संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|नलोपाख्यानम्| नवमोsध्याय: नलोपाख्यानम् प्रथमोऽध्याय: द्वितीयोऽध्याय: तृतीयोऽध्याय: चतुर्थोऽध्याय: पच्ञमोsध्याय: षष्ठोsध्याय: सप्तमोsध्याय: अष्टमोsध्याय: नवमोsध्याय: दशमोsध्याय: एकादशोsध्याय: द्वादशोsध्याय: त्रयोदशोsध्याय: चतुर्दशोsध्याय: पच्ञदशोsध्याय: षोडशोsध्याय: सप्तदशोsध्याय: अष्टदशोsध्याय: नवदशोsध्याय: विंशतितमोsध्याय: एकविंशतितमोsध्याय: द्वाविंशतितमोsध्याय: त्रयोविंशतितमोsध्याय: चतुर्विंशतितमोsध्याय: पच्ञविंशतितमोsध्याय: षडविंशतितमोsध्याय: नलोपाख्यानम् - नवमोsध्याय: ` नलोपाख्यन ` ही नल आणि दमयंती यांची महाभारतातील एक सुरेख प्रेमकथा आहे. Tags : damayantinalnalopakhyanदमयंतीनलनलोपाख्यानसंस्कृत नवमोsध्याय: Translation - भाषांतर बृहदश्व उवाच ।ततस्तु याते वार्ष्णेये पुण्यश्लोकस्य दीव्यत: ।पुष्करेण ह्रतं राज्यं यच्चान्यद्वसु किंचन ॥१॥ह्रतराज्यं नलं राजन्प्रहसन्पुष्करोsब्रवीत ।द्युतं प्रवर्ततां भूय: प्रतिपाणोsस्ति कस्तव ॥२॥शिष्टा ते दमयन्त्येका सर्वमन्यज्जितं मया ।दमयन्त्या: पण: साधु वर्ततां यदि मन्यसे ॥३॥पुष्करेणौवमुक्तस्य पुण्यश्लोकस्य मन्युना ।व्यदीर्यतेव ह्रदयं न चैनं किंचिदब्रवीत् ॥४॥तत: पुष्करमालोक्य नल: परममन्युमान् ।उत्सृज्य सर्वगात्रेभ्यो भूषणानि महायशा: ॥५॥एकवासा ह्यसंवीत: सुह्रच्छोकविवर्धन: ।निश्चक्राम ततो राजा त्यक्त्वा सुविपुलां श्रियम् ॥६॥दमयन्त्येवस्त्राथ गच्छन्तं पृष्ठतोsन्वगात् ।स तया बाह्यत: सार्ध त्रिरात्रं नैषधोsवसत् ॥७॥पुष्करस्तु महाराज घोषयामास वै पुरे ।नले य: सम्यगातिष्ठेत्स गच्छेद्वध्यतां मम ॥८॥पुष्करस्य तु वाक्येन तस्य विद्वेषणेन च ।पौरा न तस्य सत्कारं कृतवन्तो युधिष्ठिर ॥९॥स तथा नगराभ्यासे सत्कारार्हो न सत्कृत: ।त्रिरात्रमुषितो राजा जलमात्रेण वर्तयन् ॥१०॥पीड्यमान: क्षुधा तत्र फलमूलानि कर्षयन् ।प्रातिष्ठत ततो राजा दमयन्ती तमन्वगात् ॥११॥क्षुधया पीड्यमानस्तु नलो बहुतिथेsहनि ।अपश्यच्छकुनान्कांश्चिध्दिरण्यसदृशच्छदान् ॥१२॥स चिन्तयामास तदा निषधाधिपतिर्बली ।अस्ति भक्ष्यो ममाद्यायं वसु चेदं भविष्यति ॥१३॥ततस्तान्परिधानेन वाससा स समावृणोत् ।तस्य तद्वस्त्रमादाय सर्वे जग्मुर्विहायसा ॥१४॥उत्पतन्त: खगा वाक्यमेतदाहुस्ततो नलम् ।दृष्टा दिग्वाससं भूमौ स्थितं दीनमधोमुखम् ॥१५॥वयमक्षा: सुदुर्बुध्दे तव वासो जिहीर्षव: ।आगता न हि न: प्रीति: सवाससि गते त्वयि ॥१६॥तान्समीक्ष्य गतानक्षानात्मानं च विवाससम ।पुण्यश्लोकस्तदा राजन्दमयन्तीमथाब्रवीत् ॥१७॥येषां प्रकोपादैश्वर्यात्प्रच्युतोsहमनिन्दिते ।प्राणायात्रां न विन्दे च दु:खित: क्षुधयान्वित: ॥१८॥येषां कृते न सत्कारमकुर्वन्मयि नैषधा: ।त इमे शकुना भूत्वा वासोsप्यपहरन्ति मे ॥१९॥वैषम्यं परमं प्राप्तो दु:खितो गतचेतन: ।भर्ता तेsहं निबोधेदं वचनं हितमात्मन: ॥२०॥एते गच्छन्ति बहव: पन्थानो दक्षिणापथम् ।अवन्तीमृक्षवन्तं च समतिक्रम्य पर्वतम् ॥२१॥एष विन्ध्यो महाशैल: पयोष्णी च समुद्रगा ।आश्रमाश्च महर्षीणां बहुमूलफलान्विता: ॥२२॥एष पन्था विदर्भाणामसौ गच्छति कोशलान् ।अत: परं च देशोsयं दक्षिणे दक्षिणापथ: ॥२३॥एतद्वाक्यं नलो राजा दमयन्तीं समाहित: ।उवाचासकृदार्तो हि भैमीमुद्दिश्य भारत ॥२४॥तत: सा बाष्पकलया वाचा दु:खेन कर्षिता ।उवाच दमयन्ती तं नैषधं करुणं वच: ॥२५॥उद्वेजते मे ह्रदयं सीदन्त्यङगानि सर्वश: ।तव पार्थिवं संकल्पं चिन्तयन्त्या: पुन: पुन: ॥२६॥ह्रतराज्यं ह्रतद्रव्यं विवस्त्रं क्षुत्तृषान्वितम् ।कथमुत्सृज्य गच्छेयमहं त्वां निर्जने वने ॥२७॥श्रान्तस्य ते क्षुधार्तस्य चिन्तयानस्य तत्सुखम् ।वने घोरे महाराज नाशयिष्याम्यहं क्लमम् ॥२८॥न च भार्यासमं किंचिद्विद्यते भिषजां मतम् ।औषधं सर्वदु:खेषु सत्यमेतद्रवीमि ते ॥२९॥नल उवाच ।एवमेतद्यथात्थ त्वं दमयन्ति सुमध्यमे ।नास्ति भार्यासमं मित्रं नरस्यार्तस्य भेषजम् ॥३०॥न चाहं त्यक्तुकामस्त्वां किमर्थ भीरु शक्ङसे ।त्यजेयम्हमात्मानं न चैवं त्वामनिन्दिते ॥३१॥दमयन्त्युवाच ।यदि मां त्वं महाराज न विहातुमिहेच्छसि ।तत्किमर्थ विदर्भाणां पत्था: समुपदिश्यते ॥३२॥अवैमि चाहं नृपते न तु मां त्यक्तुमर्हसि ।चेतसा त्वपकृष्टेन मां त्यजेथा महीपते ॥३३॥पत्थानं हि ममाभीक्ष्णमाख्यासि च नरोत्तम ।अतो निमित्तं शोकं मे वर्धयस्यमरोपम् ॥३४॥यदि चायमभिप्रायस्तव ज्ञातीन्व्रजेदिति ।सहितावेव गच्छावो विदर्भन्यदि मन्यसे ॥३५॥विदर्भराजस्तत्र त्वां पूजयिष्यति मानद ।तेन त्वं पूजितो राजन्सुखं वत्स्यसि नो गृहे ॥३६॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP