संस्कृत सूची|संस्कृत साहित्य|धर्मः|ब्रह्म सूत्राणि|द्वितीयोध्यायः| प्रथम: पाद:| सूत्र २७ प्रथम: पाद: सूत्र १ सूत्र २ सूत्र ३ सूत्र ४ सूत्र ५ सूत्र ६ सूत्र ७ सूत्र ८ सूत्र ९ सूत्र १० सूत्र ११ सूत्र १२ सूत्र १३ सूत्र १४ सूत्र १५ सूत्र १६ सूत्र १७ सूत्र १८ सूत्र १९ सूत्र २० सूत्र २१ सूत्र २२ सूत्र २३ सूत्र २४ सूत्र २५ सूत्र २६ सूत्र २७ सूत्र २८ सूत्र २९ सूत्र ३० सूत्र ३१ सूत्र ३२ सूत्र ३३ सूत्र ३४ सूत्र ३५ सूत्र ३६ सूत्र ३७ प्रथम: पाद: - सूत्र २७ ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत. Tags : bookbrahmasutradharmaधर्मब्रह्मसूत्र सूत्र २७ Translation - भाषांतर श्रुतेस्तु शब्दमूलत्वात् ॥२७॥श्रुतेस्तु शब्दमूलत्वात् ।तुशब्देनाक्षेपं परिहरति । नखल्वस्मत्पक्षे कश्चिदपि दोषोस्ति । न तावत्कृत्स्नप्रसक्तिरस्ति । कुत: । श्रुते: ।यथैव हि ब्रम्हाणो जगदुत्पत्ति: श्रूय़त एवं विकारव्यतिरेकेणापि ब्रम्हाणोऽवस्थानं श्रूयते ।प्रकृतिविकारयोर्भेदेन व्यपदेशात् ।सेयं देवतैक्षत हन्ताहमिमास्तिस्रो देवाता अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणीति ।तावानस्य महिमा ततो ज्यायांश्च पूरूषा: ।पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवीति चैवंजातीयकात् ।तथा ह्रदयायतनत्ववचनात्संपत्तिवचनाच्च ।यदि च कृत्स्नं ब्रम्हा कार्यभावेनोपयुक्तं स्यात्सता सोम्य तदा संपन्नो भवतीति सुषुप्तिगतं विशेषणमनुपपन्नं स्यात् ।विकृतेन ब्रम्हाणा नित्यसंपन्नस्वादविकृतस्य च ब्रम्हाणोऽभावात् । तथेन्द्रिययगोचरत्वप्रतिषेधाहब्रम्हाणो विकारस्य चेन्द्रियगोचरत्वोपपत्त: ।तस्मादस्त्यविकृतं ब्रम्हा ।न च निरवयवत्वशब्दकोपोऽस्ति ।श्रूयमाणत्वादेव निरवयवत्वस्याप्यभ्युपगम्यमानत्वात् ।शब्दमूलं च ब्रम्हा शब्दप्रमाणकं नेन्द्रियादिप्रमाणकं तद्यथाशब्दमभ्युपगन्तव्यम् ।शब्दश्चोभयमपि ब्रम्हाण: प्रतिपादयत्यकृत्स्नप्रसक्तिं निरवयवत्वं च ।लौकिकानामपि मणिमन्त्रौषधिप्रभृतीनां देशकालनिमित्तवैचित्र्यवशाच्छक्तयो विरुद्धानेककार्यविषया दृश्यन्ते ।ता अपितावन्नोपदेशमन्तरेण केवलेन सर्केणावगन्तुं शक्यन्तेऽस्य वस्तुन एतावत्य एतत्सहाया एतद्विषया एतत्प्रयोजनाश्च शक्तय इति ।किमुताचिन्त्यप्रभावस्य ब्रम्हाणो रूपं विना शब्देन न निरूप्ये ।तथा चाहु: पौराणिका: । अचिन्त्या: खलु ये भावा न तांस्तर्केण योजयेत् ।प्रकृतिभ्य: परं यच्च तदचिन्त्यस्य लक्षणमिति ।तस्माच्छब्दमूल एवातीन्द्रियार्थयाथात्म्याधिगम: ।ननु शब्देनापि न शक्यते विरुद्धोऽर्थ: प्रत्याययितुं निरवयवं च ब्रम्हा परिणमते न च कृत्स्नमिति ।यदि निरवयवं ब्रम्हा स्यान्नैव परिणमेत ।कृत्स्नमेव वा परिणमेत । अथ केनचिद्रूपेण परिणमेत केनचिच्चावतिष्ठेतेति रूपभेदकल्पनात्सावयवमेव प्रसज्येत ।क्रियाविषये हयतिरात्रे षोडशिनं गृहणति नातिरात्रे षोडशिनं गृहणतीत्येवंजातीयकायां विरोधप्रतीतावपि विकल्पाश्रयणं विरोधपरिहारकारणं भवति पुरुषतन्त्रत्वादनुष्ठानस्य ।इह तु विकल्पाश्रयणेनापि न विरोधपरिहार: संभवति ।अपुरुषतन्त्रत्वाद्वस्तुन: ।तस्माद्दुर्घटमेतदिति ।नैष दोष: । अविद्याकल्पितरूपभेदभ्युपगमात् ।न हयविद्याकल्पितेन रूपभेदेन साबयवं वस्तु संपद्यते ।न हि तिमिरोपहतनयनेनानेक इव चद्रमा दृश्यमानोऽनेक एव भवति ।अविद्याकल्पितेन च नामरूपलक्षणेन रूपभेदेन व्याकृताव्याकृतात्मकेन तत्त्वान्यत्वाभ्यामनिर्वचनीयेन ब्रम्हा परिणामादिसर्वंव्यवहारास्पदत्वं प्रतिपद्यते पारमार्थिकेन च रूपेण सर्वव्यवहारातीतमपरिणतमवतिष्ठते ।वाचारम्भणमात्रत्वाच्चाविद्याकल्पितस्य नामरूपभेदस्येति न निरवयवत्वं ब्रम्हाण: कुप्यति ।न चेयं परिणामश्रुति: परिणामप्रतिपादनार्था तत्प्रतिपत्तौ फलानवगमात् ।सर्वव्यवहारहीनब्रम्हात्मभावप्रतिपादनार्था त्वेषा तत्प्रतिपत्तौ फलावगमात्स एष नेति नेत्यात्मेत्युपक्रम्याह - अभयं वै जनक प्राप्तोऽसीति ।तस्मादस्मत्पक्षे न कश्चिदपि दोषप्रसङ्गोऽस्ति ॥२७॥ N/A References : N/A Last Updated : December 06, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP