संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|नलोपाख्यानम्| चतुर्दशोsध्याय: नलोपाख्यानम् प्रथमोऽध्याय: द्वितीयोऽध्याय: तृतीयोऽध्याय: चतुर्थोऽध्याय: पच्ञमोsध्याय: षष्ठोsध्याय: सप्तमोsध्याय: अष्टमोsध्याय: नवमोsध्याय: दशमोsध्याय: एकादशोsध्याय: द्वादशोsध्याय: त्रयोदशोsध्याय: चतुर्दशोsध्याय: पच्ञदशोsध्याय: षोडशोsध्याय: सप्तदशोsध्याय: अष्टदशोsध्याय: नवदशोsध्याय: विंशतितमोsध्याय: एकविंशतितमोsध्याय: द्वाविंशतितमोsध्याय: त्रयोविंशतितमोsध्याय: चतुर्विंशतितमोsध्याय: पच्ञविंशतितमोsध्याय: षडविंशतितमोsध्याय: नलोपाख्यानम् - चतुर्दशोsध्याय: ` नलोपाख्यन ` ही नल आणि दमयंती यांची महाभारतातील एक सुरेख प्रेमकथा आहे. Tags : damayantinalnalopakhyanदमयंतीनलनलोपाख्यानसंस्कृत चतुर्दशोsध्याय: Translation - भाषांतर बृहदश्व उवाच ।उत्सृज्य दमयन्तीं तु नलो राजा विशांपते ।ददर्श दांव दह्यन्तं महान्तं गहने वने ॥१॥तत्र शुश्राव शब्दं वै मध्ये भूतस्य कस्याचित् ।अभिधाव नलेत्युच्चै: पुण्यश्लोकेति चासकृत ॥२॥मा भैरिति नलश्चोक्त्वा मध्यमग्ने: प्रविश्य तम् ।ददर्श नागराजानं शयानं कुण्डलीकृतम् ॥३॥स नाग: प्राच्ञलिर्भूत्वा वेपमानो नलं तदा ।उवाच मां विध्दि राजन्नागं कर्कोटकं नृप ॥४॥मया प्रलब्धौ महर्षिर्नारद: स महातपा: ।तेन मन्युपरीतेन शप्तोsस्मि मनुजाधिप ॥५॥तिष्ठ त्वं स्थावर इव यावदेव नल: क्वचित् ।इतो नेता हि तत्र त्वं शापान्मोक्ष्यसि मत्कृतात् ॥६॥स्य शापान्न शक्तोsस्मि पदाद्विचलितुं पदम् ।उपदेक्ष्यामि ते श्रेयस्त्रातुमर्हति मां भवान् ॥७॥सखा च ते भविष्यामि मत्सतो नास्ति पन्नग: ।लघुश्च ते भविष्यामि शीघ्रमादाय गच्छ माम् ॥८॥एवमुक्त्वा स नागेन्द्रो बभूवाग्ङगुष्थमात्रक: ।तं गृहीत्वा नल: प्रायाद्देशं दावविवर्जितम् ॥९॥आकाशदेशमासाद्य विमुक्तं कृष्णवर्त्मना ।उत्स्रष्टुकामं तं नाग: पुन: कर्कोटकोsब्रवीत् ॥१०॥पदानि गणयन्गच्छ स्वानि नैषध कानिचित् ।तत्र तेsहं महाबाहो श्रेयो धास्यामि यत्परम् ॥११॥तत: संख्यातुमारब्धमदशद्दशमे पदे ।तस्य दष्टस्य तद्रूपं क्षिप्रमन्तरधीयत ॥१२॥स दृष्टा विस्मितस्तस्थावात्मानं विकृतं नल: ।स्वरुपधारिणं नागं ददर्श च महीपति: ॥१३॥तत: कर्कोटको नाग: सान्त्वयन्नलमब्रवीत ।मया तेsन्तार्हितं रुपं न त्वां विद्युर्जना इति ॥१४॥यत्कृते चासि निकृतो दु:खेन महता नल ।विषेण स मदीयेन त्वयि दु:खं निवत्स्यति ॥१५॥विषेण संवृतैर्गात्रैर्यावत्त्वां न विमोक्ष्यति ।तावत्त्वयि महाराज दु:खं वै स निवत्स्यति ॥१६॥अनागा येन निकृतत्स्वमनर्हो जनाधिप ।क्रोधादसूययित्वां तं रक्षा मे भवत: कृता ॥१७॥न ते भयं नरव्याघ्र दंष्ट्रिभ्य़: शत्रुतोsपि वा ।ब्रह्मर्षिभ्यश्च भविता मत्प्रसादान्नराधिप ॥१८॥राजन्विषनिमित्ता च न ते पीडा भविष्यति ।संग्रामेषु च राजेन्द्र शश्वज्जयमवाप्स्यसि ॥१९॥गच्छ राजन्नित: सूतो बाहुकोsहमिति ब्रुवन ।समीपमृतुपर्णस्य स हि वेदाक्षनैपुणम् ॥२०॥स तेsक्षह्रदयं दाता राजाश्वह्रदयेन वै ।इक्ष्वाकुकुलज: श्रीमान्मित्रं चैव भविष्यति ॥२१॥भविष्यसि यदाक्षज्ञ: श्रेयसा योक्ष्यसे तदा ।समेष्यसि च दारैस्त्वं मा स्म शोके मन: कृथा: ॥२२॥स्वरुपं च यदा द्रष्टुमिच्छेथास्त्वं नराधिप ।संस्मर्तव्यस्तदा तेsहं वासश्चेदं निवासये : ॥२३॥अनेन वाससा छन्न: स्वरुपं प्रतिपत्स्यसे ।इत्युक्त्वा प्रददौ तस्मै दिव्यं वासोयुगं तदा ॥२४॥एवं नलं च संदिश्य वासो दत्त्वा च कौरव ।नागराजस्ततो राजंस्तत्रैवान्तरधीयत ॥२५॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP