संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|श्रीपादुकासहस्रम्|
पद्मरागपद्धतिः

श्रीपादुकासहस्रम् - पद्मरागपद्धतिः

श्रीमद्वेदान्तदेशिक विरचितम्


प्रपद्ये रङ्गनाथस्य पादुकां पद्मरागिणीम् ।
पदैकनियतां तस्य पद्मवासामिवापराम् ॥५८१॥
अतिवाड्मनसं विचिन्त्य शौरेः पदरक्षे पदपद्मसौकुमार्यम् ।
परिपुष्यसि पद्मरागभासा पदवीमाहितपल्लवामिव त्वम् ॥५८२॥
पदपल्लवसङ्गिभिः प्रदीप्तैरधिकोल्लासिभिरम्ब पद्मरागैः ।
अनले शयनं क्कचिन्मुरारेरविसंवादयसीव पादुके त्वम् ॥५८३॥
विवृणोति रङ्गपतिरत्नपादुके त्वयि पद्मरागमनिपद्धतिः शुभा ।
निबिडोरुसङ्घटनपीडनक्षरन्मधुकैटभक्षतजपङ्कवासनाम् ॥५८४॥
प्रतियन्ति रङ्गपतिपादुके जना -
स्तव पद्मरागमणिरश्मिसन्ततिम् ।
अभिजग्मुषां त्वदनुभावखण्डिता -
दघसञ्चयाद्विगलितामसृक्छटाम् ॥५८५॥
पश्यन्ति रङ्गेश्वरपादुके त्वां पौराङ्गनाः स्पर्शितरागबन्धाम् ।
श्रृङ्गारयोनेर्ज्वलनस्य दीप्तैरङ्गारजालैरिव पद्मरागैः ॥५८६॥
अवैमि दोषापगमस्य हेतुं तमोपहां सम्भृतपद्मरागाम् ।
अशेषवन्द्यां मणिपादुके त्वां रङ्गेशसूर्योदयपूर्वसन्ध्याम् ॥५८७॥
अवाप्य पादावनि रङ्गभर्तुःपादाम्बुजे पल्लवसंस्तराभाम् ।
त्वत्पद्मरागद्युतयो भजन्ते कालानलत्वं कलुशाम्बुधेर्नः ॥५८८॥
निसर्गसिद्धं मणिपादरक्षे देवस्य रङ्गावसथप्रियस्य ।
बालार्कवर्णाः पदपद्मरागं त्वत्पद्मरागाः पुनरुक्तयन्ति ॥५८९॥
पदेन विश्वं मणिपादरक्षे पत्न्या समं पालयतो मुरारेः ।
यशःपयोधौ परिकल्पयन्ति प्रवालशोभां तव पद्मरागाः ॥५९०॥
अर्चिष्मती काञ्चनपादरक्षे प्रस्तौति ते पाटलरत्नपङ्क्तिः ।
रेखारथाङ्गस्य महःप्रपञ्चं रङ्गेशपादाम्बुजमध्यभाजः ॥५९१॥
त्वयैव पादावनि शोणरत्नैर्बालातपं नूनमुदीरयन्त्या ।
पद्मापतेः पादतलप्ररूढं रेखाम्बुजं नित्यमभूदनिद्रम् ॥५९२॥
नित्यं निजालोकपथं गतानां श्रेयो दिशन्ती श्रितपद्मरागाम् ।
महीयसीं माधवपादरक्षे मन्यामहे मङ्गलदेवतां त्वाम् ॥५९३॥
देवस्य रङ्गरसिकस्य विहारहेतो -
रात्मानमङ्घ्रिकमले विनिवेद्य पूर्वम् ।
प्रायो निवेदयसि शोणमणिप्रकाशैः
प्रत्यूशपद्मकलिकां पदरक्षिणि त्वम् ॥५९४॥
प्रत्यड्मयस्य हविषः प्रणवेन देवि
प्रक्षेपणाय परमार्थविदां मुनीनाम् ।
प्राज्यां मुकुन्द्दचरणावनि पद्मरागैः
पर्यायपावकशिखां भवतीं प्रतीमः ॥५९५॥
सम्पद्यते तव पदावनि पद्मरागैः
प्रस्थानमाङ्गलिकहोमहुताशनश्रीः ।
क्षीराहुतिर्भवति यत्र विकल्पगङ्गा
रङ्गेश्वरस्य रुचिरा नखरश्मिधारा ॥५९६॥
आमुञ्चतामरुणयावकपङ्कलक्ष्मीं
शोणाश्मनां तव पदावनि कान्तियोगात् ।
पद्मासहायपदपद्मनखाः श्रयन्ते
सन्ध्यानुरञ्जितसुधाकरबिम्बशोभाम् ॥५९७॥
स्थाने तवाच्युतपदावनि पद्मरागा -
स्तेजोमयाः प्रशमयन्ति तमो मदीयम् ।
चित्रं तदेतदिह यज्जनयन्ति नित्यं
रागात्मकेन महसा रजसो निवृत्तिम् ॥५९८॥
पद्माकरान्तरविकासिनि रङ्गभर्तुः
पीत्वा पदावनि मधूनि पदारविन्दे ।
शोणोपलद्युतिमयीं सुभगप्रचारां
मन्ये बिभर्षि महतीं मदरागशोभाम् ॥५९९॥
पादावनि प्रसृमरस्य कलेर्युगस्य
प्रायेण सम्प्रति निवारयितुं प्रवेशम् ।
श्रीरङ्गसीम्नि तव शोणमणिप्रसूतः
प्राकारमग्निमयमारभते प्रकाशः ॥६००॥
लीलागृहान्तरविहारिणि रङ्गनाथे
लाक्षारसैररुणरत्नमयूखलक्ष्यैः ।
प्रायेण रञ्जयति पादसरोजयुग्मं
सैरन्ध्रिकेव भवती मणिपादरक्षे ॥६०१॥
रङ्गेशितुर्विहरतो मनिपादरक्षे
रथ्यान्तरे सुमनसः परिकीर्यमाणाः ।
त्वत्पद्मरागकिरनच्छुरणाद्भजन्ते
सन्ध्यातपान्तरिततारकपङ्क्तिलक्ष्मीम् ॥६०२॥
रङ्गाधिराजपदरक्षिणि बिभ्रतस्त्वां
गङ्गातरङ्गविमले गिरिशस्य मौलौ ।
संवर्धयन्ति महसा तव पद्मरागाः
शैलात्मजाचरणयावकपङ्कलक्ष्मीम् ॥६०३॥
शरणमुपगतानां शर्वरीं मोहरूपां
शमयितुमुदयस्थान्मन्महे बालसूर्यान् ।
पदसरसिजयोगाद्रङ्गनाथस्य भूयः
परिणमदरुणिम्नः पादुके पद्मरागान् ॥६०४॥
हरिपदरुचिराणां पादुके तावकाना -
मरुणमणिगणानां नूनमर्धेन्दुमौलिः ।
प्रणतिसमयलग्नां वासनामेव धत्ते
कलमकनिशकान्तिरपर्धिनीभिर्जटाभिः ॥६०५॥
प्रतिविहरणमेते पादुके रङ्गभर्तुः
पदकमलसगन्धाः पद्मरागास्त्वदीयाः ।
तरुणतपनमैत्रीमुद्वहद्भिर्मयूखैः
स्थलकमलविभूतिं स्थापयन्त्यव्यवस्थाम् ॥६०६॥
अयमनितरभोगान् रञ्जयन् वीतरागा -
नरुणमणिगणानां तावकानां प्रकाशः ।
मधुरिपुपदरक्षे मङ्क्षु जाज्वल्यमानः
शलभयति जनानां शाश्वतं पापराशिम् ॥६०७॥
प्रचुरनिगमगन्धाः पादुके रङ्गभर्तुः
पदकमलसमृद्धिं प्रत्यहं भावयन्तः ।
दधति शकलयन्तो गाढमन्तस्तमिस्रं
समुचितमरुणत्वं तावकाः पद्मरागाः ॥६०८॥
लाक्षालक्ष्मीमधुररुचके रङ्गिणः पादरक्षे
वक्त्राम्भोजे मदपरिणतिं पद्मरागद्युतिस्ते ।
कर्णोपान्ते किसलयरुचिं देवि सेवानतानां
सीमन्ते च त्रिदशसुदृशां सौति सिन्धूरशोभाम् ॥६०९॥
अरुणमणयस्तवैते हरिपदरागेण लब्धमहिमानः ।
गमयन्ति चरणरक्षे द्युमणिगणं ज्योतिरिङ्गणताम् ॥६१०॥

इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु श्रीरङ्गानाथपादुकासहस्रे
॥ पद्मरागपद्धतिः सप्तदशी ॥

N/A

References : N/A
Last Updated : September 03, 2017

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP