नलोपाख्यानम् - पच्ञदशोsध्याय:

` नलोपाख्यन ` ही नल आणि दमयंती यांची महाभारतातील एक सुरेख प्रेमकथा आहे.


बृहदश्व उवाच ।

तस्मिन्नन्तर्हिते नागे प्रययौ नैषधो नल: ।
ऋतुपर्णस्य नगरं प्राविशद्दशमेsहनि ॥१॥
स राजानमुपातिष्ठद्वाहुकोsहमिति ब्रुवन ।
अश्वानां वाहने युक्त: पृथिव्यां नास्ति मत्सम: ॥२॥
अर्थकृच्छ्रेषु चैवाहं प्रष्टव्यो नैपुणेषु च ।
अन्नसंस्कारमपि च जानाम्यन्यैर्विशेषत: ॥३॥
यानि शिल्पानि लोकेsस्मिन्यच्चैवान्यत्सुदुष्करम् ।
सर्व यतिष्ये तत्कर्तुमृतुपर्ण भरस्व माम् ॥४॥

ऋतुपर्ण उवाच ।

वस बाहुक भद्रं ते सर्वमेतत्करिष्यसि ।
शीघ्रयाने सदा बुध्दिर्ध्रियते मे विशेषत: ॥५॥
स त्वमातिष्ठ योगं तं येन शीघ्रा हया मम ।
भवेयुरश्वाध्यक्षोsसि वेतनं ते शतं शता: ॥६॥
त्वामुपस्थास्यतश्चैव नित्यं वार्ष्णेयजीवलौ ।
एताभ्यां रंस्यसे सार्ध वस वै मयि बाहुक ॥७॥

बृहदश्व उवाच ।

एवमुक्तो नलस्तेन न्यवसत्तत्र पूजित: ।
ऋतुपर्णस्य नगरे सहवार्ष्णेयजीवल: ॥८॥
स वै तत्रावसद्राजा वैदर्भीमनुचिन्तयन् ।
सायंसायं सदा चेमं श्लोकमेकं जगाद ह ॥९॥
क्व नु सा क्षुत्पिपासार्ता श्रान्ता शेते तपस्विनी ।
स्मरन्ती तस्य मन्दस्य कं वा साद्योपतिष्ठति ॥१०॥
एवं ब्रुवन्तं राजानं निशायां जीवलोsब्रवीत् ।
कामेनां शोचसे नित्यं श्रोतुमिच्छामि बाहुक ।
आयुष्मन्कस्य वा नारी यामेवमनुशोचसि ॥११॥
तमुवाच नलो राजा मन्दप्रज्ञ्स्य कस्याचित् ।
आसीद् बहुमाता नारी तस्यादृढ्तरं वच: ॥१२॥
स वै केनचिदर्थेन तया मन्दो व्ययुज्यत ।
विप्रयुक्त: स मन्दात्मा भ्रमत्यसुखपीडित: ॥१३॥
दह्यमान: स शोकेन दिवारात्रमतन्द्रित: ।
निशाकाले स्मरंस्तस्या: श्लोकमेकं स्म गायति ॥१४॥
स विभ्रमन्महीं सर्वा क्वचिदासाद्या किंचन ।
वसत्यनर्हस्तद्दु:खं पुनरेवानुसंस्मरन् ॥१५॥
सा तु तं पुरुषं नारी कृच्छ्रेsप्यनुगता वने ।
त्यक्ता तेनाल्पपुण्येन दुष्करं यदि जीवति ॥१६॥
एका बालनाभिज्ञा च मार्गाणामतथोचिता ।
क्षुत्पिपासापरीताग्ङी दुष्करं यदि जीवति ॥१७॥
इत्येवं नैषधो राजा दमयन्तीमनुस्मरन् ।
अज्ञातवासं न्यवसद्राज्ञस्तस्य निवेशने ॥१८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP