संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|नलोपाख्यानम्| अष्टदशोsध्याय: नलोपाख्यानम् प्रथमोऽध्याय: द्वितीयोऽध्याय: तृतीयोऽध्याय: चतुर्थोऽध्याय: पच्ञमोsध्याय: षष्ठोsध्याय: सप्तमोsध्याय: अष्टमोsध्याय: नवमोsध्याय: दशमोsध्याय: एकादशोsध्याय: द्वादशोsध्याय: त्रयोदशोsध्याय: चतुर्दशोsध्याय: पच्ञदशोsध्याय: षोडशोsध्याय: सप्तदशोsध्याय: अष्टदशोsध्याय: नवदशोsध्याय: विंशतितमोsध्याय: एकविंशतितमोsध्याय: द्वाविंशतितमोsध्याय: त्रयोविंशतितमोsध्याय: चतुर्विंशतितमोsध्याय: पच्ञविंशतितमोsध्याय: षडविंशतितमोsध्याय: नलोपाख्यानम् - अष्टदशोsध्याय: ` नलोपाख्यन ` ही नल आणि दमयंती यांची महाभारतातील एक सुरेख प्रेमकथा आहे. Tags : damayantinalnalopakhyanदमयंतीनलनलोपाख्यानसंस्कृत अष्टदशोsध्याय: Translation - भाषांतर बृहदश्व उवाच ।अथ दीर्घस्य कालस्य पर्णादो नाम वै द्विज: ।प्रत्येत्य नगरं भैमीमिदं वचनमब्रवीत् ॥१॥नैषधं मृगयाणेन दमयन्ति मया नलम् ।अयोध्यां नगरीं गत्वा भाग्ङासुरिरुपास्थित: ॥२॥श्रावितश्च मया वाक्यं त्वदीयं स महामते ।ऋतुपर्णो महाभागो यथोक्तं वरवर्णिनि ॥३॥तच्छ्रुत्वा नाब्रवीत्किंचिदृतुपर्णो नराधिप: ।न च परिषद: कश्चिद्भाष्यमाणो मयासकृत् ॥४॥अनुज्ञातं तु मां राज्ञा विजने कश्चिदब्रवीत् ।ऋतुपर्णस्य पुरुषो बाहुको नाम नामत: ॥५॥सूतस्तस्य नरेन्द्रस्य विरुपो ह्रस्वबाहुक: ।शीघ्रयानेषु कुशलो मिष्टकर्ता च भोजने ॥६॥स विनि:श्वस्य बहुशो रुदित्वा च पुन: पुन: ।कुशलं चैव मां पृष्टा पश्चादिदमभाषत ॥७॥वैषम्यमपि संप्राप्ता गोपयन्ति कुलस्त्रिय: ।आत्मानमात्मना सत्यो जितस्वर्गा न संशय: ॥८॥रहिता भर्तृभिश्चैव न क्रुध्यन्ति कदाचन ।प्राणांश्चारित्रकवचान्धारयन्ति वरस्त्रिय: ॥९॥विषमस्थेन मूढेन परिभ्रष्टसुखेन च ।यत्सा तेन परित्यक्ता तत्र न क्रोध्दुमर्हति ॥१०॥प्राणायात्रां परिप्रेप्सो: शकुनैर्ह्रतवासस: ।आधिभिर्दह्यमानस्य श्यामा न क्रोध्दुमर्हति ॥११॥तस्य तद्वचनं श्रुत्वा त्वरितोsहमिहागत: ।श्रुत्वा प्रमाणं भवती राज्ञश्चैव निवेदय ॥१२॥एतच्छ्रुत्वाश्रुपूर्णाक्षी पर्णादस्य विशांपते ।दमयन्ती रहोsभ्येत्य मातरं प्रत्यभाषत ॥१३॥अयमर्थो न संवेद्यो भीमे मात: कथंचन ।त्वत्संनिधौ नियोक्ष्येsहं सुदेवं द्विजसत्तमम् ॥१४॥यथा न नृपतिर्भीम: प्रतिपद्देत मे मतिम् ।तथा त्वया प्रयत्तव्यं मम चेत्प्रियमिच्छसि ॥१५॥यथा चाहं समानीता सुदेवेनाशु बान्धवान् ।तेनैव मग्ङलेनाशु सुदेवो यातु मा चिरम् ।समानेतुं नलं मातरयोध्यां नगरीमित: ॥१६॥विश्रान्तं तु तत: पश्चात्पर्णादं द्विजसत्तमम् ।अर्चयामास वैदर्भी धनेनातीव भाविनी ॥१७॥दमयन्त्युवाच ।त्वया हि मे बहु कृतं यथा नान्य: करिष्यति ।यद्भर्त्राहं समेष्यामि शीघ्रमेव द्विजोत्तम ॥१८॥बृहदश्व उवाच ।एवमुक्तोsथाश्वास्य तामाशीर्वादै: समग्ङलै: ।गृहानुपययौ चापि कृतार्थ: सुमहामना: ॥१९॥तत: सुदेवमानाय्य दमयन्ती युधिष्ठिर ।अब्रवीत्संनिधौ मातुर्दु:खशोकसमन्विता ॥२०॥गत्वा सुदेव नगरीमयोध्यावासिनं नृपम् ।ऋतुपर्णी वचो ब्रूहि पतिमन्यं चिकीर्षती ॥२१॥आस्थास्यति पुनर्भैमी दमयन्ती स्वयंवरम् ।तत्र गच्छन्ति राजानो राजपुत्राश्च सर्वश: ॥२२॥तथा च गणित: काल: श्वोभूते स भविष्यति ।यदि संभावनीयस्ते गच्छ शीघ्रमरिंदम ॥२३॥सूर्योदये द्वितीयं सा भर्तारं वरयिष्यति ।न हि स ज्ञायते वीरो नलो जीवति वा न वा ॥२४॥एवं तया यथोक्तो वै गत्वा राजानमब्रवीत् ।ऋतुपर्ण महाराज सुदेवो ब्राह्मणस्तदा ॥२५॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP