मराठी मुख्य सूची|मराठी साहित्य|पोथी आणि पुराण|श्रीसप्तशतीगुरुचरित्रसार|
श्रीवासुदेवानन्दगुरुचरित्रसार

श्रीवासुदेवानन्दगुरुचरित्रसार

श्रीवासुदेवानन्दगुरुचरित्रसार


वन्दे श्रीसद्गुरुं दत्तं माधीशं साक्षिणं शिवं ।
तदीरितेन तत्तुष्टयै लिख्यते चरितं गुरो: ॥१॥
श्रीगुरोश्चरितं स्वल्पं रम्यं मंगलपावनं ।
सारभूतं हि तद्वच्मि ध्यादिशुद्धयै च बालधी: ॥२॥
मानग्रामे मानवा मानहीना प्रत्यग्वाहा निर्मला निर्मलाभा: ।
बाल: स्वज्ञो ब्रह्म गाणेशजोsभूद्वन्दे दत्तंण श्रीगुरुं वासुदेवम् ॥३॥
मौंज्या बंधनमष्टमे गुरुकुलावासो व्रतानां धरो वृत्वा सांगमृचं सुशास्त्रबहुविद्विद्याकलापारग: ।
मंत्रज्ञो विधिवत्स्वधर्मनिरत: सर्वर्द्धिसिद्धिप्रद: त्वत्पादं सततं नमामि च गुरो रक्षस्व मां बालकम् ॥४॥
स्वार्थं भिक्षान्नपूर्णाकरसुयुजमथो शांतिदांतिप्रदानो विद्वाड्मेशं हि वृत्वा त्रिविधमृणमपाकृत्य संन्यस्य योगीट् ।
तीर्थं तीर्थेशपादो व्रजति सुजनहृत्तापदीनार्तिहर्ता वन्दे तं वासुदेवं गुरुकविसदयेड्रक्ष रक्ष स्वबालम् ॥५॥
ससुखगवज्ज्येष्ठामाप्रतिपदि चानन्दवत्सरे विरमे । विरमे ब्रह्मणि सकलो विकलो भूत्वा नतोस्मि तत्पद्मे ॥६॥
कृष्णांत्यपूर्णानंदावत्सरए खे जातवब्दभौ । कृष्णाद्यपूर्णानंदावत्सरे खेजातवब्दभौ ॥७॥
श्रीसद्गुरुओश्चरित्रान्तं नो जानन्ति सुरादय: । वागीशा बालवाचात्र प्रीणातु प्रार्थना हि मे ॥८॥
इति श्रीवासुदेवानन्दगुरुचरित्रसारं संपूर्णम्.

N/A

References : N/A
Last Updated : May 26, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP