प्रथम: पाद: - सूत्र ३०

ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


सर्वोपेता च तद्दर्शनात् ॥३०॥

सर्वोपेता च तद्दर्शनात् ।
एकस्यापि ब्रम्हाणो विचित्रशक्तियोगादुपपद्यते विचित्रो विकारप्रपञ्च इत्युक्तम् ।
तत्पुन: कथमवगम्यते विचित्रशक्तियुक्तं परं ब्रम्होति ।
तदुच्यते ।
सर्वोपेता च तद्दर्शनात् ।
सर्वशक्तियुक्ता च परा देवतेत्यभ्युपगन्तव्यम् ।
कुत: । तद्दर्शनात् ।
तथा हि दर्शयति श्रुति: सर्वशक्तियोगं परस्या देवताया: ।
सर्वकर्मा सर्वकाम: सर्वगन्ध: सर्वरस: सर्वमिदमभ्यात्तोऽवाक्यनादर: - सत्यकाम: सत्यसङ्कल्प: - य: सर्वज्ञ: सर्ववित - एतस्य वा अक्षरस्य प्रशाने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठत इत्येवंजातीयका ॥३०॥

N/A

References : N/A
Last Updated : December 06, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP