संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|नलोपाख्यानम्| एकविंशतितमोsध्याय: नलोपाख्यानम् प्रथमोऽध्याय: द्वितीयोऽध्याय: तृतीयोऽध्याय: चतुर्थोऽध्याय: पच्ञमोsध्याय: षष्ठोsध्याय: सप्तमोsध्याय: अष्टमोsध्याय: नवमोsध्याय: दशमोsध्याय: एकादशोsध्याय: द्वादशोsध्याय: त्रयोदशोsध्याय: चतुर्दशोsध्याय: पच्ञदशोsध्याय: षोडशोsध्याय: सप्तदशोsध्याय: अष्टदशोsध्याय: नवदशोsध्याय: विंशतितमोsध्याय: एकविंशतितमोsध्याय: द्वाविंशतितमोsध्याय: त्रयोविंशतितमोsध्याय: चतुर्विंशतितमोsध्याय: पच्ञविंशतितमोsध्याय: षडविंशतितमोsध्याय: नलोपाख्यानम् - एकविंशतितमोsध्याय: ` नलोपाख्यन ` ही नल आणि दमयंती यांची महाभारतातील एक सुरेख प्रेमकथा आहे. Tags : damayantinalnalopakhyanदमयंतीनलनलोपाख्यानसंस्कृत एकविंशतितमोsध्याय: Translation - भाषांतर बृहदश्व उवाच ।ततो विदर्भान्संप्राप्तं सायाह्ने सत्यविक्रमम् ।ऋतुपर्ण जना राज्ञे भीमाय प्रत्यवेदयन् ॥१॥स भीमवचनाद्राजा कुड्णिनं प्राविशत्पुरम् ।नादयन्रथघोषेण सर्वा: सविदिशो: दिश: ॥२॥ततस्तं रथनिर्घोणं नलाश्वास्तत्र शुश्रुवु: ।श्रुत्वा तु समह्रष्यन्त पुरव नलसंनिधौ ॥३॥दमयन्ती तु शुश्राव रथघोषं नलस्य तम् ।यथा मेघस्य नदतो गभ्भीरं जलदागमे ॥४॥नलेन संगृहीतेषु पुरेव नलवाजिषु ।सदृशं हयानिर्घोषं मेने भैमी तथा हया: ॥५॥प्रासादस्थाश्च शिखिन: शालास्थाश्चैव वारणा: ।हयाश्च शुश्रुवुस्तस्य रथघोषं महीपते: ॥६॥ते श्रुत्वा रथानेर्घोषं वारणा: शिखिनस्तथा ।प्रणेदुरुन्मुखा राजन्मेघनाद इवोत्सुका: ॥७॥दमयन्त्युवाच ।यथासौ रथनिर्घोषं: पूरयन्निव मेदिनीम् ।ममाह्रदयते चेतो नल एष महीपति: ॥८॥अद्य चन्द्राभवक्त्रं तं न पश्यामि नलं यदि ।असंख्येयगुणं वीरं विनङक्ष्यामि न संशय ॥९॥यदि चैतस्य वीरस्य बाह्रोर्नाद्याहमन्तरम् ।प्रविशामि सुखस्पर्श न भविष्याम्यसंशयम् ॥१०॥यदि मां मेघनिर्घोषो नोपगच्छति नैषध: ।अद्य चामीकरप्रख्यं प्रवेक्ष्यामि हुताशनम् ॥११॥न स्मराम्यनृतं किंचिन्न स्मराम्यपकारताम् ।न च पर्युषितं वाक्यं स्वैरष्वपि महात्मन: ॥१२॥गुणांस्तस्य स्मरन्त्या मे तत्पराया दिवानिशम् ।ह्रदयं दीर्यत इदं शोकात्प्रियविनाकृतम् ॥१३॥बृहदश्व उवाच ।एवं विलपमाना सा नष्टसंज्ञेव भारत ।आरुरोह महद्वेश्म पुण्यश्लोकदिदृक्षया ॥१४॥ततो मध्यमकक्षायां ददर्श रथमास्थितम् ।ऋतुपर्ण महीपालं सहवार्ष्णेयबाहुकम् ॥१५॥ततोsवतीर्य वार्ष्णेयो बाहुकश्च रथोत्तमात् ।हयांस्तानवमुच्याथ स्थापयामास वै रथम् ॥१६॥सोsवतीर्य रथोपस्थादृतुपर्णो नराधिप: ।उपतस्थे महाराजं भीमं भीमपराक्रमम् ॥१७॥तं भीम: प्रतिजग्राह पूजया परया तत: ।अकस्मात्सहसा प्राप्तं स्त्रीमन्त्रं न स्म विन्दति ॥१८॥ऋतुपर्णोsपि राजा स धीमान्सत्यपराक्रम: ।राजानं राजपुत्रं वा न स्म पश्यति कंचन ॥१९॥स तेन पूजितो राजा ऋतुपर्णो नराधिप: ।किं कार्य स्वागतं तेsस्तु राज्ञा पृष्ट: स भारत ॥२०॥ततो विगणयन्राजा मनसा कोशलाधिप: ।आगतोsस्मीत्युवा चैनं भवन्तमभिवादक: ॥२१॥राजापि च स्मयन्भीमो मनसा समचिन्तयत् ।अल्पकार्य विनिर्दिष्टं तस्यागमनकारणम् ।पश्चादुदर्के ज्ञास्यामि कारणं यद्भविष्यति ॥२२॥नैतदेवं स नृपतिस्तं सत्कृत्य व्यसर्जयत् ।विश्राम्यतामित्युवाच क्लान्तोsसीति पुन: पुन: ॥२३॥स सत्कृत: प्रह्रष्टात्मा प्रीत: प्रीतेन पार्थिव: ।राजप्रेष्यैरनुगतो दिष्टं वेश्म समविशत् ॥२४॥ऋतुपर्णे गते राजान्वार्ष्णेयसहिते नृपे ।बाहुको रथमादाय रथशालामुपागमत् ॥२५॥स मोचयित्वा तानश्वानुपचर्य च शास्त्रत: ।स्वयं चैतान्समाश्वास्य रथोपस्थ उपविशत् ॥२६॥दमयन्ती तु शोकार्ता दृष्टा भाग्ङासुरिं नृपम् ।सूतपुत्रं च वार्ष्णेयं बाहुकं च तथाविधम् ॥२७॥चिन्तयामास वैदर्भी कस्यैष रथनिस्वन: ।नलस्येव महानासीन्न च पश्यामि नैषधम् ॥२८॥वार्ष्णेयेन भवेन्नूनं विद्या सैवोपशिक्षिता ।तेनाद्य रथनिर्घोषो नलस्येव महानभूत ॥२९॥आहोस्विदृतुपर्णोsपि यथा राजा नलस्तथा ।तथायं रथानिर्घोषो नैषधस्येव लक्ष्यते ॥३०॥एवं सा तर्कयित्वा तु दमयन्ती विशांपते ।दूतीं प्रस्थापयामास नैषधान्वेषणे शुभा ॥३१॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP