संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|नलोपाख्यानम्| द्वादशोsध्याय: नलोपाख्यानम् प्रथमोऽध्याय: द्वितीयोऽध्याय: तृतीयोऽध्याय: चतुर्थोऽध्याय: पच्ञमोsध्याय: षष्ठोsध्याय: सप्तमोsध्याय: अष्टमोsध्याय: नवमोsध्याय: दशमोsध्याय: एकादशोsध्याय: द्वादशोsध्याय: त्रयोदशोsध्याय: चतुर्दशोsध्याय: पच्ञदशोsध्याय: षोडशोsध्याय: सप्तदशोsध्याय: अष्टदशोsध्याय: नवदशोsध्याय: विंशतितमोsध्याय: एकविंशतितमोsध्याय: द्वाविंशतितमोsध्याय: त्रयोविंशतितमोsध्याय: चतुर्विंशतितमोsध्याय: पच्ञविंशतितमोsध्याय: षडविंशतितमोsध्याय: नलोपाख्यानम् - द्वादशोsध्याय: ` नलोपाख्यन ` ही नल आणि दमयंती यांची महाभारतातील एक सुरेख प्रेमकथा आहे. Tags : damayantinalnalopakhyanदमयंतीनलनलोपाख्यानसंस्कृत द्वादशोsध्याय: Translation - भाषांतर बृहदश्व उवाच ।सा निहत्य मृगव्याधं प्रतस्थे कमलेक्षणा ।वनं प्रतिभयं शून्यं झिल्लिकागणनादितम् ॥१॥सिंहद्वीपिरुरुव्याघ्रमहिषर्क्षगणैर्युतम् ।नानापक्षिगणाकीर्ण म्लेंच्छतस्करसेवितम् ॥२॥यूथशो ददृशे चात्र विदर्भाधिपनन्दिनी ।महिषांश्च वराहांश्च ऋक्षांश्च वनपन्नगान् ॥३॥तेजसा यशसा लक्ष्म्या स्थिता च परया युता ।नाबिभ्यत्सा नृपसुता भैमी तत्राथ कस्यचित् ॥४॥दारुणामटवीं प्राप्य भर्तुव्यसनपीडिता ।विदर्भतनया राजन्विललाप सुदु:खिता ॥५॥व्यूढोरस्क महाबाहो नैषधानां जनाधिप ।क्व नु राजन्गतोsसीह त्यक्त्वा मां विजने वने ॥६॥अश्वमेधादिभिर्वीर क्रतुभीर्भूरिदक्षिणै: ।कथामिष्टा नरव्याघ्र मयि मिथ्या प्रवर्तसे ॥७॥यत्त्वयोक्तं नरश्रेष्ठ मत्समक्षं महाद्युते ।स्मर्तुमर्हसि कल्याण वचनं पार्थिवर्षभ ॥८॥यच्चोक्तं विहगैर्हसै: समीपे तव भूमिप ।मत्समक्षं यदुक्तं च तदवेक्षितुमर्हसि ॥९॥हा वीर ननु नामाहमिष्टा किल तवानघ ।अस्यामटव्यां धोरायां किं मां न प्रतिभाषसे ॥१०॥भक्षयत्येष मां रौद्रो व्यात्तास्यो दारुणाकृति: ।अरण्यराट् क्षुधाविष्ट: किं मां न त्रातुमर्हसि ॥११॥न मे त्वदन्या काचिध्दि प्रियास्तीत्यब्रवी: सदा ।तामृतां कुरु कल्याण पुरोक्तां भारतीं नृप ॥१२॥उन्मतां विलपन्तीं मां भार्यामिष्टां नराधिप ।ईप्सितामीप्सितो नाथ किं मां न प्रतिभाषसे ॥१३॥यूथभ्रष्टामिवैकां मां हरिणीं पृथुलोचन ।न मानयसो मामार्य रुदतीमरिकर्षण ॥१४॥महाराज महारण्ये अहमेकाकिनी सती ।दमयन्त्यभिभाषे त्वां किं मां न प्रतिभाषसे ॥१५॥कुलशीलोपसंपन्न चारुसर्वाग्ङदर्शन ।नाद्य त्वां प्रतिपश्यामि गिरावस्मिन्नरोत्तम ॥१६॥वने चास्मिन्महाघोरे सिंहव्याघ्रनिषेविते ।शयानभुपविष्टं वा स्थितं वा निषधाधिप ॥१७॥कं नु पृच्छामि दु:खार्ता त्वदर्थे शोककर्षिता ।कच्चिदृष्टस्त्वयारण्ये संगत्येह नलो नृप: ॥१८॥यमन्वेषसि राजानं नलं पद्मनिभेक्षणम् ।अयं स इति कस्याद्य श्रोष्यामि मधुरां गिरम् ॥१९॥अरण्यराड्यं श्रीमांश्चतुर्दष्ट्रो महाहनु: ।शार्दूलोsभिमुखोsभ्येति पृच्छाम्येनमशक्ङिता ॥२०॥भवान्मृगाणामधिपस्त्वमस्मिन्कानने प्रभु: ।विदर्भराजतनयां दमयन्तीति विध्दि माम् ॥२१॥पतिमन्वेषतीमेकां कृपणां शोककर्षिताम् ।आश्वासय मृगेन्द्रेह यदि दृष्टस्त्वया नल: ॥२२॥अथवा त्वं वनपते नलं यदि न शससि ।मां खाद्य मृगश्रेष्ठ दु:खादस्माद्विमोचय ॥२३॥श्रुत्वारण्ये विलपितं ममैष मृगराट् स्वयम ।यात्येतां मृष्टसलिलामापगां सागरंगमाम् ॥२४॥इमं शिलोच्चयं पुण्यं शृग्ङैर्बहुभिरुच्छ्रितै: ।विराजद्भिर्दिविस्पृग्भिर्नैकवर्णैर्मनोहरे: ॥२५॥अस्यारण्यस्य महत: केतुभूतमिवोत्थितमं ।गिरिराजमिमं तावत्पृच्छामि नृपतिं प्रति ॥२६॥भगवन्नचलश्रेष्ठ दिव्यदर्शन विश्रुत ।शरण्य बहुकल्याण नमस्तेsस्तु महीधर ॥२७॥प्रणमे त्वाभिगम्याहं राजपुत्रीं निबोध माम् ।राज्ञ: स्नुषां राजभार्या दमयन्तीति विश्रुताम् ॥२८॥विदर्भराजाधिपति: पिता मम महारथ: ।भीमो नाम क्षितिपतिश्चातुर्वर्ण्यस्य रक्षिता ॥२९॥ब्रह्मण्य: साधुवृत्तश्च सत्यवागनसूयक: ।शीलवान्वीर्यसंपन्न: पृथुश्रीर्धर्मविच्छुचि: ॥३०॥सम्यग्गोप्ता विदर्भणां निर्जितारिगण: प्रभु: ।तस्य मां विध्दि तनयां भगवंस्त्वामुपस्थिताम् ॥३१॥निषधेषु महाराज: श्वशुरो मे नरोत्तम: ।गृहीतनामा विख्यातो वीरसेन इति स्म ह ॥३२॥तस्य राज्ञ: सुतो वीर: श्रीमान् सत्यपराक्रम: ।क्रमप्राप्तं पितु: स्वं यो राज्यं समनुशास्ति ह ।नलो नामारिहा श्याम: पुण्यश्लोक इति श्रुत: ॥३३॥ब्रह्मण्यो वेदविद्वाग्मी पुण्यकृत्सोमपोsग्निमान् ।यष्टा दाता च योध्दा च सम्यक् चैव प्रशासिता ॥३४॥तस्य मामाचलश्रेष्ठ विध्दि भार्यामिहागताम् ।अन्वेषमाणां भर्तारं तं व नरवरोत्तमम् ॥३५॥खमुल्लिखद्भिरेतैर्हि त्वया शृग्ङशतैर्नृप: ।कच्चिदृष्टोsचलश्रेष्ठ वनेsस्मिन्दारुणे नल: ॥३६॥गजेन्द्रविक्रमो धीमान्दीर्घबाहुरमर्षण: ।निषधानामधिपति: कच्चिदृष्टस्त्वया नल: ॥३७॥किं मां विलपन्तीमेकां पर्वतश्रेष्ठा बिह्ललाम् ।गिरा नाश्वासयस्यद्य स्वां सुतामिव दु:खिताम् ॥३८॥कदा सुस्मिग्धगम्भीरां जीमूतस्वनसंनिभाम् ।श्रोष्यामि नैषधस्याहं बाचं ताममृतोपमाम् ॥३९॥इति सा तं गिरिश्रेष्ठमुक्त्वा पार्थिवनन्दिनी ।दमयन्ती ततो भूयो जगाम दिशमुत्तराम् ॥४०॥सा गत्वा त्रीनहोरात्रान्ददर्श परभाग्ङना ।तापसारण्यमतुलं दिव्यकाननदर्शनम् ॥४१॥नियतै: संयताहारैर्दमशौचसमन्वितै: ।तापसै: समुपेतं च सा दृष्टैव समाश्वसत् ॥४२॥सा विवेशाश्रमपदं वीरसेनसुतप्रिया ।योषिद्रत्नं महाभागा दमयन्ती तपस्विनी ॥४३॥साभिवाद्य तपोवृध्दान्विनयावनता स्थिता ।स्वागतं त इति प्रोक्ता तै: सर्वैस्तापसैश्च सा ॥४४॥पूजां चास्या यथान्यायं कृत्वां तत्र तपोधना: ।आस्यतमित्यथोचुस्ते ब्रूहि किं करवामहै ॥४५॥तानुवाच वरारोहा कच्चिद्भगवतामिह ।तपस्यग्निषु कुशलं स्वधर्माचरणेषु च ॥४६॥तैरुक्ता कुशलं भद्रे सर्वत्रेति यशस्विनी ।ब्रूहि सर्वानवद्याग्ङि का त्वं किं च चिकीर्षसि ॥४७॥दृष्टैव ते परं रुपं द्युतिं च परमामिह ।विस्मयो न: समुत्पन्न: समाश्वासिहि मा शुच: ॥४८॥अस्यारण्यस्य देवी त्वमुताहोsस्य महीभृत: ।अस्याश्च नद्या: कल्याणि वद सत्यमनिन्दिते ॥४९॥साब्रवीत्तानृषीन्नाहरमण्यस्यास्य देवता ।न चाप्यस्य गिरेर्विप्रा नैव नद्याश्च देवता ॥५०॥मानुषा मां विजानीत यूयं सर्वे तपोधना: ।विस्तरेणाभिधास्यामि तन्मे शृणुत सर्वश: ॥५१॥विदर्भैषु महीपालो भीमो नाम महीपति: ।तस्य मां तनयां सर्वे जानीत द्विजसत्तमा: ॥५२॥निषधाधिपतिर्धीमान्नलो नाम महायशा: ।वीर: संग्रामजिद्विद्वान्मम भर्ता विशांपति: ॥५३॥देवताभ्यर्चनपरो द्विजातिजनवत्सल: ।गोप्ता निषधवंशस्य महातेजा महाबल: ॥५४॥स कैश्चिन्निकृतिप्रज्ञैरनार्यैरकृतात्मभि: ।आहूय पृथिवीपाल: सत्यधर्मपरायण: ।देवने कुशलैर्जिह्मैर्जितो राज्यं वसूनि च ॥५५॥तस्य मामवगच्छध्वं भार्या राजर्षभस्य वै ।दमयन्तीति विख्यातां भर्तुर्दर्शनलालसाम् ॥५६॥सा वनानि गिरीश्चैव विचरामीह दु:खिता ।अन्वेषमाणा भर्तारं नलं रणविशारदम् ॥५७॥कच्चिद्भगवतां रम्यं तपोवनमिदं नृपं ।भवेत्प्राप्तो नलो नाम निषधानां जनाधिप: ॥५८॥यत्कृतेsहमिदं दुर्ग प्रपन्ना भृशदारुणम् ।वनं प्रतिभयं घोरं शार्दूलमृगसेवितम् ॥५९॥यदि कैश्चिदहोरात्रैर्न द्रक्ष्यामि नलं नृपम् ।आत्मानं श्रेयसा योक्ष्ये देहस्यास्य विमोचनात् ॥६०॥का नु मे जीवितेनार्थस्तमृते पुरुषर्षभम् ।कथं भविष्याम्यद्याह भर्तृशोकाभिपीडिता ॥६१॥तथा विलपन्तीमेकामरण्ये भीमनन्दिनीम् ।दमयन्तीमथोचुस्ते तापसा: सत्यदर्शिन: ॥६२॥उदर्कस्तव कल्याणि कल्याणो भविता शुभे ।वयं पश्यामस्तपसा क्षिप्रं द्रक्ष्यसि नैषधम् ॥६३॥निषधानामधिपतिं नलं रिपुनिपातिनम् ।भैमि धर्मभृतां श्रेष्ठं द्रक्ष्यसे विगतज्वरम् ॥६४॥द्विषातां भयकर्तारं सुह्रदां शोकनाशनम् ।पतिं द्रक्ष्यसि कल्याणि कल्याणाभिजनं नृपम् ॥६५॥एवमुक्त्वा नलस्येष्टां महिषीं पार्थिवात्मजाम् ।तापसान्तर्हिता: सर्वे सान्गिहोत्राश्रमास्तदा ॥६६॥सा दृष्टा महदाश्चर्य विस्मिता ह्मभवत्तदा ।दमयन्त्यनवद्याग्ङी वीरसेननृपस्नुषा ।चिन्तयामास वैदर्भी किमेतदृष्टवत्यहम् ॥६७॥किं नु स्वप्नौ मया दृष्ट: कोsयं विधिरिहाभवत् ।क्व नु ते तापसा: सर्वे क्व तदाश्रममण्डलम् ॥६८॥ध्यात्वा चिरं भीमसुता दमयन्ती शुचिस्मिता ।भर्तृशोकपरा दीना विवर्णवदनाभवत् ॥६९॥सा गत्वाथापरां भूमिं बाष्पसंदिग्धया गिरा ।विललापाश्रुपूर्णाक्षी दृष्टाशोकतरुं तत: ॥७०॥अहो बतायमगम: श्रीमानस्मिन्वनान्तरे ।आपीडैर्बहुभिर्भाति श्रीमान्पर्वतराडिव ॥७१॥वीतशोकं भयाबाधं काच्चित्त्वं दृष्टवान्नृपम् ।नलं नामारिमर्दनं दमयन्त्या: प्रियं पतिम् ॥७२॥एकवस्त्रार्धसंवीतं सुकुमारतनुत्वचम् ।व्यसनेनार्दितं वीरमरण्यमिदमगतम् ॥७३॥यथा विशोका गच्छेयमशोकनग तत्कुरु ।सत्यनामा भवाशोका अशोक: शोकनाशन: ॥७४॥एवं साशोकवृक्षं तमार्ता वै परिगम्य ह ।जगाम दारुणतरं देशं भैमी वराग्ङना ॥७५॥सा ददर्श नगान्नैकान्नैकाश्च सरितस्तथा ।नैकांश्च पर्वतान् रम्यान्नैकांश्च मृगपक्षिण: ॥७६॥गत्वा प्रकृष्टमध्वानं दमयन्ती शुचिस्मिता ।ददर्शाथ महासार्थ हस्त्यश्वरथसंकुलम् ॥७७॥उत्तरन्तं नदीं रम्यां प्रसन्नसलिलां शुभाम् ।सुशान्ततोयां विस्तीर्णा ह्रदिनीं वेतसैर्वृताम् ॥७८॥सा दृष्टैव महासार्थ नलपत्नी यशस्विनी ।उपसर्प्य वरारोहा जनमधं विवेश ह ॥७९॥उन्मत्तरुपा शोकर्ता तथा वस्त्रार्धसंवृता ।कृशा विवर्णा मलिना पांशुध्वस्तशिरोरुहा ॥८०॥तां दृष्टा तत्र मनुजा: केचिद्भीता: प्रदुद्रुबु: ।केचिच्चिन्तापरास्तस्थु: केचित्तत्र प्रचुक्रुशु: ॥८१॥प्रहसन्ति स्म तां केचिदभ्यसूयन्ति चापरे ।अकुर्वत दयां केचित्पप्रच्छुश्चापि भारत ॥८२॥कासि कस्यासि कल्याणि किं वा मृगयसे वने ।त्वां दृष्टा व्यथिता: स्मेह कच्चित्त्वमसि मानुषी ॥८३॥वद सत्यं वनस्यास्य पर्वतस्याथवा दिश: ।दवता त्वं हि कल्याणि त्वां वयं शरणं गता: ॥८४॥यक्षी वा राक्षसी वा त्वमुताहोसि सुराग्ङना ।सर्वथा क्रुरु न: स्वस्ति रक्ष चास्माननिन्दिते ॥८५॥यथायं सर्वथा सार्थ: क्षेमी शीघ्रमितो व्रजेत् ।तथा विधत्स्व कल्याणि यथा श्रेयो हि नो भवेत् ॥८६॥प्रत्युवाच तत: साध्वी भर्तृव्यसनपीडिता ।सार्थवाहं च सार्थ च जना ये तत्र केचन ॥८७॥मानुषीं मा विजानीत मनुजाधिपते: सुताम् ।नृपस्नुषां राजभार्या भर्तृदर्शनलालसाम् ॥८८॥विदर्भराण्मम पिता भर्ता राजा च नैषध:।नलो नाम महाभागस्तं मार्गाम्यपराजिंतम् ॥८९॥यदि जानीथ नृपतिं क्षिप्रं शंसत मे प्रियम् ।नलं पुरुषशार्दूलममित्रगणसूदनम् ॥९०॥तामुवाचानवद्याग्ङीं सार्थस्य महत: प्रभु: ।सार्थवाह: शुचिर्नाम शृणु कल्याणि मद्वच: ॥९१॥अहं सार्थस्य नेता वै सार्थवाह: शुचिस्मिते ।मनुष्य़ं नलनामानं न पश्यामि यशस्विनी ॥९२॥कुच्ञरद्वीपिमहिषशार्दुलर्क्षमृगानपि ।पश्याम्यस्मिन्वने कृत्स्ने ह्ममनुष्यनिषेविते ॥९३॥ऋते त्वां मानुषीं मर्त्य न पश्यामि महावने ।तथा नो यक्षराडद्य मणिभद्र: प्रसीदतु ॥९४॥साब्रवीद्वणिज: सर्वान्सार्थवाहं च तं तत: ।क्व नु यास्यति सार्थोsयमेतदाख्यातुमर्हसि ॥९५॥सार्थवाह उवाच सार्थोsयं चेदिराजस्य सुबाहो: सत्यदर्शिन: ।क्षिप्रं जनपदं गन्ता लाभाय मनुजात्मजे ॥९६॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP