प्रथम: पाद: - सूत्र १७

ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


असद्वयपदेशान्नेति चेन्न धर्मान्तरेन वाक्यशेषात् ॥१७॥

असद्वयपदेशान्नेति चेन्न धर्मान्तेरण वाक्यशेषात् ।
ननु क्वचिदसत्त्वमपि प्रागुत्पत्ते: कार्यस्य  व्यपदिशति श्रुतिरसदेवेदमग्र आसीदित्यसद्धा इदमग्र आसीदिति च ।
तस्मादमद्वयपदेशान्न प्रागुत्पत्ते: कार्यस्य सत्त्वमिति चेत् ।
नेति ब्रूम: । न हययमत्यन्तासत्त्वाभिप्रायेण प्रागुत्पत्ते: कार्यस्यासद्वयपदेश: ।
किं तर्हि । व्याकृतनामरूपत्वाद्धर्मादव्याकृतनामरूपत्वं धर्मान्तरं तेन धर्मान्तरेणायमसद्वयपदेश: प्रागुत्पत्ते: सत एव कार्यस्य कारणरूपेणानन्यस्य ।
कथमेतदवगम्यते । वाक्यशेषात् ।
यद्पक्रमे संदिग्धार्थं वाक्यं तच्छेषान्निश्चीयते ।
इह च तावदसदेवेदमग्र आसीदिस्यसच्छब्देनोपक्रमे निर्दिष्टं यत्तदेव पुनस्तच्चब्देन परामृश्य सदिति विशिनष्टि तत्सदासीदिति ।
असतश्च पूर्वापरकालासंबन्धादासीच्छब्दानुपपत्तेश्च ।
असद्वा इदमग्र आसीदित्यत्रापि तदात्मानं स्वयमकुरुतोति वाक्यशेषे विशेषणान्नात्यन्तासत्त्वम् ।
तस्मादधर्मान्तरेणिअवायमसव्द्यपदेश:  प्रागुत्पत्ते: कार्यस्य ।
नामरूपव्याकृतं हि वस्तु सच्छब्दार्हं लोके प्रसिद्धम् ।
अत: प्राङ्गनामरूपव्याकरणादसदिवासीदित्युपचर्यते ॥१७॥

N/A

References : N/A
Last Updated : December 05, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP