संस्कृत सूची|संस्कृत साहित्य|धर्मः|ब्रह्म सूत्राणि|द्वितीयोध्यायः| प्रथम: पाद:| सूत्र १४ प्रथम: पाद: सूत्र १ सूत्र २ सूत्र ३ सूत्र ४ सूत्र ५ सूत्र ६ सूत्र ७ सूत्र ८ सूत्र ९ सूत्र १० सूत्र ११ सूत्र १२ सूत्र १३ सूत्र १४ सूत्र १५ सूत्र १६ सूत्र १७ सूत्र १८ सूत्र १९ सूत्र २० सूत्र २१ सूत्र २२ सूत्र २३ सूत्र २४ सूत्र २५ सूत्र २६ सूत्र २७ सूत्र २८ सूत्र २९ सूत्र ३० सूत्र ३१ सूत्र ३२ सूत्र ३३ सूत्र ३४ सूत्र ३५ सूत्र ३६ सूत्र ३७ प्रथम: पाद: - सूत्र १४ ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत. Tags : bookbrahmasutradharmaधर्मब्रह्मसूत्र सूत्र १४ Translation - भाषांतर तदनन्यत्वमारम्भणशब्दादिभ्य: ॥१४॥तदनन्यत्वमारम्भणसब्दादिभ्य: ।अभ्युपगम्य चेमं व्यावहारिकं भोक्तृभोग्यलक्षणं विभागं स्याल्लोकवदिति परिहारोऽभिहित: ।न त्वयं विभाग: परमर्थतोऽस्ति यस्मात्तयो: कार्यकारणयोरनन्यत्वमवगम्यते ।कार्यमाकाशादिकं बहुप्रपञ्चं जगत्कारणं पंर ब्रम्हा तस्मात्कारणात्परमार्थतोऽनन्यत्वं व्यतिरेकेणाभाव: कार्यस्यावगम्यते ।कुत: । आरम्भणशब्दादिभ्य: ।आरम्भणशब्दस्तावदेकविज्ञानेन सर्वविज्ञानं प्रतिज्ञाय द्दष्टान्तापेक्षायामुच्यते यथा सोम्यैकेन मृत्पिण्डेन सर्वं मृण्मयं विज्ञातं स्याद्वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्यमिति ।एतदुक्तं भवत्येकेन मृत्पण्डेन परमार्थतो मृदात्मना विज्ञातेन सर्वं मृण्मयं घटशरावोदञ्चनादिकं मृदात्मकत्वाविशेषाद्विज्ञातं भवेत् ।यतो वाचारम्भणं विकारो नामधेयं वाचैव केलवलमस्तीत्यारभ्यते ।विकारो घट: शराव उदञ्चनं चेति ।न तु वस्तुवृत्तेन विकारो नाम कश्चिदस्ति ।नामद्येयमात्रं हयेतदनृतं म्रुत्तिकेत्येव सत्यमिति ।एष ब्रम्हाणो द्दष्टान्त आन्नात: ।तत्र श्रुताद्वाचारम्भणशब्दाद्दार्ष्टान्तिकेऽपि ब्रम्हाव्यतिरेकेण कार्यजातस्याभाव इति गम्यते ।पुनश्च ते जोऽबन्नानां ब्रम्हाकार्यतामुक्त्वा तेजोऽबन्नकार्याणां तेजोऽबन्नव्यतिरेकेणाभावं ब्रतीत्यपागादग्नरेग्नित्वं वाचारम्भणं विकारो नामधेयं त्रीणि रूपाणित्येव सत्यमित्यादिना ।आरम्भणशब्दादिभ्य इत्यादिशब्दादैतदात्म्यमिदं सर्व तत्सत्यं स आत्मा तत्त्वमसीदं सर्व यदयमात्मा ब्रम्हौवेदं सर्वमात्मैवेदं सर्वं नेह नानास्ति किंचनेत्येवमाद्यप्यात्मैकत्वप्रतिपादनपर वचनजातमुदाहर्तव्यम् ।न चान्यथैकविज्ञानेन सर्वविज्ञानं संपद्यते ।तस्माद्यया घटकरकाद्याकाशानां महाकाशानन्यत्वं यथा च मृगतृष्णिकोदकादीनामू षरादिभ्योऽनन्यत्वं द्दष्टनष्टस्वरूपत्वात्स्वरूपेणानुपाख्यत्वादेवमस्य भोग्यभोक्त्रादिप्रपञ्चजातस्य ब्रम्हाव्यतिरेकेणाभाव इति द्रष्टव्यम् ।नन्वनेकात्मकं ब्रम्हा यथा वृक्षोऽनेकशाख एवमनेकशक्तिप्रवृत्तियुक्तं ब्रम्हा ।अत एकत्वं नानात्वं चोभयमपि सत्यमेव ।यथा वृक्ष इत्येकत्वं शाखा इति नानात्वम् ।यथा च समुद्रात्मनैकत्वं फेनतरङ्गाद्यात्मना नानत्वम् ।यथा च मृदात्मनैकत्वं घटशरावाद्यात्मना नानात्वम् ।तत्रैकत्वांशेन ज्ञानान्मोक्षव्यवहार: सेत्स्यति ।नानात्वांशेन तु कर्मकाण्डाश्रयौ लौकिकवैदिकव्यवहारौ सेत्स्यत इति ।एवं च म्रुदादिद्दष्टान्ता अनुरूपा भविष्यन्तीति । नैवंस्यात् ।मृत्तिकेत्येव सत्यमिति प्रकृतिमात्रस्य द्दष्टान्ते सत्यत्वावधारणात् ।वाचारम्भणशब्देन च विकारजातस्यानृतत्वाभिधानात् ।दार्ष्टान्तिकेऽपैतदात्म्यमिदं सर्वं तत्सत्यमिति च परमकारणस्यैवैकस्य सत्यत्वावधारणात् ।स आत्मा तत्त्वमसि श्वेतकेतो इति च शारीरस्य ब्रम्हाभावोपदेशात् ।स्वयं प्रसिद्धं हयेतच्छारीरस्य ब्रम्हात्मत्वमुपदिश्यते न यत्नान्तरप्रसाध्यम् ।अतश्चेदं शास्त्रीयं ब्रम्हात्मत्वमवगम्यमानं स्वाभाविकस्य शारीरात्मत्वस्य बाधकं संपद्यते रज्ज्वादिबुद्धय इव सर्पादिबुद्धीनाम् ।बाधिते च शारीरत्मत्वे तदाश्रय: समस्त: स्वाभाविको व्यवहारो बाधितो भवति यत्प्रसिद्धये नानात्वांशोऽपरो ब्रम्हाण: कल्प्येत ।दर्शयति च यत्र त्वस्य सर्वमात्मैवाभूतत्केन कं पश्येदित्यादिना ब्रम्हात्मत्वदर्शिनं प्रति समस्तस्य क्रियाकारकफललक्षणस्य व्यवहारस्याभावम् ।न चायं व्यवहाराभावोऽवस्थाविशेषनिबद्धोऽभिधीयत इति युक्तं वक्तुं तत्त्वमसीति ब्रम्हात्मभावस्यानवस्थाविशेषनिबन्धनत्वात् ।तस्करद्दष्टान्तेन चान्रुताभिसन्धस्य बन्धनं सत्याभिसन्धस्य मोक्षं दर्शयन्नेकत्वमेवैकं पारमार्थिकं दर्शयति ।मिथ्याज्ञानविजृम्भितं च नानात्वम् ।उभयसत्यतायां हि कथं व्यवहारगोचरोऽपि जन्तुरनृताभिसन्ध इत्युच्येत ।मृत्यो: स मृत्युमाप्नोतिय इह नानेव पश्यतीति च भेदद्दष्टिमपवदन्नेवैतद्दर्शयति ।न चास्मिन्दर्शने ज्ञ्सनान्मोक्ष इत्युपपद्यते ।सम्यग्ज्ञानापनोद्यस्य कस्यचिन्मिथ्याज्ञानस्य संसारकारणत्वेनानभ्युपगमात् ।उभयसत्यतायां हि कथमेकत्वज्ञानेन नानात्वज्ञानमपनुद्यत इत्युच्यते ।नन्वेकत्वैकान्ताभ्युपगमे नानात्वाभावात्प्रत्यक्षादीनि लौकिकानि प्रमाणानि व्याहन्येरन्निर्विपयत्वात्स्थाण्वादिष्विव पुरुषादिज्ञानानि ।तथा विधिप्रतिषेधशास्त्रमपि भेदापेक्षत्वात्तदभावे व्याहन्येत मोक्षशास्त्रस्यापि शिष्यशासित्रादिभेदापेक्षत्वात्तदभावे व्याघात: स्यात् ।कथं चानृतेन मोक्षशास्त्रेण प्रतिपादितस्यात्मैकत्वस्य सत्यत्वमुपपद्येतेति ।अत्रोच्यते । नैष दोष: । सर्वव्यवहाराणामेव प्राग्ब्रम्हात्मताविज्ञानात्सत्यत्वोपपत्ते: ।स्वप्नव्यवहारस्येव प्राग्बोधात् । यावद्धि न सत्यात्मैकत्वप्रतिपत्तिस्तावत्प्रमाणप्रमेयफललक्षणेषु विकारेष्वनृतबुद्धिर्न कस्यचिदुत्पद्यते ।विकारानेव त्वहं ममेत्यविद्ययात्मात्मीयेन भावेन सर्वो जन्तु: प्रतिपद्यते स्वाभाविकीं ब्रम्हात्मतां हित्वा ।तस्मात्प्रागब्रम्हात्मताप्रतिबोधादुपपन्न: सर्वो लौकिको वैदिकश्च व्यवहार: ।यथा सुप्तस्य प्राकृतस्य जनस्य स्वप्न उच्चावचान्भावान्पश्यतो निश्चितमेव प्रत्यक्षाभिमतं विज्ञानं भवति प्राक्प्रबोधान्न च प्रत्यक्षाभासाभिप्रायस्तत्काले भवति तद्वत् ।कथं त्वसत्येन वेदान्तवाक्येन सत्यस्य ब्रम्हात्मत्वस्य प्रतिपत्तिरुपपद्येत ।न हि रज्जुसर्पेण दष्टो म्रियते ।नापि मृगतृष्णिकाम्भसा पानावगाहनादिप्रयोजनं क्रियत इति ।नैष दोष: । शङकाविषादिनिमित्तमरणादिकार्योपलब्धे: ।स्वप्नदर्शानावस्थस्य च सर्पदंसनोदकस्नानादिकार्यदर्शनात् ।तत्कार्यमप्यनृतमेवेति चेदब्रूयात । तत्र ब्रूम: ।यद्यपि स्वप्नदर्शननावस्थस्य सर्पदंशनोदकस्नानादिकार्यमनृतं तथापि तदवगति: सत्यमेव फलं प्रतिबुद्धस्याप्यबाध्यमानत्वात ।न हि स्वप्नादुत्थित: स्वप्नद्दष्टं सर्पदंशनोदकसानादिकार्यं मिथ्येति मन्यमानस्तदवगतिमपि मिथ्येति मन्यते कश्चित् ।एतेन स्वप्नद्दशोऽवगत्यबाधनेन हेहमात्रात्मवादो दषितो वेदितव्य: । तथा च श्रुति: ।यदा कर्मसु काम्येषु स्त्रियं स्वन्पेषु पश्यति ।समृद्धिं तत्र जानीयात्तस्मिन्स्वप्ननिदर्शने ॥इत्यसत्येन स्वप्नदर्शनेन सत्याया: समृद्धे: प्राप्तिं दर्शयाति ।तथा प्रत्यक्षदर्शनेषु केषुचिदरिष्टेपु जातेषु न चिरमिव जीविष्यतीति विद्यादित्युक्त्वाऽथ स्वप्ना: पुरुषं कृष्णं कृष्णदन्तं पश्यति स एनं हन्तीत्यादिना तेन तेनासत्येनैव स्वप्नदर्शनेन सत्यमरणं मूच्यत इति दर्शयति ।प्रसिद्धं चेदं लोकेऽन्वयव्यतिरेककुशलानामीद्दशेन स्वप्नदर्शनेन साध्वागम: सूच्यत ईद्दशेनासाध्वागम इति ।तथाऽकारादिसत्याक्षरप्रतिपत्तिर्द्दष्टा रेखानृताक्षरप्रतिपत्ते: ।अपि चान्त्यमिदं प्रमाणमात्मैकत्वस्य प्रतिपाद्कं नात: परं किञ्चिदाकाङक्ष्यमस्ति ।यथा हि लोके यजेतेयुक्ते किं केन कथमित्याकाङ्क्षयते नैवं तत्त्वमस्यहंब्रम्हास्मीत्युक्ते किञ्चिदन्यदाकाङ्क्ष्यमस्ति सर्वात्मैकत्वविषयत्वादवगते: ।सति हयन्यस्मिन्नवशिष्यमाणेऽर्थ आकाङ्क्षा स्यात् ।न त्वात्मैकत्वव्यतिरेकेणावशिष्यमाणोऽर्थोऽस्ति य आकाङ्क्ष्येत ।न चेयमवगतिर्गोत्पद्यत इति शक्यं वक्तुं तद्धास्य विजज्ञावित्यादिश्रुतिभ्य: ।अवगतिसाधनानां च श्रवणादीनां वेदानुवचनादीनां च विधानात् ।न चेयमवगतिरनर्थिका भ्रान्तिर्वेति शक्यं वक्तुम् ।अविद्यानिवृत्तिफलदर्शनाद्बाधकज्ञानान्तराभावाच्च ।प्राक चात्मैकत्वावगतेरव्याहत: सर्व: सत्यानृतव्यवहारो लौकिको वैदिकश्चेत्यवोचाम ।तस्मादन्त्येन प्रमाणेन प्रतिपादित आत्मैकत्वे समस्तस्य प्राचीनस्य भेदव्यवहारस्य बाधितत्वान्नानेकात्मकब्रम्हाकल्पनावकाशोऽस्ति ।ननु मृदादिद्दष्टान्तप्रणयनात्परिणामवहब्रम्हा शास्त्रस्याभिमतमिति गम्यते ।परिणामिनो हि मृदादयोऽर्था लोके समधिगता इति ।नेत्युच्यते । स वा एष महानज आत्माऽजरोऽमरोऽमृतोऽभयो ब्रम्हा स एष नेति नेत्यात्माऽस्थूलमनण्वित्याद्याभ्य: सर्वविक्रियाप्रतिषेधश्रुतिभ्यो ब्रम्हाण: कूटस्थत्वावगमात् ।न हयेकस्य ब्रम्हाण: परिणामधर्मत्वं तद्रहितत्वं च शक्यं प्रतिपत्तुम ।स्थितिगतिवत्स्यादीति चेत् ।कूटस्थस्येति विशेषणात् ।न हि कृटस्थस्य ब्रम्हाण: स्थितिगतिवदनेकधर्माश्रयत्वं संभवति ।कृटस्थं च नित्यं ब्रम्हा सर्वविक्रियाप्रतिषेधादित्यवोचाम ।न च यथा ब्रम्हाण आत्मैकत्वदर्शनं मोक्षसाधनमेवं जगदाकारपरिणामित्वदर्शनमपि स्वतन्त्रमेव कस्मैचित्फलायाभिप्रेयते प्रमाणाभावात् ।कूटस्थब्रम्हात्मत्वविज्ञानादेव हि फलं दर्शयति शास्त्रं स एष नेति येत्यात्मेत्युपक्रम्याभयं वै जनक प्राप्तोसीत्येवंजातीयकम् ।तत्रैतत्सिद्धं भवति ब्रम्हाप्रकरणे सर्वधर्मविशेषरहितब्रम्हादर्शनादेव फलसिद्धौ सत्यां यत्तत्राफलं श्रूयते ब्रम्हाणो जगदाकारपरिणामित्वादि तहब्रम्हादर्शनोपायत्वेनैव विनियुज्यते फलवत्सन्निधावफलं तदङ्गमितिवत् ।न तु स्वतन्त्रफलाय कल्प्यत इति ।न हि परिणामवत्त्वविज्ञानात्परिणामवत्त्वमात्मन: फलं स्यादिति वक्तुं युक्तं कूटस्थनित्यत्वान्मोक्षस्य ।कूटस्थब्रम्हात्मवादिन एकत्वैकान्त्यादीशित्रीशितव्याभाव ईश्वरकारणप्रतिज्ञाविरोध इति चेत् ।न । अविद्यात्मकनामरूपबीजव्याकरणापेक्षत्वात्सर्वज्ञत्वस्य ।तस्माद्वा एतस्मादात्मन आकाश: सभूत इत्यादिवाक्येभ्यो नित्यशुद्धबुद्धमुक्तस्वरूपात्सर्वज्ञात्सर्वसक्तेरीश्वराज्जागनिस्थितिप्रलया नाचेतनात्प्रधानादन्यस्माद्वेन्येषोऽर्थ: प्रतिज्ञातो जन्माद्यस्य यत इति ।सा प्रतिज्ञा तदवस्थैव न तद्विरूद्धोऽर्थ: पुनरिहोच्यते ।कथं नोच्यतेऽत्यन्तमात्मन एकत्वमद्वितीयत्वं च ब्रुवता ।शृणु यथा नोच्यते ।सर्वज्ञस्येश्वरस्यात्मभूत इवाविद्याकल्पिते नामरूपे तत्त्वान्यत्वाभ्यामनिर्वचनीये संसारप्रपञ्चबीजभूते सर्वज्ञस्येश्वरस्य मायाशक्ति: प्रकृतिरिति च श्रुतिस्मृ त्योरभिलप्येते ।ताभ्यामन्य: सर्वज्ञ ईश्वर आकाशो वै नाम नामरूपयोर्निर्वहिता ते यदन्तरा तहब्रम्होति श्रुते: ।नामरूपे व्याकरवाणि सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभिवदन्यदास्त एकं बीजं बहुधा य: करोतीत्याद्श्रुतिभ्यश्च । एवमविद्याकृतनामरूपोपाध्यनुरोधीश्वरो भवति व्योमेव घटकरकाद्युपाध्यनुरोधि ।स च स्वात्मभृतानेव घटाकाशस्थानीयानविद्याप्रत्युपस्थापितनामरूपकृतकार्यकरणसङ्घातानुरोधिनो जीवाख्यान्विज्ञानात्मन: प्रतीष्टे व्यवहारविषये ।तदेवमविद्यात्मकोपाधिपरिच्छेदापेक्ष्येवेश्वरस्येश्वरत्वं सर्वज्ञत्वं सर्वशक्तित्वं च न परमार्थतो विद्ययापास्तसर्वोपाधिस्वरूप आत्मनीशित्रीशितव्यसर्वज्ञत्वादिव्यवहार उपपद्यते । तथा चोक्तम् ।यत्र नान्यत्पश्यति नान्यच्छृणोत नान्यद्विजानाति स भूमेति ।यत्र त्वस्य सर्वमास्मैवाभूत्तक्तेन कं पश्येदित्यादिना च ।एवं परमार्थावस्थायं सर्वव्यवहाराभावं वदन्ति वेदान्ता: सर्वे ।तथेश्वरगीतास्वपि :---न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभु: ।न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते ॥नादत्ते कस्यचित्पापं न चैव सुकृतं विभु: ।अज्ञानेनावृतं ज्ञानं तेन मुहयन्ति जन्तव इति ॥परमार्थावस्थायामीशित्रीशितव्यादिव्यवहाराभाव: प्रदर्श्यते ।व्यवहारावस्थायां तूक्त: श्रुतावपीश्वरादिव्यवहार एष सर्वेश्वर एष भूताधिपतिरेष भूतपाल एष सेतुर्विधरण एषां लोकानामसंभेदायेति ।तथा चेश्वरगीतास्वपि :---ईश्वर: सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति ।भामयन्सर्वभूतानि यन्त्रारूढानि माययेति ॥सूत्रकारोऽपि परमार्थाभिप्रायेण तदनन्यत्वमित्याह ।व्यवहाराभिप्रायेण तु स्याल्लोकवदिति महासमुद्रस्थानीयतां ब्रम्हाण: कथयति ।अप्रत्याख्यायैव कार्यप्रपञ्चं परिणामप्रक्रियां चाश्रयति सुगणेषूपासनेषूपयोक्ष्यत इति ॥१४॥ N/A References : N/A Last Updated : December 05, 2014 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP