नलोपाख्यानम् - सप्तमोsध्याय:

` नलोपाख्यन ` ही नल आणि दमयंती यांची महाभारतातील एक सुरेख प्रेमकथा आहे.


बृहदश्व उवाच ।

एवं स समयं कृत्वा द्वापरेण कलि: सह ।
आजगाम ततस्तत्र यत्र राजा न नैषध: ॥१॥
स नित्यमन्तरप्रेप्सुर्निषधेष्वसच्चिरम्म ।
अथास्य द्वादशे वर्षे ददर्श कलिरन्तरम् ॥२॥
कृत्वा मूत्रमुपस्पृश्य संध्यामन्वास्त नैषध: ।
अकृत्वा पादयो: शौचं तत्रैनं कलिराविशत् ॥३॥
स समाविश्य च नलं समीपं पुष्करस्य च ।
गत्वा पुष्करमाहेदस्मेहि दीव्य नलेन वै ॥४॥
अक्षद्यूचे नलं जेता भवान्हि सहितो मया ।
निषधान्प्रतिद्यस्व जित्वा राज्यं नलं नृपम् ॥५॥
एवमुक्तस्तु कलिना पुष्करो नलमभ्ययात् ।
कलिश्चैव वृषो भूत्वा गवां पुष्करमभ्यगात् ॥६॥
आसाद्य तु नलं वीरं पुष्कर: परवीरहा ।
दीव्यवेत्यब्रवीद्भाता वृषेणेति मुहुर्मुहु: ॥७॥
न चक्षमे ततो राजा समाह्नानं महामना : ।
वैदर्भ्या: प्रेक्षमाणाया: पणकालममन्यत ॥८॥
तमक्षमदसंमत्तं सुह्रदां न तु कश्चन ।
निवारणेsभवच्छक्तो दीव्यमानमरिंदमम् ॥९॥
तत: पौरजना: सर्वे मन्त्रिभि: सह भारत ।
राजानं द्रष्टुमागच्छन्निवारयितुमातुरम् ॥१०॥
तत: सूत उपागम्य दमयन्त्यै न्यवेदयत् ।
एष पौरजनो देवि द्वारि तिष्ठति कार्यवान् ॥११॥
निवेद्यतां नैषधाय सर्वा: प्रकृतय: स्थिता: ।
अमृष्यमाणा व्यसनं राज्ञो धर्मार्थदर्शिन: ॥१२॥
तत: सा बाष्पकलया वाचा दु:खेन कर्षिता ।
उवाच नैषधं भैमी शोकोपहतचेतना ॥१३॥
राजन्पौरजनो द्वारि त्वां दिदृक्षुरवस्थित: ।
मन्त्रिभि: सहित: सर्वे राजभक्तिपुरस्कृत: ॥१४॥
तां तथा रुचिरापाग्ङीं विलपन्तीं तथाविधम् ।
आविष्ट: कलिना राजा नाभ्यभाषात किंचन ॥१५॥
ततस्ते मन्त्रिण: सर्वे ते चैव पुरवासिन: ।
नायमस्तीति दु:खार्ता व्रीडिता जग्मुरालयान् ॥१६॥
तदा तदभवद्दयुतं पुष्करस्य नलस्य च ।
युधिष्ठिर बहुन्मासान्पुण्यश्लोकस्त्वजीयत ॥१७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP