संस्कृत सूची|संस्कृत साहित्य|धर्मः|ब्रह्म सूत्राणि|द्वितीयोध्यायः| प्रथम: पाद:| सूत्र ६ प्रथम: पाद: सूत्र १ सूत्र २ सूत्र ३ सूत्र ४ सूत्र ५ सूत्र ६ सूत्र ७ सूत्र ८ सूत्र ९ सूत्र १० सूत्र ११ सूत्र १२ सूत्र १३ सूत्र १४ सूत्र १५ सूत्र १६ सूत्र १७ सूत्र १८ सूत्र १९ सूत्र २० सूत्र २१ सूत्र २२ सूत्र २३ सूत्र २४ सूत्र २५ सूत्र २६ सूत्र २७ सूत्र २८ सूत्र २९ सूत्र ३० सूत्र ३१ सूत्र ३२ सूत्र ३३ सूत्र ३४ सूत्र ३५ सूत्र ३६ सूत्र ३७ प्रथम: पाद: - सूत्र ६ ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत. Tags : bookbrahmasutradharmaधर्मब्रह्मसूत्र सूत्र ६ Translation - भाषांतर द्दश्यते तु ॥६॥द्दश्यते तु ।तुशब्द: पक्षं व्यावर्तयति यदुक्तं विलक्षणत्वान्नेदं जगदब्रम्हाप्रकृतिकमिति ।नयमेकान्त: ।द्दश्यते हि लोके चेतनत्वेन प्रसिद्धेभ्य: पुरुषादिभ्यो विलक्षणानां केशनखदीनामुत्पत्तिरचेतनत्वेन प्रसिद्धेभ्यो गोमयादिभ्यो वृश्चिकादीनाम् ।नन्वचेतनान्येव पुरुषादिशरीराण्यचेतनानां केशनशादीनां कारणानि । अचेतनान्येव च वृश्चिकादिशरीराण्यचेतनानां गोमयादीनां कार्याणीति ।उच्यते ।एवमपि किञ्चिदचेतनं चेतनस्यायतनभावमुपगच्छति किञ्चिन्नेत्यस्त्येव वैलक्शण्यम् ।महांश्चायं पारिणामिक: स्वभावविप्रकर्ष: पुरुषादीनां केशनखादीनां च स्वरूपादिभेदात् ।तथा गोमयादीनां ष्टश्चिकादीनां च ।अत्यन्तसारूप्ये च प्रकृतिविकारभाव एव प्रलीयेत ।अथोच्येतास्ति कश्चित्पार्थिवत्वादिस्वभाव: पुरुषादीनां केशनखादिष्वनुवर्तमानो गोमयादीनां वृश्विकादिष्विति ।ब्रम्हाणोऽपि तर्हि सत्तालक्षण: स्वभाव आकाशादिष्वनुवर्तमानो द्दश्यते ।विलक्षणत्वेन च कारणेन ब्रम्हाप्रकृतिकत्वं जगतो दूषयता किमशेषस्य ब्रम्हास्वभावस्याननुवर्तनं विलक्षणत्वमभिप्रेयत उत यस्य कस्यचिदथ चैतन्यस्येति वक्तव्यम् ।प्रथमे विकल्पे समस्तप्रकृतिविकारोच्छेप्रसङ्ग: ।न म्हासत्यतिशये प्रकृतिविकरभाव इति भवति ।द्वितीये चासिद्धत्वम् ।द्दश्यते हि सत्तालक्षणो ब्रम्हास्वभाव आकाशादिष्वनुवर्तमान इत्युक्तम् ।तृतीये तु द्दष्टान्ताभाव: ।किं हि यच्चैतन्येनानन्वितं तदब्रम्हाप्रकृतिकं द्दष्टमिति ब्रम्हावादिनं प्रत्युदाह्रियेत ।समस्तस्य वस्तुजातस्य ब्रम्हाप्रकृतिकत्वाभ्युपगमात् ।आगमविरोधस्तु प्रसिद्ध एव ।चेतनं ब्रम्हा जगत: कारणं प्रकृतिश्चेत्यागमतात्पर्यस्य प्रसाधितत्वात् ।यत्तूक्तं परिनिष्पन्नत्वादब्रम्हाणि प्रमाणान्तराणि संभवेयुरिति ।तदपि मनोरथमात्रम् । रूपाद्यभावाद्धि नायमर्थ: प्रत्यक्षस्य गोचर: ।लिङ्गाद्यभावाच्च नानुमानादीनाम् ।आगममात्रसमधिगम्य एव त्वयमर्थो धर्मवत् ।तथा च श्रुति: ।नैषा तर्केण मतिरापनेया प्रोक्तान्येनैव सुज्ञानाय प्रेष्ठेति ।को अद्धा वेद क इह प्रवोचत् ।कुत आजाता कुत इयं विसृष्टि: ।अर्वाग्देवा अस्यविसर्जनेनाथाको वेद यत आबभूवेति चैतौ मन्त्रौ निजसिद्धानामपीश्वराणां दुर्बोधतां जगत्कारणस्य दर्शयत: ।स्मृतिरपि भवति अचिन्त्या: खलु ये भावा न तांस्तकर्णे योजयेत् ।प्रकृतिभ्य: परं यच्च तदचिन्त्यस्य लक्षणमिति ॥अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यत इति च न मे विदु: सुरगणा: प्रभवं न महर्षय: ।अहमादिर्हि देवानां महर्षीणां च सर्वश इति ॥चैवंजातीयिका ।यदपि श्रवणव्यतिरेकेण मनन विदधच्छब्द एव तर्कंमप्यादर्तव्यं दर्शयतीत्युक्तम् ।नानेन मिषेण शुष्कतर्कस्यात्रात्मलाभ: संभवति श्रुत्पनुगृहीत एव ह्यत्र तर्कोऽनुभवाङ्गत्वेनाश्रीयते स्वप्नान्तबुद्धान्तयोरुभयोरितरेतरव्यभिचारादात्मनोऽनन्वागतत्वं संप्रसादे च प्रपञ्चपरित्यागेन सदात्मना संपत्तेर्निष्प्रपञ्चसदात्मत्वं प्रपञ्चस्य ब्रम्हाप्रभवत्वात्कार्यकारणानन्यत्वन्यायेन ब्रम्हाव्यतिरेक इत्येवं जातीयाक: ।तर्काप्रतिष्ठानादिति च केवलस्य तर्कस्य विप्रलम्भकत्वं दर्शयिष्यति ।योऽपि चेतनकारणश्रवणबलेनैव समस्तस्य जगतश्चेतनतामुत्प्रेक्षेत तस्यापि विज्ञानं चाविज्ञानं चेति चेतनाचेतनविभागश्रवणं विभावनाविभावनाभ्यां चैतन्यस्य शक्यत एव योजयितुम् ।परस्यैव त्विदमपि विभागश्रवणं न युज्यते कथं परमकारणस्य ह्यत्र समस्तजगदात्मना समवस्थानं श्राव्यते विज्ञानं चाविज्ञानं चाभवदिति । तत्र N/A References : N/A Last Updated : December 05, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP