संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|नलोपाख्यानम्| अष्टमोsध्याय: नलोपाख्यानम् प्रथमोऽध्याय: द्वितीयोऽध्याय: तृतीयोऽध्याय: चतुर्थोऽध्याय: पच्ञमोsध्याय: षष्ठोsध्याय: सप्तमोsध्याय: अष्टमोsध्याय: नवमोsध्याय: दशमोsध्याय: एकादशोsध्याय: द्वादशोsध्याय: त्रयोदशोsध्याय: चतुर्दशोsध्याय: पच्ञदशोsध्याय: षोडशोsध्याय: सप्तदशोsध्याय: अष्टदशोsध्याय: नवदशोsध्याय: विंशतितमोsध्याय: एकविंशतितमोsध्याय: द्वाविंशतितमोsध्याय: त्रयोविंशतितमोsध्याय: चतुर्विंशतितमोsध्याय: पच्ञविंशतितमोsध्याय: षडविंशतितमोsध्याय: नलोपाख्यानम् - अष्टमोsध्याय: ` नलोपाख्यन ` ही नल आणि दमयंती यांची महाभारतातील एक सुरेख प्रेमकथा आहे. Tags : damayantinalnalopakhyanदमयंतीनलनलोपाख्यानसंस्कृत अष्टमोsध्याय: Translation - भाषांतर बृहदश्व उवाच ।दमयन्ती ततो दृष्टा पुण्यश्लोकं नरधिपम् ।उन्मत्तवदनुन्मत्ता देवने गतचेतसम् ॥१॥भयशोकसमाविष्टा राजन्भीमसुता तत: ।चिन्तयामास तत्कार्य सुमहत्पार्थिवं प्रति ॥२॥सा शक्ङमाना तत्पापं चिकीर्षन्ती च तत्प्रियम् ।नलं च ह्रतसर्वस्वमुपलभ्येदमब्रवीत् ॥३॥बृहत्सेनामतियशां तां धात्रीं परिचारिकाम् ।हितां सर्वार्थकुशलामनुरक्तां सुभाषिताम् ॥४॥बृहत्सेने व्रजामात्यानानाय्य नलशासनात् ।आचश्व यध्दृतं द्रव्यमवशिष्टं च यद्वसु ॥५॥इत्येवं सा समादिष्टा बृहत्सेना नरेश्वर ।उवाच देव्या वचनं मन्त्रिणां सा समीपत: ॥।६॥ततस्ते मन्त्रिण: सर्वे विज्ञाया नलशासनम् ।अपि नो भागधेयं स्यादित्युक्त्वा नलमाव्रजन् ॥७॥तास्तु सर्वा: प्रकृतयो द्वितीयं समुपस्थिता: ।न्यवेदयद्भीमसुता न स तत्प्रत्यनन्दत ॥८॥वाक्यमप्रतिनन्दन्तं भर्तारमाभिवीक्ष्य सा ।दमयन्ती पुनर्वेश्म व्रीडिता प्रविवेश ह ॥९॥निशम्य सततं चाक्षान्पुण्यश्लोकपराङमुखान् ।नलं च ह्रतसर्वस्वं धात्रीं पुनरुवाच ह ॥१०॥बृहत्सेने पुनर्गच्छ वार्ष्णेयं नलशासनात् ।सूतामानय कल्याणि महत्कार्यमुपस्थितम् ॥११॥बृहत्सेना तु तच्छुत्वा दमयन्त्या: प्रभाषितम् ।वार्ष्णेयमानयामास पुरुषैराप्तकारिभि: ॥१२॥वार्ष्णेयं तु ततो भैमी सान्त्वयञ्श्लक्ष्णया गिरा ।उवाच देशकालज्ञा प्राप्तकालमनिन्दिता ॥१३॥जनीषे त्वं यथा राजा सम्यग्वृत्त: सदा त्वयि ।तस्य त्वं विषमस्थस्य साहाय्यं कर्तुमर्हसि ॥१४॥यथा यथा हि नृपति: पुष्करेणैव जीयते ।तथा तथास्य वै द्युते भूयो रागोsभिवर्धते ॥१५॥यथा च पुष्करस्याक्षा: पतन्ति वशवर्तिन: ।तथा विपर्ययश्चापि नलस्याक्षेषु दृश्यते ॥१६॥सुह्रत्स्वजनवाक्यानि यथावन्न शृणोति च ।ममापि च तथा वाक्यं नाभिनन्दति नैषध: ॥१७॥नूनं मन्ये न दोषोsस्ति नैषधस्य महान्मन: ।यत्तु मे वचनं राजा नाभिनन्दति मोहित: ॥१८॥शरणं त्वां प्रपन्नास्मि सारथे कुरु मद्वच: ।नलस्य दयितानश्वान्योजयित्वा मनोजवान् ।इदमारोप्य मिथुनं कुण्डिनं यातुमर्हसि ॥१९॥मम ज्ञातिषु निक्षिप्य दारकौ स्यन्दनं तथा ।अश्वांश्चैमानयथाकामं वस वान्यत्र गच्छ वा ॥२०॥दमयन्त्यास्तु तद्वाक्यं वार्ष्णेयो नलसारथि: ।न्यवेदयदशेषेण नलामात्येषु मुख्यश: ॥२१॥तैः समेत्य विनिश्चित्य सोsनुज्ञातो महीपते ।ययौ मिथुनमारोप्य विदर्भास्तेन वाहिना ॥२२॥हयांस्तत्र विनिक्षिप्य सूतो रथवरं च तम् ।इन्द्रसेनां च तां कन्यामिन्द्रसेनं च बालकम् ॥२३॥आमन्त्र्य भीमं राजानमार्त: शोचन्नलं नृपम् ।अटमानस्ततोsयोध्यां जगाम नगरीं तदा ॥२४॥ऋतुपर्ण स राजानमुपतस्थे सुदु:खित: ।भृतिं च स ददौ चास्य सारथ्येन नियोजित: ॥२५॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP