प्रथम: पाद: - सूत्र ९

ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


न तु द्दष्टान्तभावात् ॥९॥

कारणस्यापि ब्रम्हाण: कार्यस्येवाशुद्धयादिरूपप्रसङ्गात्सर्वज्ञं ब्रम्हा जगत: कारणमित्यसमञ्जसमिदमौपनिषदं दर्शनमू ।
अपि च समस्तस्य विभागस्याविभागप्राप्ते: पुनरुत्पत्तौ नियमकारणाभावाद्भोक्तृभोग्यादिविभागेनोत्पत्तिर्न प्राप्नोतीत्यसमञ्जसम् ।
अपि च भोक्तृणां परेण  ब्रम्हाणाऽविभागं गतानां कर्मादिनिमित्तप्रलयेऽपि पुनरुत्पत्तावभ्युपगम्यमानायां मुक्तानामपि पुनरुत्पत्तिप्रसङ्गादसमञ्जसम् ।
अथेदं जगदपीतावपि बिभक्तमवे परेण ब्रम्हाणावतिष्ठेतैवमप्यपीतिश्च न संभवति ।
कारणाव्यातिरिक्तं च कार्यं न संभवतीत्यसमञ्जसमेवेति ॥८॥

अत्रोच्यते । न तु द्दष्टान्तभावात् । नैवास्मदीये दर्शने किंचिदसामञ्जत्यमस्ति यत्तावदभिहितं कारणमपि गच्छत्कार्यं कारणमात्मीयेन धर्मेण दूषयेदिति तददूषणम् ।
कस्मात् । द्दष्टान्तभावात् ।
सन्ति हि द्दष्टान्ता यथा कारणमपि गच्छत्कार्यं कारणमात्मीयेन धर्मेण न दूषयति ।
तद्यथा शरावादयो मृत्प्रकृतिका विकारा विभागावस्थायामुञ्चावचमध्यमप्रभेदा: सन्त: पुन: प्रकृतिमपिगच्छन्तो न तामात्मीयेन धर्मेण संसृजन्ति । रुचकादयश्च सुवर्णविकारा अपीतौ न सुवर्णमात्मीयेन धर्मेण संसृजन्ति ।
त्वत्पक्षस्य तु न कश्चिदद्दष्टान्तोऽस्ति । अपीतिरेव हि न संभवेद्यदि कारणे कार्यं स्वधर्मेणैवावतिष्ठेत ।
अनन्यत्वेऽपि कार्यकारणयो:अ कार्यस्य कारणात्मत्वं न तु  कारणस्य कार्यात्मत्वमारम्भणशब्दादिभ्य इति वक्ष्याम: ।
अत्यल्पं चेदमुच्यते कार्यमपीतावात्मीयेन धर्मेण कारणं संसृजेदिति । स्थितावपि समानोऽयं मुच्यते कार्यमपीतावात्मीयेन धर्मेण कारणं संसृजेदिति ।
स्थितावपि समानोऽयं प्रसङ्ग: कार्यकारणयोरनन्यत्वाभ्युपगमात् ।
इदं सर्वं यदयमात्मा आत्मैवेदं सर्वं ब्रम्हौवेदममृतं पुरस्तात्स्वर्वं खल्विदं ब्रम्होवमाद्याभिर्हि श्रुतिभिरविशेषेण त्रिष्वपि कालेषु कार्यस्य कारणानन्यत्वं श्राव्यते ।
तत्र य: परिहार: कार्यस्य तद्धर्माणां चाविद्याध्यारोपितत्वान्न तै: कारणं संसृज्यत इत्यपीतावपि स समान: ।
अस्ति चायमपरो द्दष्टान्तो यथा स्वयं प्रसारितया मायया मायावी त्रिष्वपि कालेषु न संस्पृश्यतेऽवस्तुत्वादेव परमात्मापि संसारमायया न संस्पृश्यत इति ।
यथा च स्वप्नद्दशेक: स्वप्रदर्शनमायया न संस्पृश्यत इति प्रबोधसंप्रसादयोरनन्वागतत्वादेवमवस्थात्रयसाक्ष्येकोऽव्यभिचार्यवस्थात्रयेण व्यभिचारिणा न संस्पृश्यते ।
मायामात्रं हयेतत्परमात्मनोऽवस्थात्रयात्मनावभासनं रज्ज्वा इव सर्पादिभावेनेति ।
अत्रोक्तं वेदान्तार्थसंप्रदायविद्भिराचार्यौ: ।

अनादिमायया सुप्तो यदा जीव: प्रबुध्यते ।
अजमनिद्रमस्वप्रमद्वैत बुध्यते तदेति ॥


तत्र यदुक्तमपीतौ कारणस्यापि कार्यस्येव स्थौल्यादिदोषप्रसङ्ग इत्येतदयुक्तम् ।
यत्पुनरेतदुक्तं समस्तस्य विभागस्याविभागप्राप्ते: पुनर्विभागेनोत्पत्तौ नियमकारणं नोपपद्यत इति ।
अयमप्यदोष: । ष्टान्तभावादेव ।
यथा हि सुषुप्तिसमाध्यादावपि सत्यां स्वाभाविक्यामविभागप्राप्तौ मिथ्याज्ञानस्यानपोदितत्वात्पूर्ववत्पुन: प्रबोध विभागो भवत्येवमिहापि भविष्यति ।
श्रुतिश्चात्र भवति ।
इमा: सर्वा: प्रजा: सति संपद्य न विदु: सति संपद्यामह इति त इह व्याघ्रो वा सिंहो वा वृको वा वराहो वा कीटो वा पतङ्गो वा दंशो वा मशकोवा यद्यद्भवन्ति तदा भवन्तीति ।
यथा हयविभागेऽपि परमात्मनि मिथ्याज्ञानप्रतिबद्धो विभागव्यवहार: स्वप्नवदव्याहत: स्थितौ द्दश्यत एवमपीतावपि मिथ्याज्ञानप्रतिबद्धैव विभागशक्तिरनुमास्यते ।
एतेन मुक्तानां पुनरुत्पत्तिप्रसङ्ग: प्रत्युक्त: ।
सम्यग्ज्ञानेन मिथ्याज्ञानस्यापोदितत्वात् ।
य: पुनरयमन्तेऽपरो विकल्प उत्प्रेक्षितोऽथेदं जगदपीतावपि विभक्तमेव परेण ब्रम्हाणावतिष्ठेतेति सोऽप्यनभ्युपगमादेव प्रतिषिद्ध: ।
तस्मात्समञ्जसमिदमौपनिषदं दर्शनम् ॥९॥

N/A

References : N/A
Last Updated : December 05, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP