नलोपाख्यानम् - चतुर्विंशतितमोsध्याय:

` नलोपाख्यन ` ही नल आणि दमयंती यांची महाभारतातील एक सुरेख प्रेमकथा आहे.


बृहदश्व उवाच ।

सर्व विकारं दृष्टा तु पुण्यश्लोकस्य धीमत: ।
आगत्य केशिनी क्षिप्रं दमयन्त्यै न्यवेदयत् ॥१॥
दमयन्ती ततो भूय: प्रेषयामास केशिनीम् ।
मातु: सकाशं दु:खार्ता नलदर्शनकाङक्षया ॥२॥
परीक्षितो मे बहुशो बाहुको नलशक्ङया ।
रुपे मे संशयस्त्वेक स्वयमिच्छामि वेदितुम् ॥३॥
स वा प्रवेश्यतां मातर्मी वानुज्ञातुमर्हसि ।
विदितं वाथवाज्ञातं पितुर्मे संविधीयताम् ॥४॥
एवमुक्ता तु वैदर्भ्या सा देवी भीममब्रवीत् ।
दुहितुस्तमभिप्रायमन्वजानात्स पार्थिव: ॥५॥
सा वै पित्राभ्यनुज्ञाता मात्रा च भरतर्षभ ।
नलं प्रवेशयामास यत्र तस्या: प्रतिश्रय: ॥६॥
तां स्म दृष्टैव सहसा दमयन्तीं नलो नृप: ।
आविष्ट: शोकदु:खाभ्यां बभूवाश्रुपरिप्लुत: ॥७॥
तं तु दृष्टा तथायुक्तं दमयन्ती नलं तदा ।
तीव्रशोकसमाविष्टा बभूव वरवर्णिनी ॥८॥
तत: काषायवसना जटिला मलपक्ङिनी ।
दमयन्ती महाराज बाहुकं वाक्यमब्रवीत् ॥९॥
पूर्व दृष्टस्त्वया कश्चिध्दर्मज्ञो नाम बाहुक ।
सुप्तामुत्सृज्य विपिने गतो य: पुरुष: स्त्रियम् ॥१०॥
अनागसं प्रियां भार्या विजने श्रममोहिताम् ।
अपहाय तु को गच्छेत्पुण्यश्लोकमृते नलम् ॥११॥
किं नु तस्य मया बाल्यादपराध्दं महीपते: ।
यो मामुत्सृज्य विपिने गतवान्निद्रया ह्रताम् ॥१२॥
साक्षाद्देवानपहाय वृतो य: स मया पुरा ।
अनुव्रतां साभिकामां पुत्रिणीं त्यक्तवान्कथम् ॥१३॥
अग्नौ पाणिं गृहीत्वा तु देवानामग्रतस्तथा ।
भरिष्यामीति सत्यं तु प्रतिश्रुत्य क्व तद्नतम् ॥१४॥
दमयन्त्या ब्रुवन्त्यास्तु सर्वमेतदरिंदम ।
शोकजं वारि नेत्राभ्यामसुखं प्रास्त्रवध्दहु ॥१५॥
अतीव कृष्णासाराभ्यां रक्तान्ताभ्यां जलं तु तत् ।
परिस्त्रवन्नलो दृष्टा शोकार्तामिदमब्रवीत् ॥१६॥
मम राज्यं प्रनष्टं यन्नाहं तत्कृतवान्स्वयम् ।
कलिना तत्कृतं भीरु यच्च त्वामहमत्यजम् ॥१७॥
कथं तु नारी भर्तारमनुरक्तमनुव्रतम् ।
उत्सृज्य वरयेदन्यं यथा त्वं भीरु कर्हिचित् ॥१८॥
दूताश्चरन्ति पृथिवीं कृत्स्नां नृपतिशासनात् ।
भैमी किल स्म भर्तारं द्वितीयं वरयिष्यति ॥१९॥
दमयन्ती तु तच्छ्रुत्वा नलस्य परिदेवितम् ।
प्राञ्जलिर्वेपमाना च भीता च नलमब्रवीत् ॥२०॥
न मामर्हसि कल्याण दोषेण परिशक्ङितुम ।
मया हि देवानुत्सृज्य वृतस्त्वं निषधाधिप ॥२१॥
तवाधिगमनार्थ तु सर्वतो ब्राह्मणा गता: ।
वाक्यानि मम गाथाभिर्गायमाना दिशो द्श ॥२२॥
ततस्त्वां ब्राह्मणो विद्वान्पर्णादो नाम पार्थिव ।
अभ्यगच्छत्कोशलायामृतुपर्णनिवेशने ॥२३॥
तेन वाक्ये कृते सम्यक्प्रतिवाक्ये तथाह्रते ।
उपायोsयं मया दृष्टौ नैषधानयने तव ॥२४॥
त्वामृते न हि लोकेsन्य एकाह्ना पृथिवीपते ।
समर्थो योजनशतं गन्तुमश्वैर्नराधिप ॥२५॥
स्पृशेयं तेन सत्येन पादावेतौ महीपते ।
यथा नासत्कृतं किंचिन्मनसापि चराम्यहम् ॥२६॥
अयं चरति लोकेsस्मिन्भूतसाक्षी सदागति: ।
एष मे मुच्ञतु मम प्राणान्यदि पापं चराम्यहम् ॥२७॥
तथा चरति तिग्मांशु: परितो भुवनं सदा ।
स मुच्ञतु मम प्राणान्यदि पाप  चराम्यहम् ॥२८॥
चन्द्रमा: सर्वभूतानामन्तश्चरति साक्षिवत् ।
स मुच्ञतु मम प्राणान्यदि पाप चराम्यहम् ॥२९॥
एते देवास्त्रय: कृत्स्नं त्रैलोक्यं धारयन्ति वै ।
विब्रवन्तु यथासत्यमेतद्देवास्त्यजन्तु माम् ॥३०॥
एवमुक्तास्तया वायुरन्तरिक्षादभाषत ।
नैषा कृतवर्ता पापं नल सत्यं ब्रवीमि ते ॥३१॥
राजञ्शीलनिधि: स्फीतो दमयन्त्या: सुरक्षित: ।
साक्षिणो रक्षिणश्चास्या वयं त्रीन्परिवत्सरान् ॥३२॥
उपायो विहितश्चायं त्वदर्थमतुलोsनया ।
न ह्येकाह्ना शतं गन्ता त्वामृतेsन्य: पुमानिह ॥३३॥
उपपन्ना त्वया भैमी त्वं च भैम्या महीपते ।
नात्र शक्ङा त्वया कार्या संगच्छ सह भार्यया ॥३४॥
तथा ब्रुवति वायौ तु पुष्पवृष्टि: पपात ह ।
देवदुन्दुभयो नेदुर्ववौ च पवन: शिव: ॥३५॥
तदद्भुततमं दृष्टा नलो राजाथ भारत ।
दमयन्त्यां विशक्ङां तां व्यपाकर्षदरिंदम: ॥३६॥
ततस्तद्वस्त्ररज: प्रावृणोद्वसुधाधिप: ।
संस्मृत्य नागराजं तं ततो लेभे स्वकं वपु: ॥३७॥
स्वरुपिणं तु भर्तारं दृष्टा भीमसुता तदा ।
प्राकोशदुच्चैरालिग्ङय पुण्यश्लोकमनिन्दिता ॥३८॥
भैमीमपि नलो राजा भ्राजमानो यथा पुरा ।
सस्वजे स्वसुतौ चापि यथावत्प्रत्यनन्दत ॥३९॥
तत: स्वोरसि विन्यस्थ वक्त्रं तस्य शुभानना ।
परीता तेन दु:खेन निशश्वासायतेक्षणा ॥४०॥
तथैव मलदिग्धाग्ङीं परिष्वज्य शुचिस्मिताम् ।
सुचिरं पुरुषव्याघ्रस्तस्थौ शोकपरिप्लुत: ॥४१॥
तत: सर्व यथावृत्तं दमयन्त्या नलस्य च ।
भीमायाकथयत्प्रीत्या वैदर्भीजननी नृप ॥४२॥
ततोsब्रवीन्महाराज: कृतशौचमहं नलम् ।
दमयन्त्या सहोपतं कल्यं द्रष्टा सुखोषितम् ॥४३॥
ततस्तौ सहितौ रात्रिं कथयन्तौ पुरातनम् ।
वने विचरितं सर्वमूषतुर्मुदितौ नृप ॥४४॥
गृहे भीमस्य नृपते: परस्परसुखैषिणौ ।
वसेतां ह्रष्टसंकल्पौ वैदर्भी च नलश्च ह ॥४५॥
स चतुर्थे ततो वर्षे संगम्य सह भार्यया ।
सर्वकामै: सुसिध्दार्थो लब्धवान्परमां मुदम ॥४६॥
दमयन्त्यपि भर्तारमासाद्याप्यायिता भृशम् ।
अर्धसंजातशस्येव तोयं प्राप्य वसुंधरा ॥४७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP