संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|श्रीपादुकासहस्रम्| यन्त्रिकापद्धतिः श्रीपादुकासहस्रम् विषय सूची प्रस्ताव पद्धतिः समाख्या पद्धतिः प्रभाव पद्धतिः समर्पणपद्धतिः प्रतिप्रस्थानपद्धतिः अधिकारपरिग्रहपद्धतिः अभिषेकपद्धतिः निर्यातनापद्धतिः वैतालिकपद्धतिः श्रृङ्गारपद्धतिः सञ्चारपद्धतिः पुष्पपद्धतिः परागपद्धतिः नादपद्धतिः रत्नसामान्यपद्धतिः बहुरत्नपद्धतिः पद्मरागपद्धतिः मुक्तापद्धतिः मरतकपद्धतिः इन्द्रनीलपद्धतिः बिम्बप्रतिबिम्बपद्धतिः काञ्चनपद्धतिः शेषपद्धतिः द्वन्द्वपद्धतिः सन्निवेशपद्धतिः यन्त्रिकापद्धतिः रेखापद्धतिः सुभाषितपद्धतिः प्रकीर्णकपद्धतिः चित्र पद्धतिः निर्वेदपद्धतिः फलपद्धतिः श्रीपादुकासहस्रम् - यन्त्रिकापद्धतिः श्रीमद्वेदान्तदेशिक विरचितम् Tags : padukasanksritपादुकासंस्कृत यन्त्रिकापद्धतिः Translation - भाषांतर उदग्रयन्त्रिकां वन्दे पादुकां यन्निवेशनात् ।उपर्यपि पदं विष्णोः प्रत्यादिष्टप्रसाधनम् ॥८०१॥प्रसभं प्रतिरुध्य कण्टकादीन् भवती शौरिपदाम्बुजादधस्तात् ।चराणावनि धारयत्यमुष्मि - न्नुचितच्छायमुपर्यपि प्रतीकम् ॥८०२॥मुरभिन्मणिपादुके त्वदीया - मनघामङ्गुलियन्त्रिकामवैमि ।स्वयमुन्नमितां प्रदेशिनां ते परमं दैवतमेकमित्यृचन्तीम् ॥८०३॥स्वदते मणिपादुके त्वदीया पदशाखायुगयन्त्रिका विचित्रा । परमं पुरुषं प्रकाशयन्ती प्रणवस्येव परेयमर्धमात्रा ॥८०४॥अनुयातमनोरथा मुरारेर्भवती केलिरथश्रियं दधाति ।चरणावनि यन्त्रिका तवैषा तनुते कूबरसम्पदं पुरस्तात् ॥८०५॥शङ्के भवत्याः सुभगं प्रतीकं रङ्गेशपादाङ्गुलिसङ्ग्रहार्थम् ।त्राणाय पादावनि विष्टपानामाज्ञाकरीमङ्गुलिमुद्रिकां ते ॥८०६॥अलङ्कृतं कर्णिकयोपरिष्टा - दुदग्रनालं तव यन्त्रिकांशम् ।पद्मापतेः पादसरोजलक्ष्म्याः प्रत्येमि पादावनि केलिपद्मम् ॥८०७॥उपरि विनिहितस्य केशवाङ्घ्रे - रुपरि पदावनि यन्त्रिकात्मिका त्वम् ।इति तव महिमा लघूकरोति प्रणतसुरेश्वरशेखराधिरोहम् ॥८०८॥नित्यं पदावनि निबद्धकिरीटशोभं पद्मालयापरिचितं पदमुद्वहन्त्याः ।अङ्गीकरोति रुचिमङ्गुलियन्त्रिका ते साम्राज्यसम्पदनुरूपमिवातपत्रम् ॥८०९॥प्रथमा कलेव भवती चरणावनि भाति रङ्गचन्द्रमसः ।श्रृङ्गोन्नतिरिव यत्र श्रियं विभावयति यन्त्रिकायोगः ॥८१०॥इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य कृतिषु श्रीरङ्गनाथपादुकासहस्रे ॥ यन्त्रिकापद्धतिः षङ्विंशी ॥ N/A References : N/A Last Updated : September 03, 2017 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP