संस्कृत सूची|संस्कृत साहित्य|धर्मः|ब्रह्म सूत्राणि|द्वितीयोध्यायः| प्रथम: पाद:| सूत्र ११ प्रथम: पाद: सूत्र १ सूत्र २ सूत्र ३ सूत्र ४ सूत्र ५ सूत्र ६ सूत्र ७ सूत्र ८ सूत्र ९ सूत्र १० सूत्र ११ सूत्र १२ सूत्र १३ सूत्र १४ सूत्र १५ सूत्र १६ सूत्र १७ सूत्र १८ सूत्र १९ सूत्र २० सूत्र २१ सूत्र २२ सूत्र २३ सूत्र २४ सूत्र २५ सूत्र २६ सूत्र २७ सूत्र २८ सूत्र २९ सूत्र ३० सूत्र ३१ सूत्र ३२ सूत्र ३३ सूत्र ३४ सूत्र ३५ सूत्र ३६ सूत्र ३७ प्रथम: पाद: - सूत्र ११ ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत. Tags : bookbrahmasutradharmaधर्मब्रह्मसूत्र सूत्र ११ Translation - भाषांतर तर्काप्रतिष्ठानादप्यन्यथानुमेयमिति चेदेवमप्यविमोक्षप्रसङ्ग: ॥११॥तर्काप्रतिष्ठानादप्यन्यथानुमेयमिति चेदेवमप्यविमोक्षप्रसङ्ग: ।इतश्च नागमगम्येऽर्थे केवलेन तर्केण प्रत्यवस्थातव्यम् ।यस्मान्निरागमा: पुरुषोत्प्रेक्षामात्रनिबन्धनास्तर्का अप्रतिष्ठिता भवन्ति ।उत्प्रेक्षाया निरङ्कुशत्वात ।तथा हि कैश्चिदभियुक्तैर्यत्नेनोत्प्रेक्षितास्तर्का अभियुक्ततरैरन्यैराभास्यमाना द्दश्यन्ते तैरप्युत्प्रेक्षिता: सन्तस्ततोऽन्यैराभास्यन्त इति न प्रतिष्ठितत्वं तर्काणां शक्यमाश्रयितुं पुरुष्मतिवैरूप्यात् ।अथ कस्यचित्प्रसिद्धमाहात्म्यस्य कपिलस्य चान्यस्य वा संमतस्तर्क: प्रतिष्ठित इत्याश्रीयेत ।एवमप्यप्रतिष्ठितत्वमेव । प्रसिद्धमाहात्म्यानुमतानामपि तीर्थकराणां कपिलकणभुक्प्रभृतीनां परस्परविप्रतिपत्तिदर्शनात् ।अथोच्येतान्यथा वयमनुमास्यामहे यथा नाप्रतिष्ठादोषो भविष्यति । न हि प्रतिष्ठितस्तर्क एव नास्तीति शक्यते वक्तुम् ।एतदषि हि तर्काणामप्रतिष्ठितत्वं तर्केणैव प्रतिष्ठाप्यते ।केपांचित्तर्काणामप्रतिष्ठितत्वदर्शनेनान्येषामपि तज्जातीयकानां तर्काणामप्रतिष्ठितत्वप्रकल्पनात् ।सर्वतर्काप्रतिष्ठायां च लोकव्यवहारोच्छेदप्रसङ्ग ।अतीतवर्तमानाध्वसाम्येन हयनागतेऽप्यध्वनि सुखदु:खप्राप्तिपरिहाराय प्रवर्तमानो लोको द्दश्यते ।श्रुत्यर्थविप्रतिपत्तौ चार्थाभासनिराकरणेन सम्यगर्थनिर्धारणं तर्केणैव वाक्यवृत्तिनिरूपणरूपेण क्रियते ।मनुरपि चैवं मन्यते :---प्रत्यक्षमनुमानं च शास्त्रंच विविधागमम् ।त्रयं सुविदितं कार्यं धर्मशुद्धिमभीप्सतेति ॥आर्षं धर्मोपदेशं च वेदआअस्त्राविरोधिना ।यस्तर्केणानुसंधत्ते स धर्मं वेद नेतर: ॥इति च ब्रुवन् । अयमेव तर्कस्यालङ्कारो यदप्रतिष्ठितत्वं नाम ।एवं हि साबद्यतर्कपरित्यागेन निरवद्यस्तर्क: प्रतिपत्तव्यो भवति ।न हि पूर्वजो मूढ आसिदित्यात्मनापि मूढेन भवितव्यमिति किंचिदस्ति प्रमाणम् ।तस्मान्न तर्काप्रतिष्ठानं दोष इति चेदेवमप्यविमोक्षप्रसङ्ग ।यद्यपि क्वचिद्विषये तर्कस्य प्रतिष्ठितत्वमुपलक्ष्यते तथापि प्रकृते तावद्विषये प्रसज्यत एवाप्रतिष्ठितत्वदोषादनिर्मोक्षस्तर्कस्य ।न हीदमति गम्भीरं भावयाथात्म्यं मुक्तिनिबन्धनमागममन्तरेणोत्प्रेक्षितुमपि शक्यम् ।रूपाद्यभावाद्धि नायमर्थ: प्रत्यक्षगोचरो लिङगाद्यभावाच्च नानुमानादीनामिति चावोचाम ।अपि च सम्यग्ज्ञानान्मोक्ष इति सर्वेषां मोक्षवादिनामभ्युपगम: ।तच्च सम्यग्ज्ञान । मेकरूपं वस्तुतन्त्रत्वात् । एकरूपेण हयवस्थितो योऽर्थ: स परमार्थ: ।लोके तद्विषयं ज्ञानं सम्यग्ज्ञानमित्युच्यते ।यथाऽग्निरुष्ण इति ।तत्रैवं सति सम्यग्ज्ञाने पुरुषाणां विप्रतिपत्तिरनुपपन्ना ।तर्कज्ञानानां त्वन्योन्यविरोधात्प्रसिद्धा विप्रतिपत्ति: ।यद्धि केनचित्तार्किकेणेदमेव सम्यग्ज्ञानमिति प्रतिपादितं तदपरेण व्युत्थाप्यते तेनापि प्रतिष्ठापितं ततोऽपरेण व्युत्थाप्यत इति प्रसिद्धं लोके ।कथमेकरूपानवस्थितविषयं तर्कप्रभवं भवेत् ।न च प्रधानवादी तर्कविदामुत्तम इति सर्वैंस्तार्किकै: परिगृहीतो येन तदीयं मतं सम्यग्ज्ञानमिति प्रतिपद्येमहि ।न च शक्यन्तेऽतीतानागतवर्तमानास्तार्किका एकस्मिन्देशे काले च समाहर्तुं येन तन्मतिरेकरूपैकार्थविषया सम्यङ्मतिरिति स्यात् ।वेदस्य तु नित्यत्वे विज्ञानोत्पत्तिहेतुत्वे च सति व्यवस्थितार्थविशयत्वो पपत्ते: ।तज्जनितस्य ज्ञानस्य सम्यक्त्वमतीतानागतवर्तमानै: सर्वैरपि तार्किकैरपहनोतुमशक्यम् ।अत: सिद्धमस्यैवौपनिषदस्य ज्ञानस्य सम्यग्ज्ञानत्वम् ।अतोऽन्यत्र सम्यग्ज्ञानत्वानुपपत्ते: संसाराविमोक्ष एव प्रसज्येत ।अत आगमवशेनागमानुसारितर्कवशेन च चेतनं ब्रम्हा जगत: कारणं प्रकृतिश्चेति स्थितम् ॥११॥ N/A References : N/A Last Updated : December 05, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP