प्रथम: पाद: - सूत्र ८

ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


अपीतौ तद्वत् प्रसङ्गादसमञ्जसम् ॥८॥

अपीतौ तद्वत्प्रसङ्गादसमञ्जसम् । अत्राह यदि स्थौल्यसावयवत्वाचेतनत्वपरिच्छिन्नत्वाशुद्धयादिधर्मकं कार्यं ब्रम्हाकारणकमभ्युपगम्येत तदापीतौ प्रलये प्रति संसृज्यमानं कार्यं कारणाविभागमापद्यमानं कारणमात्मीयेन धर्मेण दूषयेदित्यपीतौ कारणस्यापि ब्रम्हाण: कार्यस्येवाशुद्धयादिरूपप्रसङ्गात्सर्वज्ञं ब्रम्हा जगत: कारणमित्यसमञ्जसमिदमौपनिषदं दर्शनमू ।
अपि च समस्तस्य विभागस्याविभागप्राप्ते: पुनरुत्पत्तौ नियमकारणाभावाद्भोक्तृभोग्यादिविभागेनोत्पत्तिर्न प्राप्नोतीत्यसमञ्जसम् ।
अपि च भोक्तृणां परेण  ब्रम्हाणाऽविभागं गतानां कर्मादिनिमित्तप्रलयेऽपि पुनरुत्पत्तावभ्युपगम्यमानायां मुक्तानामपि पुनरुत्पत्तिप्रसङ्गादसमञ्जसम् ।
अथेदं जगदपीतावपि बिभक्तमवे परेण ब्रम्हाणावतिष्ठेतैवमप्यपीतिश्च न संभवति ।
कारणाव्यातिरिक्तं च कार्यं न संभवतीत्यसमञ्जसमेवेति ॥८॥

N/A

References : N/A
Last Updated : December 05, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP