाम हस्तापचेयम् ॥५३॥
सकृदपि भुवनेऽस्मिन् शार्ङ्गिणः पादुके त्वा -
मुपनिषदनुकल्पैरुत्तमाङ्गैर्दधानाः ।
नरकमिव महान्तो नाकमुल्लङ्घयन्तः
परिषदि निविशन्ते प्राक्तनानां गुरूणाम् ॥५४॥
शमदमगुणदान्तोदन्तवैदेशिकानां
शरणमशरणानां मादृशां माधवस्य ।
पदकमलमिदं ते पादुके रक्ष्यमासी -
दनुदयनिधनानामागमानां निधानम् ॥५५॥
परिचितपदपद्मां पादुके रङ्गिणस्त्वां
त्रिभुवनमहनीयां सादरं धारयन्तः ।
निजशिरसि निलीनं देवि मन्दारमाल्यं
निगमपरिमलैस्ते वासयन्तीव देवाः ॥५६॥
कनकसरिदनूपे कल्पवृक्षस्य भूष्णोः
पदकिसलयलग्ना पादुके मञ्जरी त्वम् ।
परिणतिमधुराणां या फलानां सवित्री
वहसि निगमबृन्दैः सम्पदं षट्पदानाम् ॥५७॥
परिकलयसि चेन्मां पद्मवासानिषेव्ये
पदकमलयुगे त्वं पादुके रङ्गभर्तुः ।
अविदितनिगमानां नूनमस्मादृशाना -
मघटितघटनी ते शक्तिराविष्कृता स्यात् ॥५८॥
श्रुतिशतशिरश्चूडापीडौ निपीडयितुं क्षमे
दुरितसरितामोघानेतानमोघविसर्पिणः ।
क्रमपरिणमद्वेधःश्रेणीशिखामणिघट्टना -
न्मसृणिततले रङ्गक्षोणीभृतो मणिपादुके ॥५९॥
जगज्जननरक्षणपणसङ्गिनो रङ्गिणः
पवित्रतममाद्रिये भगवतः पदत्रद्वयम् ।
शिवत्वकरणक्षमत्रिदिवसिन्धुसम्बन्धिनं
प्रधाव्य चरणं निजं प्रणिदधाति यत्र प्रभुः ॥६०॥
यदध्वरभुजां शिरः पदयुगं च रङ्गेशितु -
र्दृढं घटयितुं क्षमं भवति शेषशेषित्वतः ।
शिरस्त्रमिदमस्तु मे दुरितसिन्धुमुष्टिन्धयं
कदध्वविहतिक्षमं किमपि तत्पदत्रद्वयम् ॥६१॥
समुत्क्षिपति चेतसि स्थिरनिवेशिता तावकी
मुकुन्दमणिपादुके मुहुरुपासनावासना ।
उदर्कपरिकर्कशानुपरिपर्वणाखर्विता -
ननर्थशतगर्भितानमरशम्भलीविभ्रमान् ॥६२॥
विगाहन्ते रङ्गक्षितिपतिपदत्रायिणि सकृद्
वहन्तस्त्वामन्तर्विनिहितकुचेलव्यतिकराः ।
मदोद्दामस्तम्बेरमकरटनिर्यन्मधुझरी -
परीवाहप्रेङ्खद्भ्रमरमुखरामङ्गणभुवम् ॥६३॥
अधिदैवतमापतत्सु कल्पेष्वधिकारं भजतां पितामहानाम् ।
अभिरक्षतु रङ्गभर्तुरेषा करुणा काचन पादुकामयी नः ॥६४॥
ध्रुवमिन्द्रियनागश्रृङ्खला वा निरयद्वारनिवारणार्गला वा ।
अनपायपदादिरोहणी वा मम रङ्गेशविहारपादुके त्वम् ॥६५॥
शरणागतसार्थवाहशीलां श्रुतिसीमन्तपदप्रसाधनार्हाम् ।
अधिरङ्गमुपास्महे मुरारेर्महनीयां तपनीयपादुके त्वाम् ॥६६॥
इह ये भवतीं भजन्ति भक्त्या
कृतिनः केशवपादुके नियुक्ताः ।
कथयाम्ब तिरोहितं तृतीयं नयनं
त्रीणि मुखानि वा किमेषाम् ॥६७॥
मधुवैरिपरिग्रहेषु नित्यं क्षमया त्वं मणिपादुके समेता ।
तदपि क्षमसे न किं परेषां त्रिदशाधीश्वरशेखरे निवेशम् ॥६८॥
द्वितयं प्रतियन्ति रङ्गभर्तुः कतिचित् काञ्चनपादुके शरण्यम् ।
अभयान्वितमग्रिमं करं वा भवतीशेखरितं पदाम्बुजं वा ॥६९॥
भरताश्वसनेषु पादशब्दं वसुधाश्रोत्रसमुद्भवो मुनीन्द्रः ।
पठति त्वयि पादुके ततस्त्वं नियतं रामपदादभिन्नभूमा ॥७०॥
मकुटेषु निविश्य दिक्पतीनां पदमेव प्रतिपद्य रङ्गभर्तुः ।
परिरक्षसि पादुके पदं त्वं क्कनु भिद्येत गरीयसां प्रभावः ॥७१॥
जगतामभिरक्षणे त्रयाणामधिकारं मणिपादुके वहन्त्योः ।
युवयोः परिकर्मकोटिलग्नं चरनद्वन्द्वमवैमि रङ्गभर्तुः ॥७२॥
पदरक्षिणि वत्सला निकामं रघुवीरस्य पदाम्बुजादपि त्वम् ।
यदसौ भरतस्त्वयांशवत्त्वान्नपुनस्तादृशमन्वभूद्वियोगम् ॥७३॥
अभिगम्य मुकुन्दपादुके त्वामपनीतातपवारणैः शिरोभिः ।
हरितां पतयो दुरापमन्यैरनघच्छायमवान्पुवन्ति भोगम् ॥७४॥
अपहाय सितासितानुपायानरविन्देक्शणपादुके महान्तः ।
त्वदनन्यतया भजन्ति वृत्तिं त्वदसाधारणभोगसाभिलाषाः ॥७५॥
प्रणमन्ति न वा विधेर्विपाकाद् य इमे रङ्गनरेन्द्द्रपादुके त्वाम् ।
उपजातमनुत्तमाङ्गमेषामुभयेशामपि चित्रमुत्तमाङ्गम् ॥७६॥
तव केशवपादुके प्रभावो मम दुष्कर्म च नन्वनन्तसारे ।
नियमेन तथाऽपि पश्चिमस्य प्रथमेनैव पराभवं प्रतीमः ॥७७॥
अस्त्रभूषणतयैव केवलं विश्वमेतदखिलं बिभर्ति यः ।
अक्लमेन मणिपादुके त्वया सोऽपि शेखरतयैव धार्यते ॥७८॥
रामपादसहधर्मचारिणीं पादुके निखिलपातकछिदम् ।
त्वामशेषजगतामधीश्वरीं भावयामि भरताधिदेवताम् ॥७९॥
चूडाकपालव्यतिषङ्गदोषं विमोचयिष्यन्निव विष्णुपद्याः ।
कृतादरः केशवपादरक्षे बिभर्ति बालेन्दुविभवणस्त्वाम् ॥८०॥
त्वयैवनित्यं मणिपादरक्षे राजन्वती सृष्टिरियं प्रजानाम् ।
स्त्रीराज्यदोषप्रशमाय नूनं निर्दिश्यसे नाथविशेषणेन ॥८१॥
बिभर्षि नित्यं मणिपादुके त्वं विश्वम्भरं धाम निजेन भूम्ना ।
तवानुभावश्चुलकीकृतोऽयं भक्तैरजस्रं भवतीदधानैः ॥८२॥
परस्य पुंसः पदसन्निकर्षे तुल्याधिकारां मणिपादुके त्वाम् ।
उत्तंसयन्ति स्वयमुत्तमाङ्गैः शेषासमं शेषगरुत्मदाद्याः ॥८३॥
मुकुन्द पादाम्बुजधारिणि त्वां मोहादनुत्तंसयतां जनानाम् ।
मूर्ध्नि स्थिता दुर्लिपयो भवन्ति प्रशस्तवर्णावलयस्तदीयाः ॥८४॥
भूमिः श्रुतीनां भुवनस्य धात्री गुणौरनन्ता विपुला विभूत्या ।
स्थिरा स्वयं पालयितुं क्षमा नः सर्वंसहा शौरिपदावनि त्वम् ॥८५॥
स्थैर्यं कुलक्षोणिभृतां विधत्से
शेषादयस्त्वां शिरसा वहन्ति ।
पदप्रसूता परमस्य पुंसः
पृथ्वी महिम्ना मणिपादुके त्वम् ॥८६॥
दैत्याधिपानां बलिनां किरीटा
निक्षेपणं ते यदि नाभ्यनन्दन् ।
रङ्गेशपादावनि रङ्गधाम्नः
सोपानतां प्राप्य वहन्त्यमी त्वाम् ॥८७॥
शेषो गरुत्मान् मणिपादपीठी
त्वं चेति पादावनि विश्वमान्याः ।
तुल्याधिकारा यदि किन्तु सन्त -
स्त्वामेव नित्यं शिरसा वहन्ति ॥८८॥
परस्य पुंसः परमं पदं तद्
बिभर्षि नित्यं मुणिपादुके त्वम् ।
अन्यादृशां व्योमसदां पदानि
त्वय्यायतन्ते यदिदं न चित्रम् ॥८९॥
पादौ मुरारेः शरणं प्रजानां तयोस्तदेवासि पादावनि त्वम् ।
शरण्यतायास्तवमनन्यरक्षा सन्दृश्यसे विश्रमभूमिरेका ॥९०॥
अन्येषु पद्माकमलासनाद्यैरङ्गेषु रङ्गाधिपतेः श्रितेषु ।
पदावनि त्वामधिगम्य जातं पदं मुरारेरधिदैवतं नः ॥९१॥
क्षणं सरोजेक्षणपादुके यः कृतादरः किङ्कुरुते भवत्याः ।
अकिञ्चिनस्यापि भवन्ति शीघ्रं भ्रूकिङ्करास्तस्य पुरन्दराद्याः ॥९२॥
वहन्ति ये माधवपादुके त्वामुह्यन्त एते दिवि निर्विघाताः ।
हंसेन नित्यं शरदभ्रभासा कैलासगौरेण ककुद्मता वा ॥९३॥
रुद्रं श्रितो देवगणः स रुद्रः
पद्मासनं सोऽपि च पद्मनाभम् ।
स त्वामनन्तो न पुनस्त्वमन्यं
क एष पादावनि ते प्रभावः ॥९४॥
परस्य धाम्नः प्रतिपादनार्हां वदन्ति विद्यां मणिपादुके त्वाम् ।
यतस्तवैवाधिगमे प्रजानाण दूरीभवत्युत्तरपूर्वमंहः ॥९५॥
धन्या मुकुन्दस्य पदानुषङ्गाद् धनीयता येन समर्चिता त्वम् ।
वासस्तदीयो मणिपादरक्षे लक्ष्म्याऽलकामप्यधरीकरोति ॥९६॥
पदेन विष्णोः किमतेतरेषां
विसृज्य सङ्गं समुपासते त्वाम् ।
करोषि तान् किं त्वमपेतकामान्
कालेन पादावनि सत्यकामान् ॥९७॥
अभ्यासयोगेन निगृह्यमाणैरन्तर्मुखैरात्मविदो मनोभिः ।
मातस्त्वया गुप्तपदं प्रभावादन्वेषयन्त्यागमिकं निधानम् ॥९८॥
मूर्ध्ना दधानां मणिपादुके त्वामुत्तंसितं वा पुरुषं भवत्या ।
वदन्ति केचिद् वयमामनामस्त्वामेव साक्षादधिदैवतं नः ॥९९॥
मूर्ध्ना सतामधस्तादुपरिच विष्णोः पदेन सङ्घटिताम् ।
अदवीयसीं विमुक्तेः पदवीमवयन्ति पादुके भवतीम् ॥१००॥

इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथ पादुकासहस्रे
॥ प्रभावपद्धतिस्तृतीया ॥

N/A

References : N/A
Last Updated : August 30, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP