संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|नलोपाख्यानम्| षडविंशतितमोsध्याय: नलोपाख्यानम् प्रथमोऽध्याय: द्वितीयोऽध्याय: तृतीयोऽध्याय: चतुर्थोऽध्याय: पच्ञमोsध्याय: षष्ठोsध्याय: सप्तमोsध्याय: अष्टमोsध्याय: नवमोsध्याय: दशमोsध्याय: एकादशोsध्याय: द्वादशोsध्याय: त्रयोदशोsध्याय: चतुर्दशोsध्याय: पच्ञदशोsध्याय: षोडशोsध्याय: सप्तदशोsध्याय: अष्टदशोsध्याय: नवदशोsध्याय: विंशतितमोsध्याय: एकविंशतितमोsध्याय: द्वाविंशतितमोsध्याय: त्रयोविंशतितमोsध्याय: चतुर्विंशतितमोsध्याय: पच्ञविंशतितमोsध्याय: षडविंशतितमोsध्याय: नलोपाख्यानम् - षडविंशतितमोsध्याय: ` नलोपाख्यन ` ही नल आणि दमयंती यांची महाभारतातील एक सुरेख प्रेमकथा आहे. Tags : damayantinalnalopakhyanदमयंतीनलनलोपाख्यानसंस्कृत षडविंशतितमोsध्याय: Translation - भाषांतर बृहदश्व उवाच ।स मासमुष्य कौन्तेय भीममामन्त्र्य नैषध: ।पुरादल्पपरीवारो जगाम निषाधान्प्रति ॥१॥रथेनैकेन शुभ्रेण दन्तिभि: परिषोडशै: ।पञ्चाशाद्भिर्हयैश्चैव षट्शतैश्च पदातिभि: ॥२॥स कम्पयन्निव महीं त्वरमाणो महीपति: ।प्रविवेश सुसंरब्धस्तरसैव महामना: ॥३॥तत: पुष्करमासाद्य वीरसेनसुतो नल: ।उवाच दीव्याव पुनर्बहु वित्तं मयार्जितम् ॥४॥दमयन्ती च यच्चान्यन्मम किंचन विद्यते ।एष वै मम संन्यासस्तव राज्यं तु पुष्कर ॥५॥पुन: प्रवर्ततां द्यूतमिति मे निश्चिता मति: ।पणेनैकेन भद्रं ते प्राणायोश्च पणावहे ॥६॥जित्वा परस्वमाह्रत्य राज्यं वा यदि वा वसु ।प्रतिपाण: प्रदातव्य: परमो धर्म उच्यते ॥७॥न चेद्वाञ्छसि द्यूतं त्वं युध्दद्यूतं प्रवर्तताम् ।द्वैरथेनास्तु वै शान्तिस्तव वा मम वा नृप ॥८॥वंशभोज्यमिदं राज्यमर्थितव्यं यथा तथा ।येन केनाप्युपायेन वृध्दानामिति शासनम् ॥९॥द्वयोरेकतरे बुध्दि: क्रियतामद्य पुष्कर ।कैतवेनाक्षवत्यां वा युध्दे वा नाम्यतां धनु: ॥१०॥नैषधेनैवमुक्तस्तु पुष्कर: प्रहसन्निव ।ध्रुवमात्मजयं मत्वा प्रत्याह पृथिवीपतिम् ॥११॥दिष्ट्या त्वयर्जितं वित्तं प्रतिपाणाय नैषध ।दिष्ट्या च दुष्करं कर्म दमयन्त्या: क्षयं गतम् ॥१२॥धनेनानेन वै भैमी जितेन समलंकृता ।समुपस्थास्यति व्यक्तं दिवि शक्रमिवाप्सरा: ॥१३॥नित्यशो हि स्मरामि त्वां प्रतिक्षेsपि च नैषध ।देवनेन मम प्रीतिर्न भवत्यसुह्रद्नणै: ॥१४॥जित्वा त्वद्य वरारोहां दमयन्तीमनिन्दिताम् ।कृतकृत्यो भविष्यामि सा हि मे नित्यशो ह्रदि ॥१५॥श्रुत्वा तु तस्य ता वाचो बह्रबध्दप्रलापिन: ।इयेष स शिरश्छेत्तुं खग्डेन कुपितो नल: ॥१६॥स्मयंस्तु रोषताम्राक्षस्तमुवाच ततो नल: ।पणाव: किं व्यायरसे जितो न व्याहरिष्यसि ॥१७॥तत: प्रावर्तत द्यूतं पुष्करस्य नलस्य च ।एकपाणेन वीरेण नलेन स पराजित: ॥१८॥जित्वा तु पुष्करं राजा प्रहसन्निदमब्रवीत् ।मम सर्वमिदं राज्यमव्यग्रं हतकण्टकम् ॥१९॥वैदर्भी न त्वया शक्या राजासपद वीक्षितुम ।तस्यास्त्वं सपरीवारो मूढ दासत्वमागत: ॥२०॥न त्वया तत्कृतं कर्म येनाहं विजित: पुरा ।कलिना तत्कृतं कर्म त्वं च मूढ न बुध्यसे ॥२१॥नाहं परकृतं दोषं त्वय्याधास्ये कथंचन ।यथासुखं वै जीव त्वं प्राणानवसृजामि ते ॥२२॥तथैव सर्व संभारं स्वमंशं वितरामि ते ।तथैव च मम प्रीतिस्त्वयि वीर न संशय: ॥२३॥सौहार्द चापि मे त्वत्तो न कदाचित्प्रहास्यति ।पुष्कर त्वं हि मे भ्राता संजीव शरद: शतम् ॥२४॥एवं नल: सान्त्वयित्वा भ्रातरं सत्यविक्रम: ।स्वपुरं प्रेषयामास परिष्वज्य पुन: पुन: ॥२५॥सन्त्वितो नैषधेनैवं पुष्कर: प्रत्युवाच ह ।पुण्यश्लोकं तदा राजन्नभिवाद्य कृताञ्जलि: ॥२६॥कीर्तिरस्तु तवाक्षय्या जीव वर्षायुतं सुखी ।यो मे वितरसि प्राणानधिष्ठानं च पार्थिव ॥२७॥स तथा सत्कृतो राज्ञा मासमुष्य ततो नृप: ।प्रययौ स्वपुरं ह्रष्ट: पुष्कर: स्वजनान्वित: ॥२८॥प्रस्थाप्य पुष्करं राजा वित्तवन्तमनामयम् ।प्रविवेश पुरं श्रीमानत्यर्थमुपशोभितम् ॥२९॥पौरजानपदाश्चापि संप्रह्रष्टतनूरुहा: ।ऊचु: प्राञ्जलय: सर्वे समात्यप्रमुखा जना: ॥३०॥अद्य स्म निर्वृता राजन्पुरे जनपदेsपि च ।उपासितुं पुन: प्राप्ता देवा इव शतक्रतुम् ॥३१॥प्रशान्ते तु पुरे ह्रष्टे संप्रवृत्ते महोत्सवे ।महत्या सेनया राजा दमयन्तीमुपानयत् ॥३२॥दमयन्तीमपि पिता सत्कृत्य परवीरहा ।प्रास्थापयदमेयात्मा भीमो भीमपराक्रम: ॥३३॥आगतायां तु वैदर्भ्या सपुत्रायां नलो नृप: ।वर्तयामास मुदितो देवराडिव नन्दने ॥३४॥तत: प्रकाशतां यातो जम्बुध्दीपे स राजसु ।पुन: शशास तद्राज्यं प्रत्याह्रत्य महायशा: ॥३५॥॥ इति नलोपाख्यानं समाप्तम् ॥समाप्त N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP