प्रथम: पाद: - सूत्र २६

ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वा ॥२६॥

कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वा ।
चेतनमेकमद्वितीयं ब्रम्हा क्षीरादिवद्देवादिवच्चानपेक्ष्य बाहयसाधनं स्वयं परिणममानं जगत: कारणमिति स्थितम् ।
शास्त्रार्थपरिशुद्धये तु पुनराक्षिपति ।
कृत्स्नप्रसक्ति: कृत्स्नस्य ब्रम्हाण: कार्यरूपेण परिणाम: प्राप्नोति ।
निरवयवत्वात् ।
यदि ब्रम्हा पृथिव्यादिवत्सावयवमभविष्यत्ततोऽस्यैकदेश: पर्यणंस्यदेशश्चावास्थास्यत ।
निरवयवं तु ब्रम्हा श्रुतिभ्योऽवगम्यते ।
निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम् ।
दिव्यो हयमूर्त: पुरुष:अ स बाह्याभ्यन्तरो हयज: ॥
इदं महद्भूतमनन्तमपारं विज्ञानघन एव ।
स एष नेति नेत्यात्मा ।
अस्थूलमनण्वित्याद्याभ्य: सर्वविसेषप्रतिषेधिनीभ्य: ।
ततश्चैकदेशपरिणामासंभवात्कृत्स्नपरिणामप्रंसक्तौ सत्यां मूलोच्छेद: प्रसज्येत ।
द्रष्टव्यतोपदेशानर्थक्यं चायत्नदृष्टत्वात्कार्यस्य तद्यातिरिक्तस्य च ब्रम्हाणोऽसंभवात् ।
अजत्वादिशब्दकोपश्च । अथैतद्दोषपरिजिहीर्षया सावयवमेव ब्रम्हाभ्युपगम्येत तथापि ये निरवयवत्वस्य प्रतिपादका: शब्दा उदाहृ तास्ते प्रकुप्येयु: ।
सावयवत्वे चानित्यत्वप्रसङ्ग इति ।
सर्वथाऽयं पक्षो न घटयितुं शक्यत इत्याक्षिपति ॥२६॥

N/A

References : N/A
Last Updated : December 06, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP