प्रथम: पाद: - सूत्र १९

ब्रह्मसूत्र वरील हा टीकाग्रंथ आहे. ब्रह्मसूत्र ग्रंथात एकंदर चार अध्याय आहेत.


पटवच्च ॥१९॥

पटवच्च ।
यथा च संवेष्टित: पटो न व्यक्तं गृहयते किमयं पट: किं वाऽन्यदद्रव्यमिति ।
स एव प्रसारितो यत्संवेष्टितं द्रव्यं तत्पट एवेति प्रसारणेनायं व्यक्तो गृहयते ।
यथा च संवेष्टनसमये पट इति गृहयमाणोऽपि न विशिष्टायामविस्तारो गृहयते स एव प्रसारणसमये विशिष्टायामविस्तारो गृहयते न संवेष्टितरूपादन्योऽयं भिन्न: पट इत्येवं तन्त्वादिकारणावस्थं पटादिकार्यमस्पष्टं सत्तुरीवेमकुविन्दादिकारकव्यापारादिभिर्व्यक्तं स्पष्टं गृहयते ।
अत: संवेष्टितप्रसारितपटन्यायेनैवान्यत्कारणास्कार्यमित्यर्थ ॥१९॥

N/A

References : N/A
Last Updated : December 05, 2014

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP