संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|नलोपाख्यानम्| नवदशोsध्याय: नलोपाख्यानम् प्रथमोऽध्याय: द्वितीयोऽध्याय: तृतीयोऽध्याय: चतुर्थोऽध्याय: पच्ञमोsध्याय: षष्ठोsध्याय: सप्तमोsध्याय: अष्टमोsध्याय: नवमोsध्याय: दशमोsध्याय: एकादशोsध्याय: द्वादशोsध्याय: त्रयोदशोsध्याय: चतुर्दशोsध्याय: पच्ञदशोsध्याय: षोडशोsध्याय: सप्तदशोsध्याय: अष्टदशोsध्याय: नवदशोsध्याय: विंशतितमोsध्याय: एकविंशतितमोsध्याय: द्वाविंशतितमोsध्याय: त्रयोविंशतितमोsध्याय: चतुर्विंशतितमोsध्याय: पच्ञविंशतितमोsध्याय: षडविंशतितमोsध्याय: नलोपाख्यानम् - नवदशोsध्याय: ` नलोपाख्यन ` ही नल आणि दमयंती यांची महाभारतातील एक सुरेख प्रेमकथा आहे. Tags : damayantinalnalopakhyanदमयंतीनलनलोपाख्यानसंस्कृत नवदशोsध्याय: Translation - भाषांतर बृहदश्व उवाच ।श्रुत्वा वच: सुदेवस्य ऋतुपर्णो नराधिप: ।सान्त्वञ्श्लक्ष्णया वाचा बाहुकं प्रत्यभाषत ॥१॥विदर्बान्यातुमिच्छामि दमयन्त्या: स्वयंवरम् ।एकाह्ना हयतत्त्वज्ञ मन्यसे यदि बाहुक ॥२॥एवमुक्तस्य कौन्तेय तेन राज्ञा नलस्य ह ।व्यदीर्यत मनो दु:खात्प्रदध्यौ च महामना: ॥३॥दमयन्ती वदेदेतत्कुर्यद्दु:खेन मोहिता ।अश्वदर्थे भवेद्वायमुपायश्चिन्तितो महान् ॥४॥नृशंसं बत वैदर्भी कर्तुकामा तपस्विनी ।मया क्षुद्रेण निकृता कृपणा पापबुध्दिना ॥५॥स्त्रीस्वभावश्चलो लोके मम दोषश्च दारुण: ।स्यादेवमपि कुर्यात्सा विवासाद्नतसौह्रदा ॥६॥मम शोकेन संविग्ना नैराश्यात्तनुमध्यमा ।नैवं सा कर्हिचित्कुर्यात्सापत्या च विशेषत: ॥७॥यदत्र सत्यं वासत्यं गत्वा वेत्स्यामि निश्चयम् ।ऋतुपर्णस्य वै काममात्मार्थ च करोम्यहम् ॥८॥इति निश्चित्य मनसा बाहुको दीनमानस: ।कृताञ्जलिरुवाचेदमृतुपर्ण नराधिपम् ॥९॥प्रतिजानामि ते वाक्यं गमिष्यामि नराधिप ।एकाह्ना पुरुषव्याघ्र विदर्भनगरीं नृप ॥१०॥तत: परीक्षामश्वानां चक्रे राजन्स बाहुक: ।अश्वशालामुपागम्य भाग्ङासुरिनृपाज्ञया ॥११॥स त्वर्यमाणो बहुश ऋतुपर्णेन बाहुक: ।अध्यगच्छत्कृशानश्वान्समर्थानध्वनि क्षमान् ॥१२॥तेजोबलसमायुक्तान्कुलशीलसमन्वितान् ।वर्जितॉंल्लक्षणैर्हीनै: पृथुप्रोथान्महाहनून ॥१३॥दृष्टा तानब्रवीद्राजा किंचित्कोपसमन्वित: ।किमिदं प्रार्थित्म कर्तु प्रलब्धव्या न ते वयम् ॥१४॥कथमल्पबलप्राणा वक्ष्यन्तीमे हया मम ।महदध्वानमपि च गन्तव्यं कथमीदृशै: ॥१५॥बाहुक उवाच एते हया गमिष्यन्ति विदर्भान्नात्र संशय: ।यानन्यान्मसे राजन्ब्रूहि तान्योजयामि ते ॥१६॥ऋतुपर्ण उवाच ।त्वमेव हयतत्त्वज्ञ: कुशलो ह्यसि बाहुक ।यान्मन्यसे समर्थास्त्वं क्षिप्रं तानेव योजय ॥१७॥बृहदश्व उवाच ।तत: सद्श्वांश्चतुर: कुलशीलसमन्वितान् ।योजयामास कुशलो जवयुक्तान रथे नल: ॥१८॥ततो युक्तं रथं राजा समारोहत्त्वरान्वित: ।अथ पर्यतन्भूमौ जानुभिस्ते हयोत्तमा: ॥१९॥ततो नरवर: श्रीमान्नलो राजा विशांपते ।सान्त्वयामास तानश्वांस्तेजोबलसमन्वितान् ॥२०॥रश्मिभिश्च समुद्दम्य नलो यातुमियेष स: ।सूतमारोप्य वार्ष्णेयं जवमास्थाय वै परम् ॥२१॥ते नोद्यमाना विधिवध्दाहुकेन हयोत्तमा: ।समुत्पेतुरथाकाशं रथिनं मोहयन्निव ॥२२॥तथा तु दृष्टा तानश्वान्वहतो वातरंहस: ।अयोध्याधिपति: श्रीमान्विस्मयं परमं ययौ ॥२३॥रथघोषं तु तं श्रुत्वा हयसंग्रहणं च तत् ।वार्ष्णेयश्चिन्तयामास बाहुकस्य हयज्ञताम् ॥२४॥किं नु स्यान्मातलिरयं देवराजस्य सारथि: ।तथा तल्लक्षणं वीरे बाहुके दृश्यते महत् ॥२५॥उतोहोस्विद्भवेद्राजा नल: परपुरंजय: ।तुल्यं हि लक्षये ज्ञानं बाहुकस्य नलस्य च ॥२६॥अपि चेदं वयस्तुल्यं बाहुकस्य नलस्य च ।भवेत्तु मतिभेदो मे गात्रवैरुप्यतां प्रति ॥२७॥एवं विचार्य बहुशो वार्ष्णेय: पर्यचिन्तयत् ।ह्रदयेन महाराज पुण्यश्लोकस्य सारथि: ॥२८॥ऋतुपर्णस्तु राजेन्द्रो बाहुकस्य हयज्ञताम् ।कौशलं चापि संप्रेक्ष्य परां मुदमवाप ह ॥२९॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP