संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|श्रीपादुकासहस्रम्|
निर्यातनापद्धतिः

श्रीपादुकासहस्रम् - निर्यातनापद्धतिः

श्रीमद्वेदान्तदेशिक विरचितम्


अभिषेकोत्सवात् तस्माद्यस्यानिर्यातनोत्सवः ।
अत्यरिच्यत तां वन्दे भव्यां भरतदेवनाम् ॥२११॥
उपास्य वर्षाणि चतुर्दश त्वामुत्तारिकामुत्तरकोसलस्थाः ।
सनन्दनाद्यैरपि दुर्विगाहं सान्तानिकं लोकमवापुरग्र्यम् ॥२१२॥
पादावनि प्रत्ययितो हनूमान् सीतामिव त्वां चिरविप्रयुक्ताम् ।
प्रणम्य पौलस्त्यरिपोरुदन्तं विज्ञापयामास विनीतवेषः ॥२१३॥
तवाभिषेकान्मणिपादरक्षे मूले निषेकादिव वृद्धियोग्यात् ।
जहुस्तदैव त्रिदशाङ्गनानां प्रम्लानतां पत्रलताङ्कुराणि ॥२१४॥
सर्वतस्त्वदभिषेकवासरे सम्यगुद्धृतसमस्तकण्टके ।
राघवस्य विपिनेषु पादुके यत्रकामगमता व्यवस्थिता ॥२१५॥
किं चतुर्दशभिरेव वत्सरैर्नित्यमेव मणिपादुके युवाम् ।
पादयोस्त्रिभुवनाधिराजयोर्यौवराज्यमधिगच्छतं स्वयम् ॥२१६॥
रामस्य राक्षसवधत्वरितस्य काले
पादावनि प्रकटयन्निव पार्ष्णिगुप्तिम् ।
आचित्रकूटमधिगम्य शशंस वार्ता -
मव्याहतत्वदभिषेकमृदङ्गनादः ॥२१७॥
भद्राणि देवि जगतां प्रतिपादयिष्यन्
प्रागेव येन भवतीं भरतो‍भ्यषिञ्चत् ।
मन्ये कपीश्वरबिभीषणयोर्यथावत्
सन्तन्यते स्म तत एव किलाभिषेकः ॥२१८॥
सम्भिद्यमानतमसासरयूपनीतैः
संवर्धितस्तव शुभैरभिषेकतोयैः ।
मन्ये बभूव जलधिर्मणिपादरक्षे
रामास्त्रपावकशिकाभिरशोषणीयः ॥२१९॥
पादावनि त्वदभिषेचनमङ्गलार्थं
भेरीशतं भृशमताड्यत यत्प्रतीतैः ।
आकर्ण्य तस्य सहसा तुमुलं निनादं
लङ्काकवाटनयनानि निमीलितानि ॥२२०॥
तापोद्गमस्त्वदभिषेकजलप्रवाहै -
रुत्सारितस्त्वरितमुत्तरकोसलेभ्यः ।
लेभे चिराय रघुपुङ्गवपादरक्षे
लङ्कावरोधसुदृशां हृदयेषु वासम् ॥२२१॥
आवर्जितं विधिविदा मणिपादरक्षे
पद्मासनप्रियसुतेन पुरोहितेन ।
आसेन्निदानमभिषेकजलं त्वदीयं
नक्तञ्चरप्रनयिनीनयनोदकानाम् ॥२२२॥
देवि त्वया स्नपनसम्पदि संश्रितायां
दग्धे पुरे दशमुखस्य वलीमुखेन ।
आसीत् ततः प्रभृति विश्वजनप्रतीत -
मद्भ्योऽग्निरित्यवितथं वचनं मुनीनाम् ॥२२३॥
आयोध्यकैस्त्वदभिषेकसमिद्धहर्षै -
राध्मापिताः श्रुतिसुखं ननु ते तदानीम् ।
रामस्य राक्षसशिरोलवनेऽप्यशाम्यन्
येषां ध्वनिर्विजयशङ्खरवो बभूव ॥२२४॥
प्रथयितुमभिषेकं पाउद्के तावकीनं
दुरितशमनदक्षे दुन्दुभौ ताड्यमाने ।
सपदि परिगृहीतं साध्वसं देवि नूनं
दशवदनधूनां दक्षिणैर्नेत्रकोशैः ॥२२५॥
रघुपतिपदरक्षे रत्नपीठे यदा त्वा -
मखिलभुवनमान्यामभ्यषिञ्चद्वसिष्ठः ।
दशमुखमहिषीभिर्देवि बाष्पायिताभिः
स्तनयुगमभिषेक्तुं तत्क्षणादन्वमंस्थाः ॥२२६॥
रामास्त्राणि निमित्तमात्रमिह ते लब्धाभिषेका सती
रक्षस्तत् क्षपयाञ्चकार भवती भद्रासनस्थायिनी ।
यद्दोष्णामतिवेलदर्पदवथुज्वालोष्मलानां तदा
निष्पिष्टैः कलधौतशैलशिखरैः कर्पूरचूर्णायितम् ॥२२७॥
श्रुत्वैवं हनुमन्मुखाद्रघुपतेः प्रत्यागतिं तत्क्षणा -
दासीदद्भरतानुवर्तनवशादारूढकुम्भस्थलाम् ।
कालोन्निद्रकदुष्णदानमदिरामाद्यद्द्विरेफध्वनि -
श्लाघाचाटुभिरस्तुतेव भवतीं शत्रुञ्जयः कुञ्जरः ॥२२८॥
प्रत्यागतस्य भवतीमवलोक्य भर्तुः
पादारविन्दसविधे भरतोपनीताम् ।
पूर्वाभिषेकविभवाभ्युचितां सपर्यां
मध्ये सतामकृत मैथिलराजकन्या ॥२२९॥
सम्प्रेक्ष्य मैथिलसुता मणिपादरक्षे
प्रत्युद्गतस्य भवतीं भरतस्य मौलौ ।
निर्दिश्य सा निभृतमञ्जलिना पुरस्तात्
तारादिकाः प्रियसखीरशिषत् प्रणन्तुम् ॥२३०॥
तुल्येऽपि देवि रघुवीरपदाश्रयत्वे
पूर्वाभिशेकमधिगम्य गरीयसी त्वम् ।
तेनैव खल्वभजतां मणिपादरक्षे
रक्षःप्लवङ्गमपती भवतीं स्वमूर्ध्ना ॥२३१॥
निर्वृत्तराक्षसचमूमृगयाविहारो
रङ्गेश्वरः स खलु राघववंशगोप्ता ।
वंशक्रमादुपनतं पदमाददानो
मान्यं पुनस्त्वयि पदं निदधे स्वकीयम् ॥२३२॥
तत्तादृशोश्चरणयोः प्रणिपत्य भर्तुः
पौरास्त्वया विधृतयोः प्रतिपन्नसत्त्वाः ।
प्राप्ताभिषेकविभवामपि पादुके त्वा -
मानन्दबाष्पसलिलैः पुनरभ्यषिञ्चन् ॥२३३॥
मातस्त्वयैव समये विषमेऽपि सम्यक्
राजन्वतीं वस्मतीमवलोक्य रामः ।
सञ्जीवनायभरतस्य समग्रभक्तेः
सत्यप्रतिश्रवतयैव चकार राज्यम् ॥२३४॥
पादावनि प्रतिगतस्य पुरीमयोध्यां
पौलस्त्यहन्तुरभिषेकजलार्द्रमूर्तेः ।
अंसे यथार्हमधिवास्य निजैर्यशोभिः
कस्तूरिकेव निहिता वसुधा त्वयैव ॥२३५॥
याऽसौ चतुर्दश समाः पतिविप्रयुक्ता
विश्वम्भरा भगवती विधृता भवत्या ।
विन्यस्य तां रघुपतेर्भुजशैलश्रृङ्गे
भूयोऽपि तेन सहितां भवती बभार ॥२३६॥
निस्तीर्णदुःखजलधेरनघस्य देवि
त्वत्सम्प्रयुक्तरघुनाथपदान्वयेन ।
सद्यः सनन्दनमुखैरपि दुर्निरीक्षा
साम्राज्यसम्पदपरा भरतस्य जज्ञे ॥२३७॥
निर्गत्य देवि भरताञ्जलिपद्ममध्याद्
भूयः समागतवती पुरुषोत्तमेन ।
पद्मेव भद्रमखिलं मणिपादरक्षे
प्रादुश्चकार भवती जगतां त्रयाणाम् ॥२३८॥
रघुपतिमधिरोप्य स्वोचिते रत्नपीठे
प्रगुणमभजथास्त्वं पादुके पादपीठम् ।
तदपि बहुमतिस्ते तादृशी नित्यमासीत्
क्क नु खलु महितानां कल्प्यते तारतम्यम् ॥२३९॥
अनुवृत्तरामभावः शङ्के निर्विष्टचक्रवर्तिपदाम् ।
अधुनाऽपि रङ्गनाथः सचमत्कारं पदेन भजति त्वाम् ॥२४०॥

इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुकासहस्रे
॥ अष्टमी निर्यातनापद्धतिः ॥

N/A

References : N/A
Last Updated : September 03, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP