संस्कृत सूची|संस्कृत साहित्य|धर्मः|ब्रह्म सूत्राणि|द्वितीयोध्यायः| प्रथम: पाद:| सूत्र २२ प्रथम: पाद: सूत्र १ सूत्र २ सूत्र ३ सूत्र ४ सूत्र ५ सूत्र ६ सूत्र ७ सूत्र ८ सूत्र ९ सूत्र १० सूत्र ११ सूत्र १२ सूत्र १३ सूत्र १४ सूत्र १५ सूत्र १६ सूत्र १७ सूत्र १८ सूत्र १९ सूत्र २० सूत्र २१ सूत्र २२ सूत्र २३ सूत्र २४ सूत्र २५ सूत्र २६ सूत्र २७ सूत्र २८ सूत्र २९ सूत्र ३० सूत्र ३१ सूत्र ३२ सूत्र ३३ सूत्र ३४ सूत्र ३५ सूत्र ३६ सूत्र ३७ प्रथम: पाद: - सूत्र २२ ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत. Tags : bookbrahmasutradharmaधर्मब्रह्मसूत्र सूत्र २२ Translation - भाषांतर अधिकं तु भेदनिर्देशात् ॥२२॥अधिकं तु भेदनिर्देशात् ।तुशब्द: पक्षं व्यावर्त्ततु ।तत्सर्वज्ञं सर्वशक्ति ब्रम्हा नित्यशुद्धबुद्धन्य्ज्तस्वभावं शारीरादधिकमन्यत्तद्वयं जगत: स्रष्ट्ट ब्रूम: ।न तस्मिन्हिताकरणादयो दोषा: प्रसज्यन्ते ।न हि तस्य हितं किञ्चित्कर्तव्यमस्त्यहितं वा परिहर्तव्यं नित्यमुक्तस्वभावत्वात् ।न च तस्य ज्ञानप्रतिबन्ध: शक्तिप्रतिबन्धो वा क्वचिदप्यस्ति सर्वज्ञत्वात्सर्वशक्तित्वाच्च ।शारीरस्त्वनेवंविधस्तस्मिन्प्रसज्यन्ते हिताकरणादयो दोषा: ।न तु तं वयं जगत: स्रष्टारं ब्रूम: ।कुत एतत् ।भेदनिदर्शेशात् ।आत्मा वा अरे द्रष्टव्य: श्रोतव्यो मन्तव्यो निदिध्यासितव्य: सोऽन्वेष्टव्य: स विजिज्ञासितव्य: सता सोम्य तदा संपन्नो भवति शारीर आत्मा प्राज्ञेनात्मनान्वारूढ इत्येवंजातीयातीयक: कर्तृकर्मादिभेदनिर्देशो जीवादधिकं ब्रम्हा दर्शयति ।नन्वभेदनिर्देशोऽपि दर्शितस्त्वमसीत्येवंजातीयक: ।कथं भेदाभेदौ विरुद्धौ विरुद्धौ संभवेयाताम् ।नैष दोष: ।आकाशघटाकासन्यायेनोभयसंभवस्य तत्र प्रतिष्ठापितत्वात् ।अपि च यदा तत्त्वमसीत्येवंजातीयकेनाभेदनिर्देशेनाभेद: प्रतिबोधितो भवत्यपगतं भवति तदा जीवस्य संसारित्वं ब्रम्हाणश्च स्रष्टृत्वं समस्तस्य मिथ्याज्ञानविजृम्भितस्य भेदव्यवहारस्य सम्यग्ज्ञानेन बाधितत्वात् ।तत्र कुत एव सृष्टि: कुतो वा हिताकरणादयो दोषा: ।अविद्याप्रत्यौपस्थापितनामरूपकृतकर्यकरणसङ्घातोपाध्यविवेककृता हि भ्रान्तिर्हिताकरणादिलक्षण: संसारो न तु परमार्थतोऽस्तीत्यसकृदवोचाम ।जन्ममरणच्छेदनभेदनाद्यभिमानवत् ।अबाधिते तु भेदव्यहारे सोऽन्वेष्टव्य: स विजिज्ञासितव्य इत्येवंजातीयकेन भेदनिर्देशेनावगम्यमानं ब्रम्हाणोऽधिकत्वं हिताकरणादिदोषप्रसक्तिं निरुणद्धि ॥२२॥अधिकं तु भेदनिर्देशात् ।तुशब्द: पक्षं व्यावर्त्ततु ।तत्सर्वज्ञं सर्वशक्ति ब्रम्हा नित्यशुद्धबुद्धन्य्ज्तस्वभावं शारीरादधिकमन्यत्तद्वयं जगत: स्रष्ट्ट ब्रूम: ।न तस्मिन्हिताकरणादयो दोषा: प्रसज्यन्ते ।न हि तस्य हितं किञ्चित्कर्तव्यमस्त्यहितं वा परिहर्तव्यं नित्यमुक्तस्वभावत्वात् ।न च तस्य ज्ञानप्रतिबन्ध: शक्तिप्रतिबन्धो वा क्वचिदप्यस्ति सर्वज्ञत्वात्सर्वशक्तित्वाच्च ।शारीरस्त्वनेवंविधस्तस्मिन्प्रसज्यन्ते हिताकरणादयो दोषा: ।न तु तं वयं जगत: स्रष्टारं ब्रूम: ।कुत एतत् ।भेदनिदर्शेशात् ।आत्मा वा अरे द्रष्टव्य: श्रोतव्यो मन्तव्यो निदिध्यासितव्य: सोऽन्वेष्टव्य: स विजिज्ञासितव्य: सता सोम्य तदा संपन्नो भवति शारीर आत्मा प्राज्ञेनात्मनान्वारूढ इत्येवंजातीयातीयक: कर्तृकर्मादिभेदनिर्देशो जीवादधिकं ब्रम्हा दर्शयति ।नन्वभेदनिर्देशोऽपि दर्शितस्त्वमसीत्येवंजातीयक: ।कथं भेदाभेदौ विरुद्धौ विरुद्धौ संभवेयाताम् ।नैष दोष: ।आकाशघटाकासन्यायेनोभयसंभवस्य तत्र प्रतिष्ठापितत्वात् ।अपि च यदा तत्त्वमसीत्येवंजातीयकेनाभेदनिर्देशेनाभेद: प्रतिबोधितो भवत्यपगतं भवति तदा जीवस्य संसारित्वं ब्रम्हाणश्च स्रष्टृत्वं समस्तस्य मिथ्याज्ञानविजृम्भितस्य भेदव्यवहारस्य सम्यग्ज्ञानेन बाधितत्वात् ।तत्र कुत एव सृष्टि: कुतो वा हिताकरणादयो दोषा: ।अविद्याप्रत्यौपस्थापितनामरूपकृतकर्यकरणसङ्घातोपाध्यविवेककृता हि भ्रान्तिर्हिताकरणादिलक्षण: संसारो न तु परमार्थतोऽस्तीत्यसकृदवोचाम ।जन्ममरणच्छेदनभेदनाद्यभिमानवत् ।अबाधिते तु भेदव्यहारे सोऽन्वेष्टव्य: स विजिज्ञासितव्य इत्येवंजातीयकेन भेदनिर्देशेनावगम्यमानं ब्रम्हाणोऽधिकत्वं हिताकरणादिदोषप्रसक्तिं निरुणद्धि ॥२२॥ N/A References : N/A Last Updated : December 06, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP