संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|श्रीपादुकासहस्रम्| समाख्या पद्धतिः श्रीपादुकासहस्रम् विषय सूची प्रस्ताव पद्धतिः समाख्या पद्धतिः प्रभाव पद्धतिः समर्पणपद्धतिः प्रतिप्रस्थानपद्धतिः अधिकारपरिग्रहपद्धतिः अभिषेकपद्धतिः निर्यातनापद्धतिः वैतालिकपद्धतिः श्रृङ्गारपद्धतिः सञ्चारपद्धतिः पुष्पपद्धतिः परागपद्धतिः नादपद्धतिः रत्नसामान्यपद्धतिः बहुरत्नपद्धतिः पद्मरागपद्धतिः मुक्तापद्धतिः मरतकपद्धतिः इन्द्रनीलपद्धतिः बिम्बप्रतिबिम्बपद्धतिः काञ्चनपद्धतिः शेषपद्धतिः द्वन्द्वपद्धतिः सन्निवेशपद्धतिः यन्त्रिकापद्धतिः रेखापद्धतिः सुभाषितपद्धतिः प्रकीर्णकपद्धतिः चित्र पद्धतिः निर्वेदपद्धतिः फलपद्धतिः श्रीपादुकासहस्रम् - समाख्या पद्धतिः श्रीमद्वेदान्तदेशिक विरचितम् Tags : padukasanksritपादुकासंस्कृत समाख्या पद्धतिः Translation - भाषांतर वन्दे विष्णुपदासक्तं तमृषिं तां च पादुकाम् ।यथार्था शठजित्संज्ञा मच्चित्तविजयाद्ययोः ॥२१॥द्रमिडोपनिषन्निवेशशून्यानपि लक्ष्मीरमणाय रोचयिष्यन् ।ध्रुवमाविशति स्म पादुकात्मा शठकोपः स्वयमेव माननीयः ॥२२॥नियतं मणिपादुके दधानः स मुनिस्ते शठकोप इत्यभिख्याम् ।त्वदुपाश्रितपादजातवंशप्रतिपत्यै परमाततान रूपम् ॥२३॥मुनिना मणिपादुके त्वया च प्रथिताभ्यां शठकोपसंज्ञयैव ।द्वितयं सकलोपजीव्यमासीत् प्रथमेन श्रुतिरन्यतस्तदर्थः ॥२४॥आकर्ण्य कर्णामृतमात्मवन्तो गाथासहस्रं शठकोपसूरेः ।मञ्जुप्रणादां मणिपादुके त्वां तदेकनामानमनुस्मरन्ति ॥२५॥यः सप्तपर्वव्यवधानतुङ्गां शेषत्वकाष्ठामभजन्मुरारेः ।तस्यापि नामोद्वहनात् त्वयोऽसौ लघूकृतोऽभूच्छठकोपसूरिः ॥२६॥शय्यात्मना मधुरिपोरसि शेषभूता पादाश्रयेण च पुनर्द्विगुणीकृतं तत् ।भूयोऽपि भागवतशेषतया तदेव व्यङ्क्तुं पदावनि शठारिपदं बिभर्षि ॥२७॥पद्येन देवि शठकोपमुनिस्तवासीत्तस्यापि नामवहनान्मणिपाद्के त्वम् ।शेषीबभूव युवयोरपि शेषशाये शेषं त्वशेषमपि शेषपदे स्थितं वः ॥२८॥विन्ध्यस्तम्भादविहतगतेर्विष्वगाचान्तसिन्धोःकुम्भीसूनोरसुरकबलग्रासिनः स्वैरभाषा ।नित्यं जाता शठरिपुतनोर्निष्पतन्ती मुखात् ते प्राचीनानां श्रुतिपरिषदां पादुके पूर्वगण्या ॥२९॥शठकोप इति समाख्या तव रङ्गधुरीणपादुके युक्ता । सूते सहस्रमेवं सूक्तीः स्वयमेव यन्मया भवती ॥३०॥इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुकासहस्रे ॥ समाख्यापद्धतिर्द्वितीया ॥ N/A References : N/A Last Updated : August 30, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP